रूपं देहि यशो देहि सौभाग्यं सुभगे मम । पुत्रं देहि धनं देहि सर्व्वान् कामांश्च देहि मे ।। २६६.
भोजयेद्ब्राह्मणान्दद्याद्वस्त्रयुग्मं गुरोरपि । विनायकं ग्रहान्प्रार्च्य श्रियं कर्म्मफलं लभेत् ।। २६६.
पुष्कर उवाच स्नानं माहेश्रं वक्ष्ये राजादेर्जयवर्द्धनम् । दानवेन्द्राय बलये यज्जगादोशनाः पुरा ।। २६७.
बास्करेऽनुदिते पीठे प्रातः संस्नापयेद् घटैः । ॐ नमो भगवते रुद्राय च बलाय च पाण्डरोचितभस्मानुलिप्तगायाय । तद्यथा जय जय सर्वान् शत्रून् मूकय कलहविग्रहविवादेषु भञ्जय । ॐ मथ मथ सर्व्वपथिकान् योसौ युगान्तकाले दिधक्षति इमां पूजां रौद्रमूर्त्तिः सहस्त्रांशुः शुक्लः स ते रक्षतु जीवतं । सम्बर्त्तकाग्नितुल्यश्च त्रिपुरान्तकरः शिवः । सर्वदेवमयः सोपि तव रक्षतु जीवितं लिखि लिखि खिलि स्वाहा २६७.
पञ्चामृतैस्तु संस्नाप्य पूजयेच्छूलपाणिनं । स्नानान्यन्यानि वक्ष्यामि सर्वदा विजयाय ते ।। २६७.
स्नानं घृतेन कथितमायुष्यवर्द्धनं परम् । गोमयेन च लक्ष्मीः स्याद् गोमूत्रेणाघमर्द्दनम् ।। २६७.
क्षीरेण बलबुद्धिः स्याद्दध्ना लक्षअमीविवर्द्धनं । कुशोदकेन पापान्तः वञ्चगव्येन सर्वभाक् ।। २६७.
शतमूलेन सर्वाप्तिर्गोश्रृङ्गोदकतोऽर्घजित् । पलाशविल्वकमलकुशस्नानन्तु सर्व्वदं ।। २६७.
वचा हरिद्रे द्वे मुस्तं स्नानं रक्षोहणं परं । आयुष्यञ्च यशस्यञ्च धर्म्ममेधाविवर्द्धनम् ।। २६८.
हैमाद्भिश्चैव माङ्गल्यं रूप्यताम्रोदकैस्तथा । रत्नोदकैस्तु विज्यः सौभाग्यञ्च प्रियङ्गुणा ।। २६८.
फलाद्बिश्च तथारोग्यं धात्र्यद्भिः परमां श्रियम् । तिलसिद्धार्थकैर्ल्लक्ष्मीः सौभाग्यञ्च प्रियङ्गुणा ।। २६८.
पद्मोत्पलकदम्बैश्च श्रीर्बलं बलाद्रुमोदकैः । विष्णुपादोदकस्नानं सर्वस्नानेभ्य उत्तमम् ।। २६८.
एकाकी एककामायेत्येकोर्कं१ विधिवच्चरेत् । अक्रन्दयति सूक्तेन प्रबध्नीयान्मणिं करे ।। २६८.
कुष्ठपाठा वचा शुण्ठी शङ्खलोहादिको मणिः । सर्व्वेषामेव कामानामीश्वरो भगवान् हरिः ।। २६८.
तस्य संपूजनादेव सर्व्वान्कामान्समश्नुते । स्नापयित्वा घृतक्षीरैः पूजयित्वा च पित्तहा ।। २६८.
पञ्चमुद्गबलिन्दत्वा अतिसारात् प्रमुच्यते । पञ्चगव्येन संस्नाप्य वातव्याधिं विनाशयेत् ।। २६८.
द्विस्रेहस्नपनात् श्लेष्मरोगहा चातिपूजया । घृतं तैलं तथा क्षौद्रं स्नानन्तु त्रिरसं परं ।। २६८.
स्नानं घृताम्बु द्विस्नेहं समलं घृततैलकम् । क्षौद्रमिक्षुरसं क्षीरं स्नानं त्रिमधुरं स्मृतम् ।। २६८.
घृतमिक्षुरसं तैलं क्षौद्रञ्च त्रिरसं श्रिये । अनुलेपस्त्रिशुक्लस्तु कर्पूरोशीरचन्दनैः ।। २६८.
चन्दनागुरुकर्पूरमृगदर्पैः सकुङ्कुमैः । पञ्चानुलेपनं विष्णोः सर्वकामफलप्रदं ।। २६८.
त्रिसुगन्धञअच कर्पूरं तथा चन्दनकुङ्कुमैः । मृगदर्पं सकर्पूरं मलयं सर्व्वकामदम् ।। २६८.
जातीफलं सकर्पूरं चन्दनञ्च त्रिशीतकम् । पीतानि शुक्लवर्णानि तथा शुक्लानि भार्गव ।। २६८.
कृष्णानि चैव रक्तानि पञ्चवर्णानि निर्द्दिशेत् । उत्पलं पद्मजाती च त्रिशीतं हरिपूजने ।। २६८.
कुङ्कुमं रक्तपद्मानि त्रिरक्तं रक्तमुत्पलं । धूपदीपादिभिः प्रार्च्य विष्णुं शान्तिर्भवेन्नृणां ।। २६८.
चतुरस्रकरे कुण्डे ब्राह्मणाश्चाष्ट षोडस । लक्षहोमङ्कोटिहोमन्तिलाज्ययवधान्यकैः ।। २६८.
पुष्कर उवाच कर्म्म सांवत्सरं राज्ञां जन्मर्क्षे पूजयेच्च तं । मासि मासि च संक्रान्तौ सूर्य्यसोमादिदेवताः ।। २६८.
अगस्त्यस्योदयेऽगस्त्यञ्चातुर्म्मास्यं हरिं यजेत् । शयनोत्थापने पञ्चदिनं कुर्य्यात्समुत्सवम् ।। २६८.
प्रोष्ठपादे सिते पक्षे प्रतिपत्प्रभृतिक्रमात् । शिबिरात् पूर्वदिग्भागे शक्रार्थं भवनञ्चरेत् ।। २६८.
तत्र शक्रध्वजं स्थाप्य शचीं शक्रञ्च पूजयेत् । अष्टम्यां वाद्यघोषेण तान्तु यष्टिं प्रवेशयेत् ।। २६८.
एकादश्यां सोपवासो द्वादश्यां केतुमुत्थितम् । यजेद्वस्त्रादिसंवीतं घटस्थं सुरपं शचीं ।। २६८.