वर्द्धस्वेन्द्र जितामित्र वृत्रहन् पाकशासन । देव देव महाभाग त्वं हि भूमिष्ठतां गतः ।। २६८.
त्वं प्रभुः शाश्वतश्चैव सर्व्वभूतहिते रतः । अनन्ततेजा वै राजो यशोजयविवर्द्धनः ।। २६८.
तेजस्ते वर्द्धयन्त्वेते देवाः शक्रः सुवृष्टिकृत् । ब्रह्मविष्णुमहेशाश्च कार्त्तिकेयो विनायकः ।। २६८.
आदित्या वसवो रुद्राः साध्याश्च भृगवो दिशः । मरुद्गणा लोकपाला ग्रहा यक्षादिनिम्नगाः ।। २६८.
समुद्रा श्रीर्मही गौरी चण्डिका च सरस्वती । प्रवर्त्तयन्तु ते तेजो जय शक्र शचीपते ।। २६८.
तव चापि जयान्नित्यं मम सम्पद्यतां शुभं । प्रसीद राज्ञां विप्राणां प्रजानामपि सर्वशः ।। २६८.
भवत्प्रसादात् पृथिवी नित्यं शस्यवती भवेत् । शिवं भवतु निर्व्विघ्नं शाम्यन्तामीतयो भृशं ।। २६८.
मन्त्रेणेन्द्रं समभ्यर्च्च्य जितभूः स्वर्गमाप्नुयात् । भद्रकालीं पटे लिख्य पूजयेदाश्विने जये ।। २६८.
शुक्लपक्षे तथाष्टम्यामायुधं कार्म्मुकं ध्वजम् । छत्रञ्च राजलिङ्गानि शस्त्राद्यं कुसुमादिभिः ।। २६८.
जाग्रन्निशि बलिन्दद्याद् द्वितीयेऽह्नि पुनर्यजेत् । भद्रकालि महाकालि दुर्गे दुर्गार्त्तिहारिणि ।। २६८.
त्रैलोक्यविजये चण्डि मम शान्तौ जये भव । नीराजनविधिं वक्ष्ये ऐशान्याम्मन्दिरं चरेत् ।। २६८.
तोरणत्रितयं तत्र गृहे देवान् यजेत् सदा । चित्रान्त्यक्त्वा यदा स्वातिं सविता प्रतिपद्यते ।। २६८.
ततः प्रभृति कर्त्तव्यं यावत् स्वातौ रविः स्थितः । ब्रह्मा विष्णुश्च शम्भुश्च शक्रश्चैवानलानिलौ ।। २६८.
विनायकः कुमारश्च वरुणो धनदो यमः । विश्वे देवा वैश्रवसो गजाश्चाष्टौ च तान् यजेत् ।। २६८.
कुमुदैरावणौ पद्मः पुष्पदन्तश्च वामनः । सुप्रतीकोऽञ्चनो नीलः पूजा कार्य्या गृहादिके ।। २६८.
पुरोधा जुहुयादाज्यं समित्सिद्धार्थकं तिलाः । कुम्बा अष्टौ पूजिताश्च तैः स्नाप्याश्वगजोत्तमाः ।। २६८.
अश्वाः स्नाप्या ददेत् पिण्डान् ततो हि प्रथमं गजान् । निष्क्रामयेत्तोरणैस्तु गोपुरादि न लङ्घयेत् ।। २६८.
विक्रमेयुस्ततः सर्वे राजलिङ्गं गृहे यजेत् । वारुणे वरुणं प्रार्च्य रात्रौ भूतबलिं ददेत् ।। २६८.
विशाखायां गते सूर्य्ये आश्रमे निवसेन्नृपः । अलङ्कुर्य्याद्दिने नस्मिन् वाहनन्तु विशेषतः ।। २६८.
पूजिता राजलिङ्गाश्च कर्त्तव्या नरहस्तगाः । हस्तिनन्तुरगं छत्रं खड्गं चापञ्च दुन्दुभिम् ।। २६८.
ध्वजं पताकां धर्म्मज्ञ कालज्ञस्त्वभिभन्त्रयेत् । अमिमन्त्रय ततः सर्व्वन् कुर्य्यात् कुञ्जरघूर्गतान् ।। २६८.
कुञ्जरोपरिगौ स्यातां सांवत्सरपुरोहितौ । मन्त्रितांश्च समारुह्य तोरणेन विनिर्गमेत् ।। २६८.
निष्क्रम्य नागमारुह्य तोरणेनाथ निर्गमेत् । बलिं विभज्य विधिवद्राजा कुञ्जरधूर्गतः ।। २६८.
उन्मूकानान्तु निचयमादीपितदिगन्तरं । राजा प्रदक्षइणं कुय्यात्त्रीन् वारान् सुसमाहितः ।। २६८.
चतुरङ्गबलोपेतः सर्वसैन्येन नादयन् । एवं कृत्वा गृहं गच्छेद्विसर्जितजलाञ्जलिः ।। २६८.
पुष्कर उवाच छत्रादिमन्त्रान् वक्ष्यामि यैस्तत् पूज्य जयादिकम् । ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च ।। २६९.
सूर्य्यस्य च प्रभावेन वर्द्धस्व त्वं महामते । पाण्डराभप्रतीकाश हिमकुन्देन्दुसुप्रभ ।। २६९.
यथाम्बुदश्छादयते शिवायैनां वसुन्धरां । तथाच्छादय राजानं विजयारोग्यवृद्धये ।। २६९.
गन्धर्वकुलजातस्त्वं माभूयाः कुलदूषकः । ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च ।। २६९.
प्रभावाच्च हुताशस्य वर्द्धस्व त्वं तुरङ्गम । तेजसा चैव सूर्य्यस्य मुनीनां तपसा तथा ।। २६९.