सुपर्णंस्त्वेति हुत्वा च भुजगैर्नैव बाध्यते । इन्द्रेण दत्तमित्येतत् सर्वकामकरम्भवेत् ।। २६१.
इन्द्रेण दत्तमित्येतत् सर्वबाधाविनाशनं । इमा देवीति मन्त्रश्च सर्वशान्तिकरः परः ।। २६१.
देवा मरुत इत्येतत् सर्वकामकरम्भवेत् । यमस्य लोकादित्येत्त् दुःस्वप्नशमनम्परं ।। २६१.
इन्द्रश्च पञ्चबणिजेति१ पण्यलाभकरं परं । कामो मे वाजीति हुतं स्त्रीणां सौबाग्यवर्द्धनं ।। २६१.
तुभ्यमेव जबीमन्नित्ययुतन्तु हुतम्भवेत् । अग्नेगोबिन्न इत्येतत्२ मेधावृद्धिकरम्परं ।। २६१.
ध्रुवं ध्रुवेणेति हुतं स्थानलाभकरं भवेत् । अलक्तजीवेति शुना कृषिलाभकरं भवेत् ।। २६१.
अहन्ते भग्न इत्येतत् भवेत्सौभाग्यवर्द्धनं । ये मे पाशास्तथाप्येतत् बन्धनान्मोक्षकारणं ।। २६१.
शपत्वहन्निति रिपून् नाशयेद्धोमजाप्यतः । त्वमुत्तममितीत्येतद्यशोबुद्धिविवर्द्धनं ।। २६१.
यथा मृगमतीत्येतत् स्त्रीणां सौभाग्यवर्द्धनं । येन चेहदिदञ्चैव गर्भलाभकरं भवेत् ।। २६१.
वृहस्पतिर्न्नः परिपातु पथि स्वस्त्ययनं भवेत् । मुञअचामि त्वेति कथितमपमृत्युनिवारणं ।। २६१.
अथर्वशिरसोऽद्येता सर्वपापैः प्रमुच्यते । प्राधान्येन तु मन्त्राणां किञ्चित् कर्म तवेरितं ।। २६१.
वृक्षाणआं यज्ञियानान्तु समिधः प्रथमं हविः । आज्यञ्च व्रीहयश्चैव तथा वै गौरसर्षपाः ।। २६१.
अक्षतानि तिलाश्चैव दधिक्षीरे च भार्गव । दर्भास्तथैव दूर्वाश्च विल्वानि कमलानि च ।। २६१.
शान्तिपुष्टिकराण्याहुर्द्रव्याण्येतानि सर्वशः । तैलङ्कणानि धर्मज्ञ राजिका रुधिरं विषं ।। २६१.
समिधः कण्टकोपेता अभिचारेषु योजयेत् । आर्षं वै दैवतं छन्दो बिन्योगज्ञ आचरेत् ।। २६१.
पुष्कर उवाच श्रीसूक्तं प्रतिवेदञ्च क्षेयं लक्षअमीविवर्द्धनं । हिरण्यवर्णा हरिणीमृचः पञ्चदश श्रियः ।। २६३.
रथेष्वक्षेषु वाजेति चतस्रो यजुषि श्रियः । स्रावन्तीयं तथा साम श्रीसूक्तं सामवेदके ।। २६३.
श्रियं धातर्मयि धेहि प्रोक्तमाथर्वणे तथा । श्रीसूक्तं यो जपेद्भक्त्या हत्वा श्रीस्तस्य वै भवेत् ।। २६३.
पद्मानि चाथ विल्वानि हुत्वाज्यं वा लिलान् श्रियः । एकन्तु पौरुषं सूक्तं प्रतिवेदन्तु सर्वदं ।। २६३.
सूक्तेन दद्यान्निष्पापो ह्येकैकया१ जलाञ्जलिं । स्नात एकैकया पुष्पं विष्णोर्द्दत्वाघहा भवेत् ।। २६३.
स्नात एकैकया दत्वा फलं स्यात् सर्वकामभाक् । महापापोपपापान्तो भवेज्जप्त्वा तु पैरुषं ।। २६३.
कृच्छ्रैर्विशुद्धो जप्त्वा च हुत्वा स्नात्वाऽथ सर्वभाक् । अष्टादशभ्यः सान्तिभ्यस्तिस्रोऽन्याः शान्तयो वराः ।। २६३.
अमृता चाभ्या सौम्या सर्व्वोत्पातविमर्द्दनाः । अमृता सर्वदैवत्या अभ्या ब्रह्मदैवता ।। २६३.
सौम्या च सर्वदैवत्या एका स्यात्सर्व्वकामदा । अभयायामणिः कार्य्यो वरुणस्य भृगूत्तम ।। २६३.
शतकाण्डोऽमृतायाश्च सौम्यायाः शङ्खजो मणिः । तद्दैवत्यास्तथा मन्त्राः सिद्धौ स्यान्मणिबन्धनं ।। २६३.
दिव्यान्तरीक्षभौमादिसमुत्पातार्दनाइमाः । द्विव्यान्तरीक्षभौमन्तु अद्भुतं त्रिविधं श्रृणु ।। २६३.
ग्रहर्क्षवैकृतं दिव्यमान्तरीक्षन्निबोध मे । उल्कापातश्च दिग्दाहः परिवेशस्तथैव च ।। २६३.
गन्धर्वनगरञ्चैव वृष्टिश्च विकृता च या । चरस्थिरभवं भूमौ भूकम्पमपि भूमिजं ।। २६३.
सप्ताहाभ्यन्तरे वष्टावद्भुतं निष्फलं भवेत् । शान्तिं विना त्रिभिर्वर्षैरद्भुतं भयकृद्भवेत् ।। २६३.
देवतार्च्चाः प्रनृत्यन्ति वेपन्ते प्रज्वलन्ति च । आरठन्ति च रोदन्ति प्रस्विद्यन्तेहसन्ति च ।। २६३.