चन्द्रावलोकतस्तारापीड़ोऽस्माच्चन्द्रपर्वतः । चन्द्रगिरेर्भानुरथः श्रुतायुस्तस्य चात्मजः २७३.
अग्निरुवाच सोमवंशं प्रवक्ष्यामि पठितं पापनाशनम् । विष्णुनाभ्यब्जजो ब्रह्मा ब्रह्मपुत्रोऽत्रिरत्रितः ॥ २७४.
सोमश्चक्रे राजसूयं त्रैलोक्यं दक्षइणआन्ददौ । समाप्तेऽवभृथे सोमं तद्रूपालोकनेच्छवः ॥ २७४.
कामवाणाभितप्ताङ्ग्यो नरदेव्यः सिषेविरे । लक्ष्मीर्न्नारायणं त्यक्त्वा सिनीवाली च कर्द्दमम् ॥ २७४.
द्युतिं विभावसुन्त्यक्त्वा पुष्टिर्धातारमव्ययम् । प्रभा प्रभाकरन्त्यक्त्वा हविष्मन्तं कुहूः स्वयम् ॥ २७४.
कीर्त्तिर्जयन्तम्भर्त्तारं वसुर्म्मारीचकश्यपम् । धृतिस्त्यक्त्वा पतिं नन्दीं सोममेवाभजत्तदा ॥ २७४.
स्वकीया इव सोमोऽपि कामयामास तास्तदा । एवं कृतापचारस्य तासां भर्त्तृगणस्तदा ॥ २७४.
न शशाकापचाराय शापैः शस्त्रादिभिः पुनः । सप्तलोकैकनाथत्वमवाप्तस्तपसा ह्युत ॥ २७४.
विवभ्राम मतिस्तस्य विनयादनया हता । बृहस्पतेः स वै भार्य्यां तारां नाम यशस्विनीम् ॥ २७४.
जहार तरसा सोमो ह्यवमन्याङ्गिरःसुतम् । ततस्तद्युद्धमभवत् प्रख्यातं ताकामयम् ॥ २७४.
देवानां दानवानाञ्च लोकक्षयकरं महत् । ब्राह्मा निवार्य्योशनसन्तारामङ्गिरसे ददौ ॥ २७४.
तामन्तःप्रसवां दृष्ट्वा गर्भं त्यजाब्रवीद्गुरुः । गर्भस्त्यक्तः प्रदीप्तोऽथ प्राहाहं सोमसम्भवः ॥ २७४.
एवं सोमाद् बुधः पुत्त्रः पुत्त्रस्तस्य पुरूरवाः । स्वर्गन्त्यक्त्वोर्वशी सा तं वरयामास चाप्सराः ॥ २७४.
तथा सहाचरद्राजा दशवर्षाणि पञ्च च । पञ्च षट् सप्त चाष्टौ च दश चाष्टौ महामुने ॥ २७४.
एकोऽग्निरभवत् पूर्व्वं तेन त्रेता प्रवर्त्तिता । पुरूरवा योगशीलो गान्धर्व्वलोकमीयिवान् ॥ २७४.
आयुर्दृढायुरश्वायुर्धनायुर्धृतिमान् वसुः । दिविजातः शतायुश्च सुषुवे चोर्व्वशी नृपान् ॥ २७४.
आयुषो नहुषः पुत्रो वृद्धशर्म्मा रजिस्तथा । दर्भो विपाप्मा पञ्चागन्यं रजेः पुत्रशतं ह्यभूत् ॥ २७४.
राजेया इति विख्याता विष्णुदत्तवरो रजिः । देवासुरे रणे दैत्यानबधीत् सुरयाचितः ॥ २७४.
गतायेन्द्राय पुत्रत्वं दत्वा राज्यं दिवङ्गतः । रजेः पुत्रैर्हृतं राज्यं शक्रस्याथ सुदुर्म्मनाः ॥ २७४.
ग्रहशान्त्यादिविधिना गुरुरिन्द्राय तद्ददौ । मोहयित्वा रजिसुतानासंस्ते निजधर्म्मगाः ॥ २७४.
नहुषस्य सुताः सप्त यतिर्य्ययातिरुत्तमः । उद्भवः पञ्चकश्चैव शर्य्यातिमेघपालकौ ॥ २७४.
यतिः कुमारभावेऽपि विष्णुं ध्यात्वा हरिं गतः । देवयानी सुक्रकन्या ययातेः पत्न्यऽभूत्तदा ॥ २७४.
वृषपर्व्वजा सर्म्मिष्ठा ययातेः पञ्च तत्सुताः । यदुञ्च तुर्व्वसुञ्चैव देवयानी व्यजायत ॥ २७४.
द्रुह्यञ्चानूञ्च पूरुञ्च शर्म्मिष्ठा वार्षपर्व्वणी । यदुः पूरुश्चाभवतान्तेषां वंशविवर्द्धनौ ॥ २७४.
अग्निरुवाच यदोरासन्पञ्च पुत्रा ज्येष्ठस्तेषु सहस्रजित् । नीलाञ्जिको रधुः क्रोष्टुः शतजिच्च सहस्रजित् ।। २७५.
शतजिद्धैहयो रेणुहयो हय इति त्रयः । धर्म्मनेत्रो हैहयस्य धर्म्मनेत्रस्य संहनः ।। २७५.
महिमा संहनस्यासीन्महिम्नो भद्रसेनकः । भद्रसेनाद् दुर्गमोऽभूद्दुर्गभात्कनकोऽभवत् ।। २७५.
कनकात् कृतवीर्य्यस्तु कृताग्निः करवीरकः । कृतौजाश्च चचतुर्थोऽभूत् कृतवीर्य्यात्तु सोऽर्जुनः ।। २७५.
दत्तोऽर्ज्जुनाय तपते सप्तद्वीपमहीशताम् । ददौ बाहुसहस्रञ्च अजेयत्वं रणेऽरिणा ।। २७५.
अधर्म्मै वर्त्त मानस्य विष्णुहस्तान्मृतिर्ध्रु बा । दश यज्ञसहस्राणि सोऽर्ज्जुनः कृतवान्तृपः ।। २७५.