महायोगी बलिस्तस्मादह्गो वङ्गश्च मुख्यकः । पुण्डुः कलिङ्गो बालोयो बलिर्योगी बलान्वितः ।। २७७.
अङ्गाद्दधिवाहनोऽभूत तस्माद्दिविरथो नृपः । दिविरथाद्धर्म्मरथस्तस्य चित्ररथः सुतः ।। २७७.
चित्ररथात्सत्यरथो लोमपादश्च तत्सुतः । लोमपादाच्चतुरङ्गः पृथुलाक्षश्च तत्सुतः ।। २७७.
पृथुलाक्षाच्च चम्पोऽभूच्चम्पाद्धर्य्यङ्गकोऽभवत् । हर्य्यङ्गाच्च भद्ररथो बृहत्कर्म्मा च तत्सुतः ।। २७७.
तस्मादभूद्वॄहद्भानुर्वृहद्भानोर्बृहात्मवान् । तस्माज्जयद्रथो ह्यासीज्जयद्रथाद्वृहद्रथः ।। २७७.
वृहद्रथाद्विश्वजिच्च कर्णो विश्वजितोऽभवत् । कर्णस्य वृषसेनस्तु पृथुसेनस्तदात्मजः । एतेऽङ्गवंशजा भूपाः पूरोर्वंशं निबोध मे ।। २७७.
अग्निरुवाच पुरोर्जनमेजयोऽभूत्प्राचीन्नन्तस्तु तत्सुतः । प्राचीन्नन्तान्मनस्युस्तु तस्माद्वीतमयो तृपः ।। २७८.
शुन्धुर्वीतमयाच्चाऽभूच्छुन्धोर्बहुविधः सुतः । बहुविधाच्च संयातिरहोवादी च तत्सुतः ।। २७८.
तस्य पुत्रोऽथ भद्राश्वो भद्राश्वस्य दशात्मजाः । ऋचेयुश्च कृषेयुश्च सन्नतेयुस्तथात्मजः ।। २७८.
घृतेयुश्च चितेयुश्च स्थण्डिलेयुश्च सत्तमः । धर्म्मोयुः सन्नतेयुश्चः कृचेयुर्म्मतिनारकः ।। २७८.
तंसुरोघः प्रतिरथः पुरस्तो मतिनारजाः । आसीत्प्रतिरथात्कण्वः कण्वान्मेधातिथिस्त्वभूत् ।। २७८.
तंसुरोघाच्च चत्वारो दुष्मन्तोऽथ प्रवीरकः । सुमन्तश्चानयो वीरो दुष्मन्ताद्भरतोऽभवत् ।। २७८.
शकुन्तलायान्तु बली यस्य नाम्ना तु भारताः । सुतेषु मातृकोपेन नष्टेषु भरतस्य च ।। २७८.
ततो मरुद्भिरानीय पुत्रः स तु बृहस्पतेः । संक्रामितो भरद्वाजः क्रतुभिर्व्वितथोऽभवत् ।। २७८.
स चापि वितथः पुत्रान् जनयामास पञ्च वै । सुहोत्रं च सुहोतारं गयं गर्भं तथैव च ।। २७८.
कपिलश्च महात्मानं सुकेतुञ्च सुतद्वयम् । कौशिकञ्च गृत्सपतिं तथा गृत्सपतेः सुताः ।। २७८.
ब्राह्मणाः क्षत्रिया वैश्याः काशे दीर्घतमाः सुताः । ततो धन्वन्तरिश्चासीत्तत्सुतोऽभूच्च केतुमान् ।। २७८.
केतुमतो हेमरथो दिवोदास इतिश्रुतः । प्रतर्दनो दिवोदासाद्भर्गवत्सौ प्रतर्दनात् ।। २७८.
वत्सादनर्क्क आसीच्च अनर्क्कात् क्षेमकोऽभवत् । क्षेमकाद्वर्षकेतुश्च वर्षकेतोर्विभुः स्मृतः ।। २७८.
विभोरानर्त्तः पुत्रोऽभूद्धिभोश्य सुकुमारकः । सुकुमारात्सत्यकेतुर्वत्सभूमिस्तु वत्सकात् ।। २७८.
सुहोत्रस्य बृहत्पुत्रो बृहतस्तनयास्त्रयः । अजमीढो द्विमीढश्च पुरुमीढश्च वीर्य्यवान् ।। २७८.
अजमीढस्य केशिन्यां जज्ञे जह्नुः प्रतापवान् । जह्नोरभूदजकाश्वौ बलाकाश्वस्तदात्मजः ।। २७८.
बलाकाश्वस्य कुशिकः कुशिकात् गाधिरिन्द्रकः । गाधेः सत्यवती कन्या विश्वामित्रः सुतोत्तमः ।। २७८.
देवरातः कतिमुखा विश्वामित्रस्य ते सुताः । शुनः शेफाऽष्टकश्चान्यो ह्यजमीढात् सुतोऽभवत् ।। २७८.
नीलिन्यां शान्तिरपरः पुरुजातिः सुशान्तितः । पुरुजातेस्तु वाह्याश्वो वाह्याशवात् पञ्च पार्थिवाः ।। २७८.
मुकुलः सृञ्जयश्यैव राजा वृहदिषुस्तथा । यवीनरश्च कृमिलः पाञ्चाला इति विश्रुताः ।। २७८.
मुकुलस्य तु मौकुल्याः क्षेत्रोपेता द्विजातयः । चञ्चाश्वो मुकुलाज्जज्ञे चञ्चाश्वान्मिथुनं ह्यभूत् ।। २७८.
दिवोदासो ह्यहल्या च अल्यायां शरद्वतात् । शतानन्दः शतानन्दात् सत्यधृन्मिथुनन्ततः ।। २७८.
कृपः कृपी दिवोदासान्मैत्रेयः सोमपस्ततः । सृञ्चयात् पञ्चधनुषः सोमदत्तश्य तत्सुतः ।। २७८.
सहदेवः सोमदत्तात् सहदेवात्तु सोमकः । आसीच्च सोमकाज्जन्तुर्ज्जन्तोश्च पृषतः सुतः ।। २७८.