नमो हिरण्यबाहवे इत्यनुवाकसप्तकम् । राजिकां कटुतैलाक्तां जुहुयाच्छत्रुनाशनीं ।। २६०.
नमो वः किरिकेभ्यश्च पद्मलक्षाहुतैर्न्नरः । राज्यलक्ष्मीमवाप्नोति तथा बिल्वैः सुवर्णकम् ।। २६०.
इमा रुद्रायेति तिलैर्होमाच्च धनमाप्यते । दूर्वाहोमेन चान्येन सर्वव्याधिविवर्ज्जितः ।। २६०.
आशुः शिशान इत्येतदायुधानाञ्च रक्षणे। संग्रामे कथितं राम सर्वशत्रुनिबर्हणं ।। २६०.
राजसामेति जुहुयात् सहस्रं पञ्चभिर्द्विज । आज्याहुतीनां धर्मज्ञ चक्षूरोगाद्विमुच्यते ।। २६०.
शन्नो वनस्पते गेहे होमः स्याद्वास्तुदोषनुत् । अग्न आयूंषि हुत्वाज्यं द्वेषं नाप्नोति केनचित् ।। २६०.
अपां फेनेति लाजाभिर्हुत्वा जयमवाप्नुयात् । भद्रा इतीन्द्रियैर्हीनो जपन् स्यात् सकलेन्द्रियः ।। २६०.
अग्निश्च पृथिवी चेति वशीकरणमुत्तमम् । अध्वनेति जपन् मन्त्रं व्यवहारे जयी भवेत् ।। २६०.
ब्रह्म राजन्यमिति च कर्मारम्भे तु सिद्धिकृत् । संवत्सरोसीति धृतैलक्षहोमादरोगवान् ।। २६०.
केतुं कृण्वन्नितीत्येतत् संग्रामे जयवर्द्धनम् । इन्द्रोग्निर्धर्म इत्येतद्रणे धर्मनिबन्धनम् ।। २६०.
धन्वनागेति मन्त्रश्च धनुर्ग्राहणिकः परः । युञ्जीतेति तथा मन्त्रो विज्ञेयो ह्यभिमन्त्रणे ।। २६०.
मन्त्रश्चाहिरथेत्येतच्छराणां मन्त्रणे भवेत् । वह्नीनां पितरित्येरत्तूणमन्त्रः प्रकीर्त्तितः ।। २६०.
युञ्जन्तीति तथाश्वानां योजने मन्त्र उच्यते । आशुः शिशान इत्येतद्यात्रारम्भणमुच्यते ।। २६०.
विष्णोः क्रमेति मन्त्रश्च रथारोहणिकः परः । आजङ्घेतीति चाश्वानां ताडनीयमुदाहृतं ।। २६०.
याः सेना अभित्वरीति परसैन्यमुखे भवेत् । यमेन दत्तमित्यस्य कोटिहोमाद्विचक्षणः ।। २६०.
एतैः पूर्वहुतैर्मन्त्रैः कृत्वैव विजयी भवेत् । यमेन दत्तमित्यस्य कोटिहोमाद्विचक्षणः ।। २६०.
रथमुत्पादयेच्छीघ्रं संग्रामे विजयप्रदम् । आ कृष्णेति तथैतस्य कर्मव्याहृतिवद्भवेत् ।। २६०.
शिवसंकल्पजापेन समाधिं मनसो लभेत् । पञ्चनद्यः पञ्चलक्षं हुत्वा लक्ष्मीमवाप्नुयात् ।। २६०.
यदा बध्नन्दाक्षायणां मन्त्रेणानेन मन्त्रितम् । सहस्रकृत्वः कनकं धारयेद्रिपुवारणं ।। २६०.
इमं जीवेभ्य इति च शिलां लोष्ट्रञ्चतुर्द्दिशं । क्षिपेद्गृहे तदा तस्य न स्याच्चौरभयं निशि ।। २६०.
परि मे गामनेनेति वशीकरणमुत्तमं । हन्तुमभ्यागतस्तत्र वशी भवति मानवः ।। २६०.
भक्ष्यताम्बूलपुष्पाद्यं मन्त्रितन्तु प्रयच्छति । यस्य धर्मज्ञ वशगः सोस्य शीघ्रं भविष्यति ।। २६०.
शन्नो मित्र इतीत्येतत् सदा सर्व्वत्र शान्तिदं । गणानां त्वा गणपतिं कृत्वा होमञ्चतुष्पथे ।। २६०.
वशीकुर्य्याज्जगत्सर्वं सर्वधान्यैरसंशयम् । हिरण्यवर्णाः शुचयो मन्त्रोयमभिषेचने ।। २६०.
शन्नो देवीरभिष्टये तथा शान्तिकारः परः । एकचक्रेति मन्त्रेण हुतेनाज्येन भागशः ।। २६०.
ग्रहेभ्यः शान्तिमाप्नोति प्रसादं न च संशयः । गावो भग इति द्वाभ्यां हुत्वाज्यं गा अवाप्नुयात् ।। २६०.
प्रवादांषः सोपदिति गृहयज्ञे विधीयते । देवेभ्यो वनस्पत इति द्रुमयज्ञे विधीयते ।। २६०.
पुष्कर उवाच यजुर्व्विधानङ्कथितं वक्ष्ये साम्नां विधानकं । संहितां वैष्णवीञ्जप्त्वा हुत्वा स्यात् सर्व्वकामभाक् ।। २६१.
संहिताञ्छान्दसीं साधु जप्त्वा प्रीणाति शङ्करं । स्कान्दीं पैत्र्यां संहिताञ्च जप्त्वा स्यात्तु प्रसादवान् ।। २६१.
यत इन्द्र भजामहे हिंसादोषविनाशनं । अवकीर्णी मुच्यते च अग्निस्तिग्मेति वै जपन् ।। २६१.