उर्ज्जायाञ्च वशिष्ठाश्च राजा गात्रोर्ध्वबाहुकः । सवनश्चालघुः सुक्रः सुतपाः सप्त चर्षयः
पावकः पवमानोभूच्छुचिः स्वाहाग्निजोभवत्। अग्निस्वात्ता वर्हिषदोऽनग्नयः साग्नयो ह्यजात्
पितृभ्यश्च स्वधायाञ्च मेना वैधारिणी सुते । हिंसाभार्या त्वधर्मस्य तयोर्जज्ञे तथानृतम्
कन्या च निकृतिस्ताभ्यां भयन्नरकमेव च। माया च वेदना चैव मिथुनन्त्विदमेतयोः
तयोर्जज्ञेथ वै मायां मृत्युं भूतापहारिणम्। वेदना च सुतं चापि दुः खं जज्ञेथ रौरवात्
मृत्योर्व्याधिजराशोकतृष्णाक्रोधाश्च जज्ञिरे। ब्रह्मणश्च रुदन् जातो रोदनाद्रुद्रनामकः
भवं शर्वमथेशानं तथा पशुपतिं द्विज। भीममुग्रं महादेवमुवाच स पितामहः
दक्षकोपाच्च तद्भार्या देहन्तत्याज सा सती। हिमवद्दुहिता भूत्वा पत्नी शम्भोरभूत् पुनः
ऋषिभ्यो नारदाद्युक्ताः पूजाः स्नानादिपूर्विकाः। स्वायम्भुवाद्यास्ताः कृत्वा विष्णवादेर्भुक्तिमुक्तिदाः
नारद उवाच सामान्यपूजां विष्णवादेर्वक्ष्ये मन्त्रांश्च सर्वदान्। समस्तपरिवाराय अच्युताय नमो यजेत
धात्रे विधात्रे गङ्गायै यमुनायै निधी तथा। द्वारश्रियं वास्तुनवं शक्तिं कूर्म्मनन्तकम्
पृथिवीं धर्म्मकं ज्ञानं वैराग्यैश्वर्यमेव च। अधर्मादीन् कन्दनालपद्मकेशरकर्णिकाः
ऋग्वेदाद्यं कृताद्यञ्च सत्त्वाद्यर्क्कादिमण्डलम्। विमलोत्कर्षिणी ज्ञाना क्रिया योगा च ता यजेत्
प्रह्वीं सत्यां तथेशानानुग्रहसनमूर्त्तिकाम् । दुर्गां गिरङ्गणं क्षेत्रं वासुदेवादिकं यजेत्
हृदयञ्च शिरः शूलं वर्मनेत्रमथास्त्रकम्। शङ्खं चक्रं गदां पद्मं श्रीवत्सं कौस्तुभं यजेत्
वनमालां श्रियं पुष्टिं गरुडं गुरुमर्चयेत्। इन्द्रमग्निं यमं रक्षो जलं वायुं धनेश्वरम्
ईशानन्तमजं चास्त्रं वाहनं कुमुदादिकम्। विष्वकसेनं मण्डलादौ सिद्धिः पूजादिना भवेत्
शिवपूजाथ सामान्या पूर्वं नन्दिनमर्च्चयेत्। महाकालं यजेद्गङ्गां यमुनाञ्च गणादिकम्
गिरं श्रियं गुरुं वास्तुं शक्त्यादीन् धर्मकादिकम्। वामा ज्येष्ठा तथा रौद्री काली कलविकारिणी
बलविकरिणी चापि बलप्रमथिनी क्रमात्। सर्वभूतदमनी च मदनोन्मादिनी शिवासनम्
हां हुं हां शिवमूर्त्तये साङ्गवक्त्रं शिवं यजेत्। हौं शिवाय हामित्यादि हामीशानादिवक्त्रकम्
ह्रीं गौरीं गं गणः शक्रमुखाश्चण्डीहृदादिकाः। क्रमात्सूर्य्यार्च्यने मन्त्रा दण्डी पूज्यश्च पिङ्गलः
उच्चैः श्रवाश्चारुणश्च प्रभूतं विमलं यजेत्। साराध्योपरमसुखं स्कन्दाद्यंमध्यतो यजेत्
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा। अमोघा विद्युता चैव पूज्याथ सर्वतोमुखी
अर्क्कासनं हि हं खं ख सोल्कायेति च मूर्तिकाम्। ह्रां ह्रीं स सूर्य्याय नम आं नमो ह्रदयाय च
अर्क्काय शिकसे तद्वदग्नीशासुरवायुगान् । भूर्भवः स्वरे ज्वालिनि शिखा हुं कवचं स्मृतम्
मां नेत्रं वस्तथार्क्कास्त्रं राज्ञी शक्तिश्च निष्कुभा । सोमोऽङ्गारकोथ बुधो जीवः शुक्रः शनिः क्रमात्
राहुः केतुस्तेजश्चण्डः सङ्क्षेपादथ पूजनम्। आसनं मूर्त्तये मूलं हृदाद्यं परिचारकः
विष्णवासनं विष्णुमूर्त्ते रों श्रीं श्रीं श्रीधरो हरिः। ह्रीं सर्वमूर्त्तिमन्त्रीयमिति त्रैलोक्यमोहनः
ह्रीं हृषीकेशः क्लीं विष्णुः स्वरैर्द्दीर्घैर्हृदादिकम्। समस्तैः पञ्चमी पूजा सङ्ग्रामादौ जयादिदा