देवानां दानवानाञ्च लोकक्षयकरं महत् । ब्राह्मा निवार्य्योशनसन्तारामङ्गिरसे ददौ ॥ २७४.
तामन्तःप्रसवां दृष्ट्वा गर्भं त्यजाब्रवीद्गुरुः । गर्भस्त्यक्तः प्रदीप्तोऽथ प्राहाहं सोमसम्भवः ॥ २७४.
एवं सोमाद् बुधः पुत्त्रः पुत्त्रस्तस्य पुरूरवाः । स्वर्गन्त्यक्त्वोर्वशी सा तं वरयामास चाप्सराः ॥ २७४.
तथा सहाचरद्राजा दशवर्षाणि पञ्च च । पञ्च षट् सप्त चाष्टौ च दश चाष्टौ महामुने ॥ २७४.
एकोऽग्निरभवत् पूर्व्वं तेन त्रेता प्रवर्त्तिता । पुरूरवा योगशीलो गान्धर्व्वलोकमीयिवान् ॥ २७४.
आयुर्दृढायुरश्वायुर्धनायुर्धृतिमान् वसुः । दिविजातः शतायुश्च सुषुवे चोर्व्वशी नृपान् ॥ २७४.
आयुषो नहुषः पुत्रो वृद्धशर्म्मा रजिस्तथा । दर्भो विपाप्मा पञ्चागन्यं रजेः पुत्रशतं ह्यभूत् ॥ २७४.
राजेया इति विख्याता विष्णुदत्तवरो रजिः । देवासुरे रणे दैत्यानबधीत् सुरयाचितः ॥ २७४.
गतायेन्द्राय पुत्रत्वं दत्वा राज्यं दिवङ्गतः । रजेः पुत्रैर्हृतं राज्यं शक्रस्याथ सुदुर्म्मनाः ॥ २७४.
ग्रहशान्त्यादिविधिना गुरुरिन्द्राय तद्ददौ । मोहयित्वा रजिसुतानासंस्ते निजधर्म्मगाः ॥ २७४.
नहुषस्य सुताः सप्त यतिर्य्ययातिरुत्तमः । उद्भवः पञ्चकश्चैव शर्य्यातिमेघपालकौ ॥ २७४.
यतिः कुमारभावेऽपि विष्णुं ध्यात्वा हरिं गतः । देवयानी सुक्रकन्या ययातेः पत्न्यऽभूत्तदा ॥ २७४.
वृषपर्व्वजा सर्म्मिष्ठा ययातेः पञ्च तत्सुताः । यदुञ्च तुर्व्वसुञ्चैव देवयानी व्यजायत ॥ २७४.
द्रुह्यञ्चानूञ्च पूरुञ्च शर्म्मिष्ठा वार्षपर्व्वणी । यदुः पूरुश्चाभवतान्तेषां वंशविवर्द्धनौ ॥ २७४.
अग्निरुवाच यदोरासन्पञ्च पुत्रा ज्येष्ठस्तेषु सहस्रजित् । नीलाञ्जिको रधुः क्रोष्टुः शतजिच्च सहस्रजित् ।। २७५.
शतजिद्धैहयो रेणुहयो हय इति त्रयः । धर्म्मनेत्रो हैहयस्य धर्म्मनेत्रस्य संहनः ।। २७५.
महिमा संहनस्यासीन्महिम्नो भद्रसेनकः । भद्रसेनाद् दुर्गमोऽभूद्दुर्गभात्कनकोऽभवत् ।। २७५.
कनकात् कृतवीर्य्यस्तु कृताग्निः करवीरकः । कृतौजाश्च चचतुर्थोऽभूत् कृतवीर्य्यात्तु सोऽर्जुनः ।। २७५.
दत्तोऽर्ज्जुनाय तपते सप्तद्वीपमहीशताम् । ददौ बाहुसहस्रञ्च अजेयत्वं रणेऽरिणा ।। २७५.
अधर्म्मै वर्त्त मानस्य विष्णुहस्तान्मृतिर्ध्रु बा । दश यज्ञसहस्राणि सोऽर्ज्जुनः कृतवान्तृपः ।। २७५.
अनष्टद्रव्यता राष्ट्रे तस्य संस्मरणादभूत् । न नूनं कार्त्तवीर्य्यस्य गतिं यास्यन्ति वै नृपाः ।। २७५.
यज्ञैर्द्दानैस्तपोभिश्च विक्रमेण श्रुतेन च । कार्त्तवीर्यस्य च शतं पुत्त्राणां पञ्च वै पराः ।। २७५.
सूरसेनश्च सूरश्च धृष्टोक्तः कृष्ण एव च । जयध्वजश्च नामासीदावन्त्यो नृपतिर्महान् ।। २७५.
जयध्वजात्तालजङ्घस्तालजङ्घात्ततः सुताः । हैहयानां कुलाः पञ्च भोजाश्चावन्तयस्तथा ।। २७५.
वीतिहोत्राः स्वयं जाताः शौण्डिकेयास्तथैव च । वीतिहोत्रादनन्तोऽभूदनन्ताद्दुर्ज्जयो नृपः ।। २७५.
क्रोष्टोर्व्वंशं प्रवक्षअयामि यत्र जातो हरिःस्वयम् । क्रोष्टोस्तु वृजिनीवांश्च स्वाहाऽभूद्वृजिनीवतः ।। २७५.
स्वाहापुत्रो रुषद्गुश्च तस्य चित्रस्थः सुतः । शशविन्दुश्चित्ररथाच्चक्रवर्त्ती हरौ रतः ।। २७५.
शशविन्दोश्च पुत्त्राणां शतानामभवच्छतम् । धीमतां चारुरूपाणां भूरिद्रविणतेजसाम् ।। २७५.
पृथुश्रवाः प्रधानोऽभूत्तस्य पुत्त्रः सुयज्ञकः । सुयज्ञस्योशनाः पुत्रस्तितिक्षुरुशनः सुतः ।। २७५.
तितिक्षोस्तु मरुत्तोऽभूत्तस्मात्कम्बलवर्हिषः । पञ्चाशद्रुक्मकवचाद्रुक्मेषुः पृथुरुक्मकः ।। २७५.