अशीतिश्च सहस्राणि यादवाः कृष्णरक्षिताः । प्रद्युम्नस्य तु वैदर्भ्यामनिरुद्धो रणप्रियः ।। २७६.
अनिरुद्धस्य वज्राद्या यादवाः सुमहावलाः । तिस्रः कोट्यो यादवानां षष्टिर्लक्षाणि दानवाः ।। २७६.
मनुष्ये बाधका ये तु नन्नाशाय बभूव सः । कर्त्तु कर्मव्यवस्थानं मनुष्यो जायते हरिः ।। २७६.
देवासुराणां सङ्ग्रामा दायार्थं द्वादशाभवन् । प्रथमो नारसिंहस्तु द्वितीयो वामनो रणः ।। २७६.
सङ्ग्रामस्त्वथ वाराहश्चतुर्थोऽमृतमन्थनः । तारकामयसङ्ग्रामः षष्ठो ह्याजीवको रणः ।। २७६.
त्रैपुरश्चान्धकबधो नवमो वृत्रघातकः । जितो हालाहलश्चाथ घोरः कोलाहलो रणः ।। २७६.
हिरण्यकशिपोश्चोरो विदार्य्य च नखैः पुरा । नारसिंहो देवपालः प्रह्लादं कृतवान् नृपम् ।। २७६.
देवासुरे वामनश्च छतित्वा बलिमूर्ज्जतम् । महेन्द्राय ददौ राज्यं काश्यपोऽदितिसम्भवः ।। २७६.
वराहस्तु हिरण्याक्षं हत्वा देवानपालयत् । उज्जहार भुवं मग्नां देवदेवैरभिष्टुतः ।। २७६.
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् । सुरासुरैश्च मथितं२ देवेभ्यश्चामृतं ।। २७६.
तारकामयसङ्ग्रामे तदा देवाश्च पालिताः । निवार्य्येन्द्रं गुरून् देवान् दानवान्सोमवंशकृत् ।। २७६.
विश्वामित्रवशिष्ठात्रिकवयश्च रणे सुरान् । अपालयन्ते निर्व्यार्य्य रगद्वेषादिदानवान् ।। २७६.
पृथ्वीरथे ब्रह्मयन्तुरीशस्य शरणो हरिः । ददाह त्रिपुरं देवपालको दैत्यमर्दनः ।। २७६.
गौरीं जिहीर्षुणा रुद्रमन्धकेनार्दितं हरिः । अनुरक्तश्च रेवत्यां चक्रेचान्धासुरार्दनम् ।। २७६.
वृत्रे देवहरं विष्णुर्देवधर्म्मानपालयत् ।। २७६.
शाल्वादीन् दानवान् जित्वा हरिः परशुरामकः । अपालयत् सुरादींश्च दुष्टक्षत्रं निहत्य च ।। २७६.
हालाहलं विषं दैत्यं निराकृत्य महेश्वरात् । भयं निर्णाशयामास देवानां मधुसूदनः ।। २७६.
हालाहलं विषं यश्च दैत्यः कोलाहलो जितः । पालिताश्च सुराः सर्व्वे विष्णुना धम्मपालनात् ।। २७६.
देवासुरे रणे यश्च दैत्यः कोलाहलो जितः । पालिताश्च सुराः सर्व्वे विष्णुना धर्म्मपालनात् ।। २७६.
राजानो राजपुत्राश्च मुनयो देवता हरिः । यदुक्तं यच्छ नैवोक्तमवतारा हरेरिमे ।। २७६.
अग्निरुवाच तुर्व्वसोश्च सुतो वर्गो गोभानुस्तस्य चात्मजः । गोभानोरासीत् त्रैशानिस्त्रैशानेस्तु करन्धमः ।। २७७.
करन्धमान्मरुत्तोभूऽद्दुष्मन्तस्तस्य चात्मजः । दुष्मन्तस्य वरूथोऽभूद्गाण्डीरस्तु वरूथतः ।। २७७.
गाण्डीराच्चैव गान्धारः पञ्च जानपदास्ततः । गान्धाराः केरलाश्चोलाः पाण्ड्याः कोला महाबलाः ।। २७७.
द्रुह्यस्तु वभ्रुसेतुश्च वभ्रुसेतोः पुरोवसुः । ततो गान्धारा गान्धारैर्घर्म्मो घर्म्माद् घृतोऽभवत् ।। २७७.
घृतात्तु विदुषस्तस्मात् प्रचेतास्तस्य वै शतम् । आनद्रश्च सभानरश्चाक्षुपः परमेषुकः ।। २७७.
सभानरात् कालानलः कालानलजसृञ्जयः । पुरञ्जयः सृञ्जयस्य तत्पुत्रो जनमेजयः ।। २७७.
तत्पुत्रस्तु महाशालस्तुत्पुत्रोऽभून्महामनाः । तस्मादुशीनरो ब्रह्मन्नृगायान्तु तृगस्ततः ।। २७७.
नरायान्तु नरश्चासीत् कृमिस्तु कृमितः सुतः । दशायां सुब्रतो जज्ञे दृशद्वत्यां शिविस्तथा ।। २७७.
शिवेः पुत्त्रास्तु चत्वारः पृथुदर्भश्च वीरकः । कैकेयो भद्रकस्तेषां नाम्ना जनपदाः शुभाः ।। २७७.
तितिक्षुरुशीनरजस्तितिक्षोस्च रुषद्रयः । रुषद्रथादभूत्पैलः पैलाच्च सुतपाः सुतः ।। २७७.