तारकामयसङ्ग्रामे तदा देवाश्च पालिताः । निवार्य्येन्द्रं गुरून् देवान् दानवान्सोमवंशकृत् ।। २७६.
विश्वामित्रवशिष्ठात्रिकवयश्च रणे सुरान् । अपालयन्ते निर्व्यार्य्य रगद्वेषादिदानवान् ।। २७६.
पृथ्वीरथे ब्रह्मयन्तुरीशस्य शरणो हरिः । ददाह त्रिपुरं देवपालको दैत्यमर्दनः ।। २७६.
गौरीं जिहीर्षुणा रुद्रमन्धकेनार्दितं हरिः । अनुरक्तश्च रेवत्यां चक्रेचान्धासुरार्दनम् ।। २७६.
वृत्रे देवहरं विष्णुर्देवधर्म्मानपालयत् ।। २७६.
शाल्वादीन् दानवान् जित्वा हरिः परशुरामकः । अपालयत् सुरादींश्च दुष्टक्षत्रं निहत्य च ।। २७६.
हालाहलं विषं दैत्यं निराकृत्य महेश्वरात् । भयं निर्णाशयामास देवानां मधुसूदनः ।। २७६.
हालाहलं विषं यश्च दैत्यः कोलाहलो जितः । पालिताश्च सुराः सर्व्वे विष्णुना धम्मपालनात् ।। २७६.
देवासुरे रणे यश्च दैत्यः कोलाहलो जितः । पालिताश्च सुराः सर्व्वे विष्णुना धर्म्मपालनात् ।। २७६.
राजानो राजपुत्राश्च मुनयो देवता हरिः । यदुक्तं यच्छ नैवोक्तमवतारा हरेरिमे ।। २७६.
अग्निरुवाच तुर्व्वसोश्च सुतो वर्गो गोभानुस्तस्य चात्मजः । गोभानोरासीत् त्रैशानिस्त्रैशानेस्तु करन्धमः ।। २७७.
करन्धमान्मरुत्तोभूऽद्दुष्मन्तस्तस्य चात्मजः । दुष्मन्तस्य वरूथोऽभूद्गाण्डीरस्तु वरूथतः ।। २७७.
गाण्डीराच्चैव गान्धारः पञ्च जानपदास्ततः । गान्धाराः केरलाश्चोलाः पाण्ड्याः कोला महाबलाः ।। २७७.
द्रुह्यस्तु वभ्रुसेतुश्च वभ्रुसेतोः पुरोवसुः । ततो गान्धारा गान्धारैर्घर्म्मो घर्म्माद् घृतोऽभवत् ।। २७७.
घृतात्तु विदुषस्तस्मात् प्रचेतास्तस्य वै शतम् । आनद्रश्च सभानरश्चाक्षुपः परमेषुकः ।। २७७.
सभानरात् कालानलः कालानलजसृञ्जयः । पुरञ्जयः सृञ्जयस्य तत्पुत्रो जनमेजयः ।। २७७.
तत्पुत्रस्तु महाशालस्तुत्पुत्रोऽभून्महामनाः । तस्मादुशीनरो ब्रह्मन्नृगायान्तु तृगस्ततः ।। २७७.
नरायान्तु नरश्चासीत् कृमिस्तु कृमितः सुतः । दशायां सुब्रतो जज्ञे दृशद्वत्यां शिविस्तथा ।। २७७.
शिवेः पुत्त्रास्तु चत्वारः पृथुदर्भश्च वीरकः । कैकेयो भद्रकस्तेषां नाम्ना जनपदाः शुभाः ।। २७७.
तितिक्षुरुशीनरजस्तितिक्षोस्च रुषद्रयः । रुषद्रथादभूत्पैलः पैलाच्च सुतपाः सुतः ।। २७७.
महायोगी बलिस्तस्मादह्गो वङ्गश्च मुख्यकः । पुण्डुः कलिङ्गो बालोयो बलिर्योगी बलान्वितः ।। २७७.
अङ्गाद्दधिवाहनोऽभूत तस्माद्दिविरथो नृपः । दिविरथाद्धर्म्मरथस्तस्य चित्ररथः सुतः ।। २७७.
चित्ररथात्सत्यरथो लोमपादश्च तत्सुतः । लोमपादाच्चतुरङ्गः पृथुलाक्षश्च तत्सुतः ।। २७७.
पृथुलाक्षाच्च चम्पोऽभूच्चम्पाद्धर्य्यङ्गकोऽभवत् । हर्य्यङ्गाच्च भद्ररथो बृहत्कर्म्मा च तत्सुतः ।। २७७.
तस्मादभूद्वॄहद्भानुर्वृहद्भानोर्बृहात्मवान् । तस्माज्जयद्रथो ह्यासीज्जयद्रथाद्वृहद्रथः ।। २७७.
वृहद्रथाद्विश्वजिच्च कर्णो विश्वजितोऽभवत् । कर्णस्य वृषसेनस्तु पृथुसेनस्तदात्मजः । एतेऽङ्गवंशजा भूपाः पूरोर्वंशं निबोध मे ।। २७७.
अग्निरुवाच पुरोर्जनमेजयोऽभूत्प्राचीन्नन्तस्तु तत्सुतः । प्राचीन्नन्तान्मनस्युस्तु तस्माद्वीतमयो तृपः ।। २७८.
शुन्धुर्वीतमयाच्चाऽभूच्छुन्धोर्बहुविधः सुतः । बहुविधाच्च संयातिरहोवादी च तत्सुतः ।। २७८.
तस्य पुत्रोऽथ भद्राश्वो भद्राश्वस्य दशात्मजाः । ऋचेयुश्च कृषेयुश्च सन्नतेयुस्तथात्मजः ।। २७८.
घृतेयुश्च चितेयुश्च स्थण्डिलेयुश्च सत्तमः । धर्म्मोयुः सन्नतेयुश्चः कृचेयुर्म्मतिनारकः ।। २७८.