सर्वात्म हरिरूपं हि पठतां श्रृण्वतां नृणां ।। २७२.
राज्यर्थिनां राज्यदञ्च धर्म्मदं धर्मकामिनाम् ।। २७२.
स्वर्गार्थिना स्वर्गदञ्च पुत्रदं पुत्रकामिनां । गवादिकामिनाङ्गोदं ग्रामदं ग्रामकामिनां ।। २७२.
कामार्थिनां कामदञ्च सर्वसौभाग्यसम्पदम् । गुणकीर्त्तिप्रदं नॄणां जयदञ्जयकामिनाम् ।। २७२.
सर्वेप्सूनां सर्वदन्तु मुक्तिदं मुक्तिकामिनां । पापघ्नं पापाकर्तॄणामाग्नेयं हि पुराणकम् ।। २७२.
पुष्कर उवाच ब्रह्मणाभिहितं पूर्व्वं यावन्मान्नं मरीचये । लक्षार्द्धार्द्धन्तु तद्ब्राह्मं लिखित्वा सम्प्रदाप्येत् ।। २७२.
वैशाख्याम्पौर्णमास्याञ्च स्वर्गार्थी जलधेनुमत् । पाद्मं द्वादशसाहस्रं ज्येष्ठे दद्याच्च धेनुमत् ।। २७२.
वराहकल्पवृत्तान्तमधिकृत्य पराशरः । त्रयोविंशतिसाहस्रं वैष्णवं प्राह चार्पयेत् ।। २७२.
जलधेनुमदापाढ्यां विष्णोः पदमवाप्नुयात् । चतुर्दशसहस्राणि वायवीयं हरिप्रियं ।। २७२.
श्वेतकल्पप्रसङ्गेन घर्म्मान् वायुरिहाब्रवीत् । दद्याल्लिखित्वा तद्विप्रे श्रावण्यां गुड़धेनुमत् ।। २७२.
यत्राधिकृत्य गायत्रीं कीर्त्त्यते धर्म्मविस्तरः । वृत्रासुरबधोपेतं तद्भागवतमुच्यते ।। २७२.
सारस्वतस्य कल्पस्य प्रोष्ठपद्यन्तु तद्ददेत् । अष्टादशसहस्राणि हेमसिंहसमन्वितं ।। २७२.
यत्राह नारदो धर्म्मान् वृहत्कल्पाश्रितानिह । पञ्चविंशसहस्राणि नारदीयं तदुच्यते ।। २७२.
सधेनुञ्चाश्विने दद्यात्सिद्धिमात्यन्तिकीं लभेत् । यत्राधिकृत्य शत्रूनान्दर्माधर्मविचारणा ।। २७२.
कार्त्तिक्यां नवसाहस्रं मार्कण्डेयमथार्पयेत् । अग्निना यद्वशिष्ठाय प्रोक्तञ्चाग्नेयमेव तत् ।। २७२.
चतुर्दशसहस्राणि भविष्यं सूर्य्यसम्भवं । भवस्तु मनवे प्राह दद्यात् पौष्यां गुड़ादिमत् ।। २७२.
सावर्णिना नारदाय ब्रह्मवैवर्त्तमीरितं । रथान्तरस्य वृत्तान्तमष्टादशसहस्रकं ।। २७२.
माघ्यान्दद्याद्वराहस्य चरितं ब्रह्मवैवर्त्तमीरितं । रथान्तरस्य वृत्तान्तमष्टादशसहस्रकं ।। २७२.
आग्येयकल्पे लल्लिङ्गमेकादशसहस्रकम् । तद्दत्वा शिवमाप्नोति फाल्गुन्यां तिलधेनुमत् ।। २७२.
चतुर्द्दशशहस्राणि वाराहं विष्णुणेरितम् । भूयौ वराहचरितं मानवस्य प्रवृत्तितः ।। २७२.
सहेमगरुड़ञ्चैत्र्यां पदमाप्नोति वैष्णवम् । चतुरशीतिसाहस्रं स्कान्दं स्कन्देरितं महत् ।। २७२.
अधिकृत्य सधर्म्मांश्च कल्पे तत्पुरुषेऽर्पयेत्। वामनं दशसाहस्रं धौमकल्पे हरेः कथा ।। २७२.
दद्यात् शरदि विषुवे धर्मार्थादिनिवोधनम् । कूर्मञअचाष्टसहस्रञ्च कूर्मोक्तञ्च रसातले ।। २७२.
इन्द्रद्युम्नप्रसङ्गेन दद्यात्तद्धेमकूर्मवत् । त्रयोदशसहस्राणि मात्स्यं कल्पादितोऽब्रवीत् ।। २७२.
मत्स्यो हि मनवे दद्याद्विषुवे हेममत्स्यवत् । गारुड़ञ्चाष्टसाहस्रं विष्णूक्तन्तार्क्षकल्पके ।। २७२.
विश्वाण्डाद्गरुड़ोत्पत्तिं तद्दद्याद्धेमहंसवत् । ब्रह्मा ब्रह्माण्डमाहात्म्यमधिकृत्याब्रवीत्तु ।। २७२.
वाचकं पूजयेदादौ भोजयेत् पायसैर्द्विजान् । गोभूग्रामसुवर्णादि दद्यात्पर्वणि पर्वणि ।। २७२.
समाप्ते बारते विप्रं संहितापुस्तकान्यजेत् । शुभे देशे निवेश्याथ क्षौमवस्त्रादिनावृतान् ।। २७२.
नरनारायणऔ पूज्यौ पुस्तकाः कुसुमादिभिः । गोऽन्नभूहेम दत्वाथ भोजयित्वा क्षमापयेत् ।। २७२.
महादानानि देयानि रत्नानि विविधानि च । मासकौ द्वौ त्रयश्चैव मासे मासे प्रदापयेत् ।। २७२.