मृत्तिकां रोजनाङ्गन्धङ्गुग्गुलुन्तेषु निक्षिपेत् । सहस्राक्षं शतधारमृषिभिः पावनं कृतम् ।। २६६.
तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते । भगन्ते वरुणो राजा भगं सूर्य्यो बृहस्पतिः ।। २६६.
भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः । यक्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्द्धनि ।। २६६.
ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नन्तु सर्वदा । दर्भपिञ्जलिमादाय वामहस्ते ततो गुरुः ।। २६६.
स्नातस्य सार्षपन्तैलं श्रुवेणौडुम्बरेण च । जुहुयान्मूर्द्धनि कुशान् सव्येन परिगृहाय च ।। २६६.
मितश्च सम्मितश्चैव तथा शालककण्टकौ । कुष्माण्डो राजपुत्रश्च एतैः स्वाहासमन्वितैः ।। २६६.
नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः । दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य्य सर्व्वतः ।। २६६.
कृताकृतांस्तण्डुलांश्च पललौदनमेव च । मत्स्यान्पङ्कांस्तथैवामान् पुष्पं चित्रं सुरां त्रिधा ।। २६६.
मुलकं पूरिकां पूपांस्तथैवैण्डविकास्रजः । दध्यन्नं पायसं पिष्टं मोदकं गुड़मर्पयेत् ।। २६६.
विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकां । दूर्व्वासर्षपपुष्पाणां दत्त्वार्घ्यं पूर्णमञ्जलिं ।। २६६.
रूपं देहि यशो देहि सौभाग्यं सुभगे मम । पुत्रं देहि धनं देहि सर्व्वान् कामांश्च देहि मे ।। २६६.
भोजयेद्ब्राह्मणान्दद्याद्वस्त्रयुग्मं गुरोरपि । विनायकं ग्रहान्प्रार्च्य श्रियं कर्म्मफलं लभेत् ।। २६६.
पुष्कर उवाच स्नानं माहेश्रं वक्ष्ये राजादेर्जयवर्द्धनम् । दानवेन्द्राय बलये यज्जगादोशनाः पुरा ।। २६७.
बास्करेऽनुदिते पीठे प्रातः संस्नापयेद् घटैः । ॐ नमो भगवते रुद्राय च बलाय च पाण्डरोचितभस्मानुलिप्तगायाय । तद्यथा जय जय सर्वान् शत्रून् मूकय कलहविग्रहविवादेषु भञ्जय । ॐ मथ मथ सर्व्वपथिकान् योसौ युगान्तकाले दिधक्षति इमां पूजां रौद्रमूर्त्तिः सहस्त्रांशुः शुक्लः स ते रक्षतु जीवतं । सम्बर्त्तकाग्नितुल्यश्च त्रिपुरान्तकरः शिवः । सर्वदेवमयः सोपि तव रक्षतु जीवितं लिखि लिखि खिलि स्वाहा २६७.
पञ्चामृतैस्तु संस्नाप्य पूजयेच्छूलपाणिनं । स्नानान्यन्यानि वक्ष्यामि सर्वदा विजयाय ते ।। २६७.
स्नानं घृतेन कथितमायुष्यवर्द्धनं परम् । गोमयेन च लक्ष्मीः स्याद् गोमूत्रेणाघमर्द्दनम् ।। २६७.
क्षीरेण बलबुद्धिः स्याद्दध्ना लक्षअमीविवर्द्धनं । कुशोदकेन पापान्तः वञ्चगव्येन सर्वभाक् ।। २६७.
शतमूलेन सर्वाप्तिर्गोश्रृङ्गोदकतोऽर्घजित् । पलाशविल्वकमलकुशस्नानन्तु सर्व्वदं ।। २६७.
वचा हरिद्रे द्वे मुस्तं स्नानं रक्षोहणं परं । आयुष्यञ्च यशस्यञ्च धर्म्ममेधाविवर्द्धनम् ।। २६८.
हैमाद्भिश्चैव माङ्गल्यं रूप्यताम्रोदकैस्तथा । रत्नोदकैस्तु विज्यः सौभाग्यञ्च प्रियङ्गुणा ।। २६८.
फलाद्बिश्च तथारोग्यं धात्र्यद्भिः परमां श्रियम् । तिलसिद्धार्थकैर्ल्लक्ष्मीः सौभाग्यञ्च प्रियङ्गुणा ।। २६८.
पद्मोत्पलकदम्बैश्च श्रीर्बलं बलाद्रुमोदकैः । विष्णुपादोदकस्नानं सर्वस्नानेभ्य उत्तमम् ।। २६८.
एकाकी एककामायेत्येकोर्कं१ विधिवच्चरेत् । अक्रन्दयति सूक्तेन प्रबध्नीयान्मणिं करे ।। २६८.
कुष्ठपाठा वचा शुण्ठी शङ्खलोहादिको मणिः । सर्व्वेषामेव कामानामीश्वरो भगवान् हरिः ।। २६८.
तस्य संपूजनादेव सर्व्वान्कामान्समश्नुते । स्नापयित्वा घृतक्षीरैः पूजयित्वा च पित्तहा ।। २६८.
पञ्चमुद्गबलिन्दत्वा अतिसारात् प्रमुच्यते । पञ्चगव्येन संस्नाप्य वातव्याधिं विनाशयेत् ।। २६८.
द्विस्रेहस्नपनात् श्लेष्मरोगहा चातिपूजया । घृतं तैलं तथा क्षौद्रं स्नानन्तु त्रिरसं परं ।। २६८.
स्नानं घृताम्बु द्विस्नेहं समलं घृततैलकम् । क्षौद्रमिक्षुरसं क्षीरं स्नानं त्रिमधुरं स्मृतम् ।। २६८.
घृतमिक्षुरसं तैलं क्षौद्रञ्च त्रिरसं श्रिये । अनुलेपस्त्रिशुक्लस्तु कर्पूरोशीरचन्दनैः ।। २६८.
चन्दनागुरुकर्पूरमृगदर्पैः सकुङ्कुमैः । पञ्चानुलेपनं विष्णोः सर्वकामफलप्रदं ।। २६८.