अष्टमोनुग्रहः सर्गः सात्त्विकस्तामसश्च यः। पञ्चैते वैकृताः सर्गाः प्राकृतास्च त्रयः स्मृताः
प्राकृतो वैकृतश्चैव कौमारो नवमस्तथा। ब्रह्मतो नव सर्गास्तु जगतो मूलहेतवः
ख्यात्याद्या दक्षकन्यास्तु भृग्वाद्या उपयेमिरे। नित्यो नैमित्तिकः सर्गस्त्रिधा प्रकथितो जनैः
प्राकृता दैनन्दिनी स्यादन्तरप्रलयादन्। जायते यत्रानुदिनं नित्यसर्गो हि सम्मतः
देवौ धाताविधातारौ भृगोः ख्यातिरसूयत। श्रियञ्च पत्नी विष्णोर्या स्तुता शक्रेण वृद्धये
धातुर्विधातुर्द्वौ पुत्रौ क्रमात् प्राणो मृकण्डुकः। मार्कण्डेयो मृकण्डोश्च जज्ञे वेदशिरास्ततः
पौर्णमासश्च सम्भूत्यां मरीचेरभवत् सुतः। स्मृत्यामङ्गिरसः पुत्राः सिनीवाली कुहूस्तथा
राकाश्चानुमतिश्चात्रेरनसूयाप्यजीजनत्। सोमं दुर्वाससं पुत्रं दत्तात्रेयञ्च योगिनम्
प्रीत्यां पुलस्त्यभार्यायां दत्तोलिस्तत्सुतोभवत्। क्षमायां पुलहाज्जाताः सहिष्णुः कर्मपादिकाः
सन्नत्याञ्च क्रतोरासन् बालिखिल्या महौजसः। अङ्गुष्ठपर्वमात्रास्ते ये हि षष्टिसहस्त्रिणः
उर्ज्जायाञ्च वशिष्ठाश्च राजा गात्रोर्ध्वबाहुकः । सवनश्चालघुः सुक्रः सुतपाः सप्त चर्षयः
पावकः पवमानोभूच्छुचिः स्वाहाग्निजोभवत्। अग्निस्वात्ता वर्हिषदोऽनग्नयः साग्नयो ह्यजात्
पितृभ्यश्च स्वधायाञ्च मेना वैधारिणी सुते । हिंसाभार्या त्वधर्मस्य तयोर्जज्ञे तथानृतम्
कन्या च निकृतिस्ताभ्यां भयन्नरकमेव च। माया च वेदना चैव मिथुनन्त्विदमेतयोः
तयोर्जज्ञेथ वै मायां मृत्युं भूतापहारिणम्। वेदना च सुतं चापि दुः खं जज्ञेथ रौरवात्
मृत्योर्व्याधिजराशोकतृष्णाक्रोधाश्च जज्ञिरे। ब्रह्मणश्च रुदन् जातो रोदनाद्रुद्रनामकः
भवं शर्वमथेशानं तथा पशुपतिं द्विज। भीममुग्रं महादेवमुवाच स पितामहः
दक्षकोपाच्च तद्भार्या देहन्तत्याज सा सती। हिमवद्दुहिता भूत्वा पत्नी शम्भोरभूत् पुनः
ऋषिभ्यो नारदाद्युक्ताः पूजाः स्नानादिपूर्विकाः। स्वायम्भुवाद्यास्ताः कृत्वा विष्णवादेर्भुक्तिमुक्तिदाः
नारद उवाच सामान्यपूजां विष्णवादेर्वक्ष्ये मन्त्रांश्च सर्वदान्। समस्तपरिवाराय अच्युताय नमो यजेत
धात्रे विधात्रे गङ्गायै यमुनायै निधी तथा। द्वारश्रियं वास्तुनवं शक्तिं कूर्म्मनन्तकम्
पृथिवीं धर्म्मकं ज्ञानं वैराग्यैश्वर्यमेव च। अधर्मादीन् कन्दनालपद्मकेशरकर्णिकाः
ऋग्वेदाद्यं कृताद्यञ्च सत्त्वाद्यर्क्कादिमण्डलम्। विमलोत्कर्षिणी ज्ञाना क्रिया योगा च ता यजेत्
प्रह्वीं सत्यां तथेशानानुग्रहसनमूर्त्तिकाम् । दुर्गां गिरङ्गणं क्षेत्रं वासुदेवादिकं यजेत्
हृदयञ्च शिरः शूलं वर्मनेत्रमथास्त्रकम्। शङ्खं चक्रं गदां पद्मं श्रीवत्सं कौस्तुभं यजेत्
वनमालां श्रियं पुष्टिं गरुडं गुरुमर्चयेत्। इन्द्रमग्निं यमं रक्षो जलं वायुं धनेश्वरम्
ईशानन्तमजं चास्त्रं वाहनं कुमुदादिकम्। विष्वकसेनं मण्डलादौ सिद्धिः पूजादिना भवेत्
शिवपूजाथ सामान्या पूर्वं नन्दिनमर्च्चयेत्। महाकालं यजेद्गङ्गां यमुनाञ्च गणादिकम्
गिरं श्रियं गुरुं वास्तुं शक्त्यादीन् धर्मकादिकम्। वामा ज्येष्ठा तथा रौद्री काली कलविकारिणी
बलविकरिणी चापि बलप्रमथिनी क्रमात्। सर्वभूतदमनी च मदनोन्मादिनी शिवासनम्