हविर्ज्यामघः पापघ्नो ज्यामघः स्त्रीजितोऽभवत् । सेव्यायां ज्यामघादासीद्विदर्बस्तस्य कौशिकः ।। २७५.
लोमपादः क्रथः श्रेष्ठात् कृतिः स्याल्लोमपादतः । कौशिकस्य चिदिः पुत्रस्तस्माच्चैद्या नृपाः स्मृताः ।। २७५.
क्रथाद्विदर्भपुत्राश्च कुन्तिः कुन्तेस्तु धृष्टकः । धृष्टस्य निधृतिस्तस्य उदर्काख्यो विदूरथः ।। २७५.
दशार्हपुत्रो व्योमस्तु व्योमाज्जीमूत उच्यते । जीमूतपुत्रो विकलस्तस्य भीमरथः सुतः ।। २७५.
भीमरथान्नवरथस्ततो दृढ़रथोऽभवत् । शकुन्तिश्च दृढ़रथात् शकुन्तेश्च करम्भकः ।। २७५.
करम्भाद्देवलातोऽभुत् देवक्षेत्रश्च तत्सुतः । देवक्षेत्रान्मधुर्नाम मधोर्द्रवरसोऽभवत् ।। २७५.
द्रवरसात् पुरुहुतोऽभूज्जन्तुरासीत्तु तत्सुतः । गुणी तु यादवो राजा जन्तुपुत्रस्तु सात्त्वतः ।। २७५.
भजमानस्य वाह्योऽभूद्वृष्टिः कृमिर्निमिस्तथा । देवावृधाद्वभ्रुरासीत्तस्य श्लोकोऽत्र गीयते ।। २७५.
यथैव श्रृणुमो दूरात् गुणांस्तद्वत्समन्तिकात् । वभ्रुः श्रेष्ठो मनुष्याणआं देवैर्देवावृधः समः ।। २७५.
चत्वारश्च सुता वभ्रोर्वासुदेवपरा नृपाः । कुहुरो भजमानस्तु शिनिः कम्बलवर्हिषः ।। २७५.
कुहुरस्य सुतो धृष्णुर्धृष्णोस्तु तनयो धृतिः । धृतेः कपोतरोमाभूत्तस्य पुत्रस्तु तित्तिरिः ।। २७५.
तित्तिरेस्तु नरः पुत्रस्तस्य चन्दनदुन्दुभिः । पुनर्वसुस्तस्य पुत्र आहुतश्चाहुकीसुतः ।। २७५.
आहुकाद्देवको जज्ञे उग्रसेनस्ततोऽभवत् । देववानुपदेवश्च देवकस्य सुताः स्मृता ।। २७५.
तेषां स्वसारः सप्तासन् वसुदेवाय ता ददौ । देवकी श्रुतदेवी च मित्रदेवी यशोधरा ।। २७५.
श्रीदेवी सत्यदेवी च सुरापी चेति सप्तमी । नवोग्रसेनस्य सुताः कंसस्तेषाञ्च पूर्वजः ।। २७५.
न्यग्रोधश्च सुनामा च कङ्कः शङ्कुश्च भूमिपः । सुतनूराष्ट्रपालश्च युद्धमुष्टिः सुमुष्टिकः ।। २७५.
भजमानस्य पुत्रोऽथ रथमुख्यो विदूरथः । राजाधिदेवः शूरश्च विदूरथसुतोऽभवत् ।। २७५.
राजाधिदेवपुत्रौ द्वौ शोणाश्वः श्वेतवाहनः । शोणाश्वस्य सुताः पञ्च शमी शत्रुजिदादय ।। २७५.
शमीपुत्रः प्रतिक्षेत्रः प्रतिक्षेत्रस्य भोजकः । भोजस्य हृदिकः पुत्रो हृदिकस्य दशात्मजाः ।। २७५.
कृतवर्म्मा शतधन्वा देवार्हो भीषणादयः । देवार्हात् कम्बलवर्हिरसमौजास्ततोऽभवत् ।। २७५.
सुदंष्ट्रश्च सुवासश्च धृष्टोऽभूदसमौजसः। गान्धारी चैव माद्री च धृष्टभार्य्ये बभूवतुः ।। २७५.
सुमित्रोऽभूच्च गान्धार्य्यां माद्री जज्ञे युधाजितम् । अनमित्रः शिनिर्धृष्टात्ततो वै देवमीढुषः ।। २७५.
अनमित्रसुतो निघ्नो निघ्नस्यापि प्रसेनकः । सत्राजितः प्रसेनोऽथ मणिं सूर्य्यात् स्यमन्तकम् ।। २७५.
प्राप्यारण्ये चरन्तन्तु सिंहो हत्वाऽग्रहीन्मणिं । हतो जाम्बतवता सिंहो जाम्बवान् हरिणा जितः ।। २७५.
तस्मान्मणिं जाम्बवतीं प्राप्यागाद्द्वारकां पुरीम् । सत्राजिताय प्रददौ शतधन्वा जघान् तम् ।। २७५.
हत्वा शतधनुं कृषणो मणिमादाय कीर्त्तिभाक् । बलयादवमुख्याग्रे अक्रूरान्मणिमर्पयेत् ।। २७५.
मिथ्याभिशस्तिं कृष्णस्य त्यक्त्वा स्वर्गी च सम्पठन् । सत्राजितो भङ्गकारः सत्यभामा हरेः प्रिया ।। २७५.
अनमित्राच्छिनिर्जज्ञे सत्यकस्तु शिनेः सुतः । सत्यकात्सात्यकिर्जज्ञे युयुधानाद्धुनिर्ह्यभूत् ।। २७५.
धुनेर्युगन्धरः पुत्रः स्वाह्योऽभूत स युधाजितः । ऋषभक्षेत्रकौ तस्य ह्यृषबाच्च स्वफल्ककः ।। २७५.
स्वफल्कपुत्रो ह्यक्रूरो अक्रूरच्च सूधन्वकः । शूरात्तु वसुदेवाद्याः पृथा पाण्डोः प्रियाऽभवत् ।। २७५.