परि मे गामनेनेति वशीकरणमुत्तमं । हन्तुमभ्यागतस्तत्र वशी भवति मानवः ।। २६०.
भक्ष्यताम्बूलपुष्पाद्यं मन्त्रितन्तु प्रयच्छति । यस्य धर्मज्ञ वशगः सोस्य शीघ्रं भविष्यति ।। २६०.
शन्नो मित्र इतीत्येतत् सदा सर्व्वत्र शान्तिदं । गणानां त्वा गणपतिं कृत्वा होमञ्चतुष्पथे ।। २६०.
वशीकुर्य्याज्जगत्सर्वं सर्वधान्यैरसंशयम् । हिरण्यवर्णाः शुचयो मन्त्रोयमभिषेचने ।। २६०.
शन्नो देवीरभिष्टये तथा शान्तिकारः परः । एकचक्रेति मन्त्रेण हुतेनाज्येन भागशः ।। २६०.
ग्रहेभ्यः शान्तिमाप्नोति प्रसादं न च संशयः । गावो भग इति द्वाभ्यां हुत्वाज्यं गा अवाप्नुयात् ।। २६०.
प्रवादांषः सोपदिति गृहयज्ञे विधीयते । देवेभ्यो वनस्पत इति द्रुमयज्ञे विधीयते ।। २६०.
पुष्कर उवाच यजुर्व्विधानङ्कथितं वक्ष्ये साम्नां विधानकं । संहितां वैष्णवीञ्जप्त्वा हुत्वा स्यात् सर्व्वकामभाक् ।। २६१.
संहिताञ्छान्दसीं साधु जप्त्वा प्रीणाति शङ्करं । स्कान्दीं पैत्र्यां संहिताञ्च जप्त्वा स्यात्तु प्रसादवान् ।। २६१.
यत इन्द्र भजामहे हिंसादोषविनाशनं । अवकीर्णी मुच्यते च अग्निस्तिग्मेति वै जपन् ।। २६१.
सर्व्वंपापहरं ज्ञेयं परितोयञ्च तासु च । अविक्रेयञ्च विक्रीय जपेद्घृतवतीति च ।। २६१.
अयानो देव सवितर्ज्ञेयन्दुःस्वप्ननाशनं । अबोध्यग्निरितिमन्त्रेण घृतं राम यथाविधि ।। २६१.
अभ्युक्ष्य घृतशेषेण मेखलाबन्ध इष्यते । स्त्रीणां यासान्तु गर्भाणि पतन्ति भृगुसत्तम ।। २६१.
मणिं जातस्य बालस्य वध्नीयात्तदनन्तरं । सोमं राजानमेतेन व्याधिभिर्विप्रमुच्यते ।। २६१.
सर्पसाम प्रयुञ्चानो नाप्नुयात् सर्पजम्भयं । माद्य त्वा वाद्यतेत्येतद्धुत्वा विप्रः सहस्रशः ।। २६१.
सतावरिमणिम्बद्ध्वा नाप्नुयाच्छस्त्रतो भयं । दीर्घतससोर्क्क इति हुत्वान्नं प्राप्नुयाद्वहु ।। २६१.
स्वमध्यायन्तीति जपन्न म्रियेत् पिपासया । त्वमिमा ओषधी ह्येतज्जप्त्वा ब्याधिंन वाप्नुयात् ।। २६१.
पथि देवव्रतञ्जप्त्वा भयेब्यो विप्रमुच्यते । यदिन्द्रो मुनये त्वेति हुतं सौभाग्यवर्द्धनं ।। २६१.
भगो न चित्र हत्येवं नेत्रयो रञ्जनं हितं । सौभाग्यवर्द्धनं राम नात्र कार्य्या विचारणा ।। २६१.
जपेदिन्द्रेति वर्गञ्च तथा सौभाग्यवर्द्धनं । परि प्रिया हि वः कारिः काभ्यां संश्रावयेत् स्त्रियं ।। २६१.
सा तङ्कामयते राम नात्र कार्य्या विचारणा । रथन्तरं वामदेव्यं ब्रह्मवर्च्चसवर्द्धनं ।। २६१.
प्राशयेद्वालकं नित्यं वचाचूर्णं घृतप्लुतं । इन्द्रमिद्गाथिनं जप्त्वा भवेच्छ्रुतिधरस्त्वसौ ।। २६१.
हुत्वा रथन्तरञ्जप्त्वा पुत्रमाप्नोत्यसंशयं । मयि श्रीरिति मन्त्रोयं जप्तव्यः श्रीविवर्द्धनः ।। २६१.
वैरूप्यस्याष्टकं नित्यं प्रयुञ्जानः श्रियं लभेत् । सप्ताष्टकं प्रयुञ्चानः सर्व्वान् कामानवाप्नुयात् ।। २६१.
गव्येषुणेति यो नित्यं सायं प्रातरतन्त्रितः । उपस्थानं गवां कुर्य्यात्तस्य स्युस्ताः सदा गृहे ।। २६१.
घृताक्तन्तु यवद्रोणं वात आवातु भेषजं । अनेन हुत्वा विधिवत् सर्व्वां मायां व्यपोहति ।। २६१.
प्रदेवो दासेन तिलान् हुत्वा कार्म्मणकृन्तनं । अभि त्वा पूर्व्वपीतये वषट़कारसमन्वितं ।। २६१.
वासकेध्मसहस्रन्तु हुतं युद्धे जयप्रदं । हस्त्यश्वपुरुषान् कुर्य्याद् बुधः पिष्टमयान् शुभान् ।। २६१.
परकीयानथोद्देश्य प्रधानपुरुषांस्तथा । सुस्विन्नान् पिष्टकवरान् क्षुरेणोत्कृत्य भागशः ।। २६१.
अभि त्वा शूर णोनुमो मन्त्रेणानेन मन्त्रवित् । कृत्वा सर्षपतैलाक्तान् क्रोधेन जुहुयात्ततः ।। २६१.