राजाभिषेकमन्त्रोक्तदेवानां होमकाः पृथक् । पूर्णाहुतिन्ततो दत्वा गुरवे दक्षिणां ददेत् ।। २६५.
इन्द्रोऽभिषिक्तो गुरुणा पुरा दैत्यान् जघान् ह । लिक्पालस्नानङ्कथितं संग्रामादौ जयादिकं ।। २६५.
पुष्कर उवाच विनायकोपसृष्टानां स्नानं सर्वकरं वदे । विनायकः कर्म्मविघ्नसिद्ध्यर्थं विनियोजितः ।। २६६.
गणानामाधिपत्ये च केशवेशपितामहैः । स्वप्नेवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति ।। २६६.
विनायकोपसृष्टस्तु क्रव्यादानधिरोहति । व्रजमानस्तथात्मानं मन्यतेऽनुगतम्परैः ।। २६६.
विमना विफलारम्भः संसीदत्यनिमित्ततः । कन्या वरं न चाप्नोति च चापत्यं वराङ्गना ।। २६६.
आचार्य्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं लबेत् । धनी न लाभमाप्नोति न कृषिञ्च कृषीबलः ।। २६६.
राजा राज्यं न चाप्नोति स्नपननतस्य कारयेत् । हस्तपुष्याश्वयुक्सौम्ये वैष्णवे भद्रपीठके ।। २६६.
गौरसर्षपकल्केन साज्येनोत्सादितस्य च । सर्वौषधैः सर्वगन्धैः प्रलिप्तशिरसस्तथा ।। २६६.
चतुर्भिः कलसैः स्नानन्तेषु सर्वौषधीः क्षिपेत् । अश्वस्थानाद्गजस्थानाद्वल्मीकात् सङ्गमाद्ध्रदात् ।। २६६.
मृत्तिकां रोजनाङ्गन्धङ्गुग्गुलुन्तेषु निक्षिपेत् । सहस्राक्षं शतधारमृषिभिः पावनं कृतम् ।। २६६.
तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते । भगन्ते वरुणो राजा भगं सूर्य्यो बृहस्पतिः ।। २६६.
भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः । यक्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्द्धनि ।। २६६.
ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नन्तु सर्वदा । दर्भपिञ्जलिमादाय वामहस्ते ततो गुरुः ।। २६६.
स्नातस्य सार्षपन्तैलं श्रुवेणौडुम्बरेण च । जुहुयान्मूर्द्धनि कुशान् सव्येन परिगृहाय च ।। २६६.
मितश्च सम्मितश्चैव तथा शालककण्टकौ । कुष्माण्डो राजपुत्रश्च एतैः स्वाहासमन्वितैः ।। २६६.
नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः । दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य्य सर्व्वतः ।। २६६.
कृताकृतांस्तण्डुलांश्च पललौदनमेव च । मत्स्यान्पङ्कांस्तथैवामान् पुष्पं चित्रं सुरां त्रिधा ।। २६६.
मुलकं पूरिकां पूपांस्तथैवैण्डविकास्रजः । दध्यन्नं पायसं पिष्टं मोदकं गुड़मर्पयेत् ।। २६६.
विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकां । दूर्व्वासर्षपपुष्पाणां दत्त्वार्घ्यं पूर्णमञ्जलिं ।। २६६.
रूपं देहि यशो देहि सौभाग्यं सुभगे मम । पुत्रं देहि धनं देहि सर्व्वान् कामांश्च देहि मे ।। २६६.
भोजयेद्ब्राह्मणान्दद्याद्वस्त्रयुग्मं गुरोरपि । विनायकं ग्रहान्प्रार्च्य श्रियं कर्म्मफलं लभेत् ।। २६६.
पुष्कर उवाच स्नानं माहेश्रं वक्ष्ये राजादेर्जयवर्द्धनम् । दानवेन्द्राय बलये यज्जगादोशनाः पुरा ।। २६७.
बास्करेऽनुदिते पीठे प्रातः संस्नापयेद् घटैः । ॐ नमो भगवते रुद्राय च बलाय च पाण्डरोचितभस्मानुलिप्तगायाय । तद्यथा जय जय सर्वान् शत्रून् मूकय कलहविग्रहविवादेषु भञ्जय । ॐ मथ मथ सर्व्वपथिकान् योसौ युगान्तकाले दिधक्षति इमां पूजां रौद्रमूर्त्तिः सहस्त्रांशुः शुक्लः स ते रक्षतु जीवतं । सम्बर्त्तकाग्नितुल्यश्च त्रिपुरान्तकरः शिवः । सर्वदेवमयः सोपि तव रक्षतु जीवितं लिखि लिखि खिलि स्वाहा २६७.
पञ्चामृतैस्तु संस्नाप्य पूजयेच्छूलपाणिनं । स्नानान्यन्यानि वक्ष्यामि सर्वदा विजयाय ते ।। २६७.
स्नानं घृतेन कथितमायुष्यवर्द्धनं परम् । गोमयेन च लक्ष्मीः स्याद् गोमूत्रेणाघमर्द्दनम् ।। २६७.
क्षीरेण बलबुद्धिः स्याद्दध्ना लक्षअमीविवर्द्धनं । कुशोदकेन पापान्तः वञ्चगव्येन सर्वभाक् ।। २६७.
शतमूलेन सर्वाप्तिर्गोश्रृङ्गोदकतोऽर्घजित् । पलाशविल्वकमलकुशस्नानन्तु सर्व्वदं ।। २६७.
वचा हरिद्रे द्वे मुस्तं स्नानं रक्षोहणं परं । आयुष्यञ्च यशस्यञ्च धर्म्ममेधाविवर्द्धनम् ।। २६८.
हैमाद्भिश्चैव माङ्गल्यं रूप्यताम्रोदकैस्तथा । रत्नोदकैस्तु विज्यः सौभाग्यञ्च प्रियङ्गुणा ।। २६८.