धर्म्माद्युधिष्ठिरः पाण्डोर्वायोः कुन्त्यां वृकोदरः । इन्द्राद्धनञ्जयो माद्र्यां नकुलः सहदेवकः ।। २७५.
वसुदेवाच्च रोहिण्यां रामः सारणदुर्गमौ। वसुदेवाच्च देवक्यामादौ जातः सुसेनकः ।। २७५.
कीर्तिमान् भद्रसेनश्च जारुख्यो विष्णुदासकः । भद्रदेहः कंश एतान् षड्गर्भान्निजघान ह ।। २७५.
ततो बलस्ततः कृष्णः सुभद्रा भद्रभाषिणी । चारुदेष्णश्च शाम्बाद्याः कृष्णाज्जाम्बवतीसुताः ।। २७५.
अग्निरुवाच कश्यपो वसुदेवोऽभूद्देवकी चादितिर्व्वरा । देवक्यां वसुदेवात्तु कृष्णोऽभूत्तपसान्वितः ।। २७६.
धर्म्मसंरक्षणार्थाय ह्यधर्म्महरणाय च । सुरादेः पालनार्थञ्च दैत्यादेर्म्मथनाय च ।। २७६.
रुक्मिणी सत्यभामा च सत्या नग्नजिती प्रिया । सत्यभामा हरेः सेव्या गान्धारी लक्ष्मणा तथा ।। २७६.
मित्रविन्दा१ च कालिन्दी देवी जाम्बवती तथा । सुशीला च तथा माद्री कौशल्या विजया जया ।। २७६.
एवमादीनि देवीनां सहस्राणि तु षोड़श । प्रद्युम्नाद्याश्च रुक्मिण्यां भीमाद्याः सत्यभामया ।। २७६.
जाम्बवत्याञ्च शाम्बाद्याः कृष्णस्यासंस्तथापरे । शतं शतसहस्राणां पुत्राणां तस्य धीमतः ।। २७६.
अशीतिश्च सहस्राणि यादवाः कृष्णरक्षिताः । प्रद्युम्नस्य तु वैदर्भ्यामनिरुद्धो रणप्रियः ।। २७६.
अनिरुद्धस्य वज्राद्या यादवाः सुमहावलाः । तिस्रः कोट्यो यादवानां षष्टिर्लक्षाणि दानवाः ।। २७६.
मनुष्ये बाधका ये तु नन्नाशाय बभूव सः । कर्त्तु कर्मव्यवस्थानं मनुष्यो जायते हरिः ।। २७६.
देवासुराणां सङ्ग्रामा दायार्थं द्वादशाभवन् । प्रथमो नारसिंहस्तु द्वितीयो वामनो रणः ।। २७६.
सङ्ग्रामस्त्वथ वाराहश्चतुर्थोऽमृतमन्थनः । तारकामयसङ्ग्रामः षष्ठो ह्याजीवको रणः ।। २७६.
त्रैपुरश्चान्धकबधो नवमो वृत्रघातकः । जितो हालाहलश्चाथ घोरः कोलाहलो रणः ।। २७६.
हिरण्यकशिपोश्चोरो विदार्य्य च नखैः पुरा । नारसिंहो देवपालः प्रह्लादं कृतवान् नृपम् ।। २७६.
देवासुरे वामनश्च छतित्वा बलिमूर्ज्जतम् । महेन्द्राय ददौ राज्यं काश्यपोऽदितिसम्भवः ।। २७६.
वराहस्तु हिरण्याक्षं हत्वा देवानपालयत् । उज्जहार भुवं मग्नां देवदेवैरभिष्टुतः ।। २७६.
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् । सुरासुरैश्च मथितं२ देवेभ्यश्चामृतं ।। २७६.
तारकामयसङ्ग्रामे तदा देवाश्च पालिताः । निवार्य्येन्द्रं गुरून् देवान् दानवान्सोमवंशकृत् ।। २७६.
विश्वामित्रवशिष्ठात्रिकवयश्च रणे सुरान् । अपालयन्ते निर्व्यार्य्य रगद्वेषादिदानवान् ।। २७६.
पृथ्वीरथे ब्रह्मयन्तुरीशस्य शरणो हरिः । ददाह त्रिपुरं देवपालको दैत्यमर्दनः ।। २७६.
गौरीं जिहीर्षुणा रुद्रमन्धकेनार्दितं हरिः । अनुरक्तश्च रेवत्यां चक्रेचान्धासुरार्दनम् ।। २७६.
वृत्रे देवहरं विष्णुर्देवधर्म्मानपालयत् ।। २७६.
शाल्वादीन् दानवान् जित्वा हरिः परशुरामकः । अपालयत् सुरादींश्च दुष्टक्षत्रं निहत्य च ।। २७६.
हालाहलं विषं दैत्यं निराकृत्य महेश्वरात् । भयं निर्णाशयामास देवानां मधुसूदनः ।। २७६.
हालाहलं विषं यश्च दैत्यः कोलाहलो जितः । पालिताश्च सुराः सर्व्वे विष्णुना धम्मपालनात् ।। २७६.
देवासुरे रणे यश्च दैत्यः कोलाहलो जितः । पालिताश्च सुराः सर्व्वे विष्णुना धर्म्मपालनात् ।। २७६.
राजानो राजपुत्राश्च मुनयो देवता हरिः । यदुक्तं यच्छ नैवोक्तमवतारा हरेरिमे ।। २७६.