सहेमगरुड़ञ्चैत्र्यां पदमाप्नोति वैष्णवम् । चतुरशीतिसाहस्रं स्कान्दं स्कन्देरितं महत् ।। २७२.
अधिकृत्य सधर्म्मांश्च कल्पे तत्पुरुषेऽर्पयेत्। वामनं दशसाहस्रं धौमकल्पे हरेः कथा ।। २७२.
दद्यात् शरदि विषुवे धर्मार्थादिनिवोधनम् । कूर्मञअचाष्टसहस्रञ्च कूर्मोक्तञ्च रसातले ।। २७२.
इन्द्रद्युम्नप्रसङ्गेन दद्यात्तद्धेमकूर्मवत् । त्रयोदशसहस्राणि मात्स्यं कल्पादितोऽब्रवीत् ।। २७२.
मत्स्यो हि मनवे दद्याद्विषुवे हेममत्स्यवत् । गारुड़ञ्चाष्टसाहस्रं विष्णूक्तन्तार्क्षकल्पके ।। २७२.
विश्वाण्डाद्गरुड़ोत्पत्तिं तद्दद्याद्धेमहंसवत् । ब्रह्मा ब्रह्माण्डमाहात्म्यमधिकृत्याब्रवीत्तु ।। २७२.
वाचकं पूजयेदादौ भोजयेत् पायसैर्द्विजान् । गोभूग्रामसुवर्णादि दद्यात्पर्वणि पर्वणि ।। २७२.
समाप्ते बारते विप्रं संहितापुस्तकान्यजेत् । शुभे देशे निवेश्याथ क्षौमवस्त्रादिनावृतान् ।। २७२.
नरनारायणऔ पूज्यौ पुस्तकाः कुसुमादिभिः । गोऽन्नभूहेम दत्वाथ भोजयित्वा क्षमापयेत् ।। २७२.
महादानानि देयानि रत्नानि विविधानि च । मासकौ द्वौ त्रयश्चैव मासे मासे प्रदापयेत् ।। २७२.
अयनादौ श्रवकस्य दानमादौ विधीयते । श्रीतृभिः सकलैः कार्य्यं श्रावके पूजनं द्विज ।। २७२.
इतिहासपुराणानां पुस्तकानि प्रयच्छति । पूजयित्वायुरारोग्यं स्वर्गमोक्षमवाप्नुयात् ।। २७२.
अग्निरुवाच सूर्य्यवंशं सोमवंशं राज्ञां वंशं वदामि ते । हरेर्ब्रह्मा पद्मगोऽभून्मरीचिर्ब्रह्मणाः सुतः ।। २७३.
मरीचेः कश्यपस्तस्माद्विवस्वांस्तस्य पत्न्यपि । संज्ञा राज्ञी प्रभा तिस्रो राज्ञी रैवतपुत्रिका ।। २७३.
रेवन्तं सुषुवे पुत्रं प्रभातञ्च चप्रभा रवेः । त्वाष्ट्री संज्ञा मनुं पुत्रं यमलौ यमुनां यमम् ।। २७३.
छाया संज्ञा च सावर्णिं मनुं वैवस्वतं सुतम् । शनिञ्चि तपतीं विष्टिं संज्ञायाञ्चाश्विनौ पुनः ।। २७३.
मनोर्वैवस्वतस्यासन् पुत्रा वे न च तत्समाः । इक्ष्वाकुश्चैव नाभागो धृष्टः शर्य्यातिरेव च ।। २७३.
नरिष्यन्तस्तथा प्रांशुर्नाभागादिष्टसत्तमाः । करुषश्च पूषध्रश्च अयोध्यायां महाबलाः ।। २७३.
कन्येला च मनोरासीद्बुधात्तस्यां पुरूरवाः । पुरूरवसमुत्पाद्य सेला सुद्युम्नताङ्गता ।। २७३.
सुद्युम्नादुत्कलगयौ विनताश्वस्त्रयो नृपाः । उत्कलस्योत्कलं राष्ट्र विनताश्वस्य पश्चिमा ।। २७३.
दिक् सर्व्वा राजवर्य्यस्य गयस्य तु गयापुरी । वशिष्ठवाक्यात् सुद्युम्नः प्रतिष्ठानमवाप ह ।। २७३.
तत् पुरूरवसे प्रादात्सुद्युम्नो राज्यमाप्य तु । नरिष्यतः शकाः पुत्रा नाभागस्य च वैष्णवः ।। २७३.
अम्बरीषः प्रजापालो धार्ष्टकं धृष्टतः कुलम् । सुकल्गनर्त्तौ शर्य्यातेर्वैरोह्यानर्त्ततो नृपः ।। २७३.
अनार्त्तविषयश्चासीत् पुरी चासीत् कुशस्थली । रेवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः ।। २७३.
ज्येष्ठः पुत्रशतस्यासीद्राज्यं प्राप्य [https://vedastudy.yolasite.com/kusha1.php कुशस्थलीम्] । स कन्यासहितः श्रुत्वा गान्धर्व्वं ब्रह्मणोऽन्तिके ।। २७३.
मुहूर्त्तभूतं देवस्य मर्त्ये बहुयुगं गतम् । आजगाम जवेनाथ स्वां पुरीं यादवैर्वृताम् ।। २७३.
कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् । भोजवृष्णयन्धकैर्गुप्तां वासुदेवपुरोगमैः ।। २७३.
रेवतीं बलदेवाय ददौ ज्ञात्वा ह्यनिन्दिताम । तपः सुमेरुशिखरे तप्त्वा विष्णवालयं गतः ।। २७३.
नाभागस्य च पुत्रौ द्वौ वैश्यौ ब्राह्मणातां गतौ । करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्म्मदाः ।। २७३.
शूद्रत्वञ्च पृषध्रोऽगाद्धिंसयित्वा गुरोश्च गाम् । मनुपुत्रादथेक्षआकोर्विकुक्षइर्देवराडभूत् ।। २७३.