दिक् सर्व्वा राजवर्य्यस्य गयस्य तु गयापुरी । वशिष्ठवाक्यात् सुद्युम्नः प्रतिष्ठानमवाप ह ।। २७३.
तत् पुरूरवसे प्रादात्सुद्युम्नो राज्यमाप्य तु । नरिष्यतः शकाः पुत्रा नाभागस्य च वैष्णवः ।। २७३.
अम्बरीषः प्रजापालो धार्ष्टकं धृष्टतः कुलम् । सुकल्गनर्त्तौ शर्य्यातेर्वैरोह्यानर्त्ततो नृपः ।। २७३.
अनार्त्तविषयश्चासीत् पुरी चासीत् कुशस्थली । रेवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः ।। २७३.
ज्येष्ठः पुत्रशतस्यासीद्राज्यं प्राप्य [https://vedastudy.yolasite.com/kusha1.php कुशस्थलीम्] । स कन्यासहितः श्रुत्वा गान्धर्व्वं ब्रह्मणोऽन्तिके ।। २७३.
मुहूर्त्तभूतं देवस्य मर्त्ये बहुयुगं गतम् । आजगाम जवेनाथ स्वां पुरीं यादवैर्वृताम् ।। २७३.
कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् । भोजवृष्णयन्धकैर्गुप्तां वासुदेवपुरोगमैः ।। २७३.
रेवतीं बलदेवाय ददौ ज्ञात्वा ह्यनिन्दिताम । तपः सुमेरुशिखरे तप्त्वा विष्णवालयं गतः ।। २७३.
नाभागस्य च पुत्रौ द्वौ वैश्यौ ब्राह्मणातां गतौ । करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्म्मदाः ।। २७३.
शूद्रत्वञ्च पृषध्रोऽगाद्धिंसयित्वा गुरोश्च गाम् । मनुपुत्रादथेक्षआकोर्विकुक्षइर्देवराडभूत् ।। २७३.
विकुक्षेस्तु ककुत्स्थोऽभूत्तस्य पुत्रः सुयोधनः । तस्य पुत्रः पृथुर्न्नाम विश्वगश्वः पृथोः सुतः ।। २७३.
आयुस्तस्य च पुत्रोऽभुत्तस्य पुत्रः सुथोधनः । तस्य पुत्रः पृथुर्न्नाम विश्वगश्वः पृथोः सुतः ।। २७३.
श्रावन्ताद् वृहदश्वोऽभूत कुबलाश्वस्ततो नृपः । धुन्धुमारत्वमगमद्धुन्धोर्न्नाम्ना च वै पुरा ।। २७३.
धुन्धुमारास्त्रयो भूपा दृढ़ाश्वो दण्ड एव च । कपिलोऽथ दृढ़ाश्वात्तु हर्य्यश्वश्च चप्रमोदकः ।। २७३.
हर्यश्वाच्च निकुम्भोऽभूत् संहताश्वो निकुम्भतः । अकृशाश्वश्च संहताश्वसुतावुभौ ।। २७३.
युवनाश्वो रणाश्वस्य मान्धाता युवनाश्वतः । मान्धातुः पुरुकुत्सोऽभून्मुचुकुन्दो द्वितीयकः ।। २७३.
पुरुकुत्सादसस्युश्च सम्भूतो नर्मदाभवः । सम्भूतस्य सुधन्वाऽभूत्त्रिधन्वाथ सुधन्वनः ।। २७३.
त्रिधन्वनस्तु तरुणस्तस्य सत्यव्रतः सुतः । सत्यव्रतात्सत्यरथो हरिश्चन्द्रश्च तत् सुतः ।। २७३.
हरिश्चन्द्राद्रोहिताश्वो रोहिताश्वाद्वृकोऽभवत् । वृकाद्वाहुश्च वाहोश्च सगरस्तस्य च प्रिया ।। २७३.
प्रबा षष्टिसहस्राणां सुतानां जननी ह्यऽभूत् । तुष्टादौर्वान्नृपादेकं भानुमत्यसमञ्जसम् ।। २७३.
खनन्तः पृथिवीं दग्धा विष्णुना बहुसागराः । असमञ्जसोंऽशुमांश्च दिलीपोंऽशुमतोऽभवत् ।। २७३.
भगीरथो दिलीपात्तु येन गङ्गावतारिता । भगीरथात्तु नाभागो नाभागादम्बरीषकः ।। २७३.
सिन्धुद्वीपोऽम्बरीषात्तु श्रुतायुस्तत्सुतः स्मृतः । श्रुतायोर्ऋतपर्णोऽभूत्तस्य कल्माषपादकः ।। २७३.
कल्माषाङ्घ्रेः सर्व्वकर्म्मा ह्यनरण्यस्ततोऽभवत् । अनरण्यात्तु निघ्नोऽथ अनमित्रस्ततो रघुः ।। २७३.
रघोरभूद्दिलीपस्तु दिलीपाच्चाप्यजो नृपः । दीर्घवाहुरजात् कालस्त्वजापालस्ततोऽभवत् ।। २७३.
तथा दशरथो जातस्तस्य पुत्रचतुष्टयम् । नारायणात्मकाः सर्वे रामस्तस्याग्रजोऽभवत् ।। २७३.
रावणान्तकरो राजा ह्ययोध्यायां रघूत्तमः । वाल्मीकिर्यस्य चरितं चक्रे तन्नारदश्रवात् ।। २७३.
रामपुत्रौ कुशलवौ सीतायां कुलवर्द्धनौ । अतिथिश्च कुशाज्जज्ञे निषधस्तस्य चात्मजः ।। २७३.
निषधात्तु नलो जज्ञे नभोऽजायत वै नलात् । नभसः पुण्डरीकोऽभूत् सुधन्वा च ततोऽभवत् ।। २७३.
सुधन्वनो देवानीको ह्यहीनाश्वश्च तुत्सुतः । अहीनाश्वात् सहस्राश्वश्चन्द्रालोकस्ततोऽभवत् ।। २७३.