रुद्रस्य ब्रह्मचर्य्येण पवनस्य बलेन च । स्मर त्वं राजपुत्रोऽसि कौस्तुभन्तु मणिं स्मर ।। २६९.
यां गतिं ब्रहाहा गच्छेत् पितृहा मातृहा मातृहा तथा । भूम्यर्थेऽनृतवादी च क्षत्रियश्च पराङ्मुखः ।। २६९.
ब्रजेस्त्वन्तां गतिं क्षिप्रं मा तत् पापं भवेत्तव । विकृतिं मापगच्छेस्त्वं युद्धेऽध्वनि तुरङ्गम ।। २६९.
रिपून् विनिघ्नन् समरे सह भर्त्रा सुखी भव । शक्रकेतो महावीर्य्यः सुवर्णस्त्वामुपाश्रितः ।। २६९.
पतत्रिराड्वैनतेयस्तथा नारायणध्वजः । काश्यपेयोऽमृताहर्त्ता नागादिर्विष्णुवाहनः ।। २६९.
अप्रमेयो दुराधर्षो रणे देवारिसूदनः । महाबलो महावेगे महाकायोऽमृताशनः ।। २६९.
गरुत्माम्मारुतगतिस्त्वयि सन्निहितः स्थितः । विष्णुना देवदेवेन शक्रार्थं स्थापितो ह्यसि ।। २६९.
जयाय भव मे नित्यं वृद्धयेऽथ बलस्य च । साश्ववर्मायुधान्योधान् रक्षास्माकं रिपून् दह ।। २६९.
कुमुदैरावणौ पद्मः पुष्पदन्तोऽथ वामनः २६९.
तेषां पुत्राश्च पौत्राश्च बलान्यष्टौ समाश्रिताः । भद्रो मन्दो मृगश्चैव गजः संकीर्ण एव च ।। २६९.
वने वने प्रसूतास्ते स्मर योनिं महागजाः । पान्तु त्वां वसवो रुद्रा आदित्याः समरुद्गणाः ।। २६९.
भर्त्तारं रक्ष नागेन्द्र समयः परिपाल्यतां । ऐरावताधिरूढ़स्तु वज्रहस्तः शतक्रतुः ।। २६९.
पृष्ठतोऽनुगतस्त्वेष रक्षतु त्वां स देवराट् । अवाप्नुहि जयं युद्धे सुस्थश्चैव सदा व्रज ।। २६९.
अवाप्नुहि बलञ्चैव ऐरावतसमं युधि । श्रीस्ते सोमाद्बलं विष्णोस्तेजः सूर्य्याज्जवोऽनिलात् ।। २६९.
स्थैर्य्यं गिरेर्जयं रुद्राद् यशो देवात् पुरन्दरात् । युद्धे रक्षन्तु नागास्त्वां दिशश्च सह दैवतैः ।। २६९.
अश्विनौ सह गन्धर्वैः पान्तु त्वां सर्वतो दिशः । मनवो वसवो रुद्रा वायुः सोमो महर्षयः ।। २६९.
नागकिन्नरगन्धर्वयक्षभूतगणा ग्रहाः । प्रमथास्तु सहादित्यैर्भूतेशो मातृभिः सह ।। २६९.
शक्रः सेनापतिः स्कन्दो वरुणश्चाश्रितस्त्वयि । प्रदहन्तु रिपून् सर्वान् राजा विजयमृच्छतु ।। २६९.
यानि प्रयुक्तान्यरिभिर्भूषणानि समन्ततः । पतन्तु तव शत्रणां हतानि तव तेजसा ।। २६९.
कालनेमिबधे यद्वत् युद्धे त्रिपुरघातने । हिरण्यकशिपोर्युद्धे बधे सर्वासुरेषु च ।। २६९.
शोभितासि तथैवाद्य शोभस्व समयं स्मर । नीलस्वेतामिमान्दृष्ट्वा नश्यन्त्वाशु नृपारयः ।। २६९.
व्याधिभिर्विविधैर्घोरैः शस्त्रैश्च युधि निर्ज्जिताः । पूतना रेवती लेखा कालरात्रीति पठ्यते ।। २६९.
दहन्त्वाशु रिपून् सर्वान् पताके त्वामुपाश्रिताः । सर्वमेधे महायज्ञे देवदेवेन शूलिना ।। २६९.
शर्वेण जगतश्चैव सारेण त्वं विनिर्म्मितः । नन्दकस्यापरां मूर्त्तिं स्मर शत्रुनिवर्हण ।। २६९.
नीलोत्पलदलश्याम कृष्ण दुःस्वप्ननाशन । असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः ।। २६९.
औगर्भो विजयश्चैव धर्म्मपालस्तथैव च । इत्यष्टौ तव नामानि पुरोक्तानि स्वयम्भुवा ।। २६९.
नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः । हिरण्यञ्च शरीरन्ते दैवतन्ते जनार्दनः ।। २६९.
राजानं रक्ष निस्त्रिंशं सबलं सपुरन्तथा । पिता पितामहो देवः स त्वं पालय सर्वदा ।। २६९.
शर्मप्रदस्त्वं समरे वर्मन् सैन्ये यशोऽद्य मे । रक्ष मां रक्षणीयोऽहन्तवानघ नमोऽस्तुते ।। २६९.
दुन्दुभे त्वं सप्त्नानां घोषाद्धृदयकम्पनः । भव भूमिपसैन्यानां यथा विजयवर्द्धनः ।। २६९.