सा तङ्कामयते राम नात्र कार्य्या विचारणा । रथन्तरं वामदेव्यं ब्रह्मवर्च्चसवर्द्धनं ।। २६१.
प्राशयेद्वालकं नित्यं वचाचूर्णं घृतप्लुतं । इन्द्रमिद्गाथिनं जप्त्वा भवेच्छ्रुतिधरस्त्वसौ ।। २६१.
हुत्वा रथन्तरञ्जप्त्वा पुत्रमाप्नोत्यसंशयं । मयि श्रीरिति मन्त्रोयं जप्तव्यः श्रीविवर्द्धनः ।। २६१.
वैरूप्यस्याष्टकं नित्यं प्रयुञ्जानः श्रियं लभेत् । सप्ताष्टकं प्रयुञ्चानः सर्व्वान् कामानवाप्नुयात् ।। २६१.
गव्येषुणेति यो नित्यं सायं प्रातरतन्त्रितः । उपस्थानं गवां कुर्य्यात्तस्य स्युस्ताः सदा गृहे ।। २६१.
घृताक्तन्तु यवद्रोणं वात आवातु भेषजं । अनेन हुत्वा विधिवत् सर्व्वां मायां व्यपोहति ।। २६१.
प्रदेवो दासेन तिलान् हुत्वा कार्म्मणकृन्तनं । अभि त्वा पूर्व्वपीतये वषट़कारसमन्वितं ।। २६१.
वासकेध्मसहस्रन्तु हुतं युद्धे जयप्रदं । हस्त्यश्वपुरुषान् कुर्य्याद् बुधः पिष्टमयान् शुभान् ।। २६१.
परकीयानथोद्देश्य प्रधानपुरुषांस्तथा । सुस्विन्नान् पिष्टकवरान् क्षुरेणोत्कृत्य भागशः ।। २६१.
अभि त्वा शूर णोनुमो मन्त्रेणानेन मन्त्रवित् । कृत्वा सर्षपतैलाक्तान् क्रोधेन जुहुयात्ततः ।। २६१.
एतत् कृत्वा बुघः कर्म्म संग्रामे जयमाप्नुयात् । गारुड़ं वामदेव्यञ्च रथन्तरबृहद्रथौ ।। २६१.
पुष्कर उवाच साम्नां विधानं कथितं वक्षअये चाथर्व्वणामथ । शान्तातीयं गणं हुत्वा शान्तिमाप्नोति मानवः ।। २६१.
भैषज्यञ्च गणं हुत्वा सर्व्वान्रोगान् व्यपोहति । त्रिसप्तीयं गणं हुत्वा सर्व्वपपैः प्रमुच्यते ।। २६१.
क्कचिन्नाप्नोति च भयं हुत्वा चैवाभयङ्गणं । न क्कचिज्जायते राम गणं हुत्वा पराजितं ।। २६१.
आयुष्यञ्च गणं हुत्वा अपमृत्युं व्यपोहति । स्वस्तिमाप्नोति सर्व्वत्र हुत्वा स्वस्त्यनङ्गणं ।। २६१.
श्रेयसा योगमाप्नोति शर्म्मवर्म्मगणन्तथा । वास्तोष्पत्यगणं हुत्वा वास्तुदोषान् व्यपोहति ।। २६१.
तथा रौद्रगणं हुत्वा सर्व्वान् दोषान् व्यषोहति । एतैर्दशगुणैर्होमो ह्यष्टादशसु शान्तिषु ।। २६१.
वैष्णवी शान्तिरैन्द्री च व्राह्मी रौद्री तथैव च । वायव्या वारुणी चैव कौवेरी भार्गवी तथा ।। २६१.
प्राजापत्या तथा त्वाष्ट्री कौमारी वह्निदेवता । मारुद्गणा च गान्धारी शान्तिर्नैर्ऋतकी तथा ।। २६१.
शान्तिराङ्गिरसी याम्या पार्थिवी सर्व्वकामदा । यस्त्वां मृत्युरिति ह्येतज्जप्तं मृत्युविनाशनं ।। २६१.
सुपर्णंस्त्वेति हुत्वा च भुजगैर्नैव बाध्यते । इन्द्रेण दत्तमित्येतत् सर्वकामकरम्भवेत् ।। २६१.
इन्द्रेण दत्तमित्येतत् सर्वबाधाविनाशनं । इमा देवीति मन्त्रश्च सर्वशान्तिकरः परः ।। २६१.
देवा मरुत इत्येतत् सर्वकामकरम्भवेत् । यमस्य लोकादित्येत्त् दुःस्वप्नशमनम्परं ।। २६१.
इन्द्रश्च पञ्चबणिजेति१ पण्यलाभकरं परं । कामो मे वाजीति हुतं स्त्रीणां सौबाग्यवर्द्धनं ।। २६१.
तुभ्यमेव जबीमन्नित्ययुतन्तु हुतम्भवेत् । अग्नेगोबिन्न इत्येतत्२ मेधावृद्धिकरम्परं ।। २६१.
ध्रुवं ध्रुवेणेति हुतं स्थानलाभकरं भवेत् । अलक्तजीवेति शुना कृषिलाभकरं भवेत् ।। २६१.
अहन्ते भग्न इत्येतत् भवेत्सौभाग्यवर्द्धनं । ये मे पाशास्तथाप्येतत् बन्धनान्मोक्षकारणं ।। २६१.
शपत्वहन्निति रिपून् नाशयेद्धोमजाप्यतः । त्वमुत्तममितीत्येतद्यशोबुद्धिविवर्द्धनं ।। २६१.
यथा मृगमतीत्येतत् स्त्रीणां सौभाग्यवर्द्धनं । येन चेहदिदञ्चैव गर्भलाभकरं भवेत् ।। २६१.
वृहस्पतिर्न्नः परिपातु पथि स्वस्त्ययनं भवेत् । मुञअचामि त्वेति कथितमपमृत्युनिवारणं ।। २६१.