अर्च्चाविकारोपशमोऽभ्यर्च्य हुत्वा प्रजापतेः । अनग्निर्दीप्यते यत्र राष्ट्रे च भृशनिस्वनं ।। २६३.
न दीप्यते चेन्धनवांस्तद्राष्ट्रं पीड्यते नृपैः । अग्निवैकृत्यशमनमग्निमन्त्रैश्च भार्गव ।। २६३.
अकाले फलिता वृक्षाः क्षीरं रक्तं स्रवन्ति च । वृक्षोत्पातप्रशमनं शिवं पूज्य च कारयेत् ।। २६३.
अतिवृष्टिरनावृष्टिर्दुर्भिक्षायोभयं मतं । अनृतौ त्रिदिनारब्घवृष्टिर्ज्ञेया भयाय हि ।। २६३.
वृष्टिवैकृत्यनाशः स्यात्पर्जन्येन्द्वर्कपूजनात् । नगरादपसर्पन्ते समीपमुपयान्ति च ।। २६३.
नद्यो ह्रदप्रश्रवणा विरसाश्च भवन्ति च । सलिलाशयवैकृत्ये जप्तव्यो वारुणो मनुः ।। २६३.
अकालप्रसवा नार्य्यः कालतो वाप्रजास्तथा । विकृतप्रसवाश्चैव युग्मप्रसवनादिकं ।। २६३.
स्त्रीणां प्रसववैकृत्ये स्त्रीविप्रादि प्रपूजयेत् । वड़वा हस्तिनी गौर्वा यदि युग्मं प्रसूयते ।। २६३.
विजात्यं विकृतं वापि षड्भिर्मासैर्म्रियेत् वै । विकृतं वा प्रसूयन्ते परचक्रभयं भवेत् ।। २६३.
होमः प्रसूतिवैकृत्ये जपो विप्रादिपूजनं । यानि यानान्ययुक्तानि युक्तानि न वहन्ति च ।। २६३.
आकाशे तूर्यनादाश्च महद्भयमुपस्थितं । प्रविशन्ति यदा ग्राममारण्या मृगपक्षिणः ।। २६३.
अरण्यं यान्ति वा ग्राम्याः जलं यान्ति स्थलोद्भवाः । स्थलं वा जलजा यान्ति राजाद्वारादिके शिवाः ।। २६३.
प्रदोषे कुक्कुटो वासे शिवा चार्कोदये भवेत् । गृहङ्कपोतः प्रविशेत् क्रव्याद्वा मूर्दिध्न लीयते ।। २६३.
मधुरां मक्षिकां कुर्य्यांत् काको मैथुनगो दृशि । प्रासादतोरणोद्यानद्वारप्राकारवेश्मनां ।। २६३.
अनिमित्तन्तु पतनं दृढ़ानां राजमृत्यवे । रजसा वाथ कधूमेन दिशो यत्र समाकुलाः ।। २६३.
केतूदयोपरागौ च छिद्रता शशिसूर्ययोः । ग्रहर्क्षविकृतिर्यत्र तत्रापि भयमादिशेत् ।। २६३.
अग्निर्यत्र न दीप्येत स्त्रवन्ते चोदकुम्भकाः । मृतिर्भयं शून्य्तादिरुत्पातानां फलम्भवेत् ।। २६३.
पुष्कर उवाच देवपूजादिकं कर्म वक्ष्ये चोत्पातमर्दनम् । आपोहिष्ठेति तिसृभिः स्नातोऽर्घ्यं विष्णवेर्पयेत् ।। २६४.
हिरण्यवर्णा इति च पाद्यञ्च तिसृभिर्द्विज । शन्न आपो ह्याचमनमिदमापोऽभिषेचनं ।। २६४.
रथे अक्षे च तिसृभिर्गन्धं युवेति वस्त्रकं । पुष्पं पुष्पवतीत्येवं धूपं धूपोसि चाप्यथ ।। २६४.
तेजोसि शुक्रं दीपं स्यान्मधुपर्कं दधीति च । हिरण्यगर्भ इत्यष्टावृचः प्रोक्ता निवेदने ।। २६४.
अन्नस्य मनुजश्रेष्ठ पानस्य च सुगन्धिनः । चामरव्यजनोपानच्छत्रं यानासने तथा ।। २६४.
यत् किञ्चिदेवमादि स्यात्सावित्रेण निवेदयेत् । पौरुषन्तु जपेत् सूक्तं तदेब जुहुयात्तथा ।। २६४.
अर्च्चाभावे तथा वेद्याञ्जले पूर्णघटे तथा । नदीतीतरेऽथ कमले शान्तिः स्याद्विष्णुपूजनात् ।। २६४.
ततो होमः प्रकर्त्तव्यो दीप्यमाने विभावसौ । परिसम्मृज्य पर्य्युक्ष्य परिस्तीर्य्य परिस्तरैः ।। २६४.
सर्व्वान्नाग्रं समुद्धृत्य जुहुयात् प्रयतस्ततः । वासुदेवाय देवाय प्रभवे चाव्ययाय च ।। २६४.
अग्नये चैव सोमाय मित्राय वरुणाय च । इन्द्राय च महाभाग इन्द्राग्निभ्यां तथैव च ।। २६४.
विश्वेभ्यशचैव देवेब्यः प्रजानां पतये नमः । अनुमत्यै तथा राम धन्वन्तरय एव च ।। २६४.
वास्तोष्पत्यै ततो देव्यै ततः स्विष्टिकृतेऽग्नये । सच्तुर्थ्यन्तनाम्ना तु हुत्वैतेब्यो बलिं हरेत् ।। २६४.
तक्षोपतक्षमभितः पूर्वेणाग्निमतः परम् । अश्वानामपि धर्मज्ञ ऊर्णानामानि चाप्यथ ।। २६४.