निरुन्धी धूम्रिणीका च अस्वपन्ती तथैव च । मेघपत्नी च नामानि सर्व्वेषामेव भार्गव ।। २६४.
आग्नेयाद्याः क्रमेणाथ ततः शक्तिषु निक्षिपेत् । नन्दिन्यै च सुभाग्यै च सुमङ्गल्यै च भार्गव ।। २६४.
भद्रकाल्यै ततो दत्वा स्थूणायाञ्च तथा श्रिये । हिरणअयकेश्यै च तथा वनस्पतय एव च ।। २६४.
धर्म्माधर्ममयौ द्वारे गृहमध्ये ध्रुवाय च । मृत्यवे च बहिर्दद्याद्वरुणायोदकाशये ।। २६४.
भूतोभ्यश्च बहिर्द्दद्याच्छरणे धनदाय च । इन्द्रायेन्द्रपुरुषेभ्यो दद्यात् पूर्वेण मानवः ।। २६४.
यमाय तत् पुरुषेभ्यो दद्याद्दक्षिणतस्तथा । वरुणाय तत्पुरुषेभ्यो दद्यात्पश्चिमतस्तथा ।। २६४.
सोमाय सोमपुरुषेभ्य उदग्दद्यादनन्तरं । ब्रह्मणे ब्रह्मपुरुषेभ्यो मध्ये दद्यात्तथैव च ।। २६४.
आकाशे च तथा चोद्र्ध्वे स्थण्डिलाय क्षितौ तथा । दिवा दिवाचरेभ्यश्च रात्रौ रात्रिचरेषु च ।। २६४.
बलिं बहिस्तथा दद्यात्सायं प्रातस्तु प्रत्यहं । पिण्डनिर्वपणं कुर्य्यात् प्रातः सायं न कारयेत् ।। २६४.
पित्रे तु प्रथमं दद्यात्तत्पित्रे तदनन्तरम् । प्रतिपामहाय तन्मात्रे पितृमात्रे ततोऽर्पयेत् ।। २६४.
तन्मात्रे दक्षिणाग्रेषु कुशेष्वेवं यज्ते पितृन् । इन्द्रवारुणवायव्या याम्या वा नैर्ऋताश्च ये ।। २६४.
ते काकाः प्रतिगृह्णन्तु इमं पिण्डं मयोद्धृतम् । काकपिण्डन्तु मन्त्रेण शुनः पिण्डं प्रदापयेत् ।। २६४.
विवस्वतः कुले जातौ द्वौ श्यावशबलौ शुनौ । तेषां पिण्डं प्रदास्यामि पथि रक्षन्तु मे सदा ।। २६४.
प्रतिगृह्लन्तु मे ग्रासं गावस्त्रैलोक्यमातरः ।। २६४.
गोग्रासञ्च स्वस्त्ययनं कृत्वा बिक्षां प्रदापयेत् । अतिथीन्दीनान् पूजयित्वा गृही भुञ्जीत च स्वयं ।। २६४.
अग्निरुवाच सर्वार्थसाधनं स्नानं वक्ष्ये शान्तिकरं श्रृणु । स्नापयेच्य सरित्तीरे ग्रहान् विष्णु विचक्षणः ।। २६५.
देवालये ज्वरार्त्त्यादौ विनायकग्रहार्द्दिते । विद्यार्थिनो ह्रदे गेहे जयकामस्य तीर्थके ।। २६५.
पद्मिन्यां स्नापयेन्नारीं गर्भो यस्याः स्नवेत्तथा । अशोकसन्निधौ स्नायाज्जातो यस्या विनश्यति ।। २६५.
पुष्पार्थिनाञ्च पुष्पाढ्ये पुत्रार्थिनाञ्च सागरे । गृहसौभाग्यकामानां सर्वेषां विष्णुसन्निधौ ।। २६५.
वैष्णवे रेवतीपुष्ये सर्वेषां स्नानमुत्तमं । स्नानकामस्य सप्ताहम्पूर्वमुत्सादनं स्मृतं ।। २६५.
पुनर्न्नवां रोचनाञ्च शताङ्गं गुरुणी त्वचं । मधूकं रजनी द्वे च तगरन्नागकेशरम् ।। २६५.
अम्बरीञ्चैव मञ्जिष्ठां मांसीयासकमर्दनैः । प्रियङ्गुसर्षपं कुष्ठम्बलाम्ब्राह्मीञ्च कुङ्कुमं ।। २६५.
पञ्चगव्यं शक्तुमिश्रं उद्वर्त्त्य स्नानमाचरेत् । मण्डले कर्णिकायाञ्च विष्णुं ब्राह्मणमर्च्चयेत् ।। २६५.
स्नानमण्डलकान् दिक्षु कुर्य्याच्चैव वादिक्षु च । विष्णुब्रह्मेशशक्रादींस्तदस्त्राण्यर्घ्य होमयेत् ।। २६५.
एकैकस्य त्वष्टशतं समिधस्तु तिलान् घृतं । भद्रः सुभद्रः सिद्धार्थः कलसाः पुष्टिवर्द्धनाः ।। २६५.
अमोघश्चित्रबानुश्च पर्ज्जन्योऽथ सुदर्शनः । स्थापयेत्तु घटानेतान् साश्विरुद्रमरुद्गणान् ।। २६५.
विश्वे देवास्तथा दैत्या वसवो मुनयस्तथा । आवेशयन्तु सुप्रीतास्तथान्या अपि देवताः ।। २६५.
ओषधीर्न्निक्षिपेत् कुम्भे जयन्तीं विजयां जयां । शतावरीं शतपुष्पां विष्णुक्रान्तापराजिताम् ।। २६५.
उयोतिष्मतीमतिबलाञ्चन्दनोशीरकेशरं । कस्तूरिकाञ्च कर्पूरं बालकं पत्रकं त्वचं ।। २६५.
जातीफलं लवङ्गञ्च मृत्तिकां पञअचगव्यकं । भद्रपीठे स्थितं साध्यं स्नापयेयुर्द्विजा बलात् ।। २६५.