यो अस्मभ्यमरातीयाद्धुत्वा कृष्णतिलान्नरः । सहस्रशोऽभिचारच्च मुच्यते विकृताद् द्विज ।। २६०.
अन्नेनान्नपतेत्येवं हुत्वा चान्नमवाप्नुयात् । हंसः शुचिः सदित्येतज्जप्तन्तोयेऽघनाशनं ।। २६०.
चत्वारि शृङ्गेत्येतत्तु सर्व्वपापहरं जले । देवा यज्ञेति जप्त्वा तु ब्रह्मलोके महीयते ।। २६०.
वसन्तेति च हुत्वाज्यं आदित्याद्वरमाप्नुयात् । सुपर्णोसीति चेत्यस्य कर्मव्याहृतिवद्भवेत् ।। २६०.
नमः स्वाहेति त्रिर्ज्जप्त्वा बन्धनान्मोक्षमाप्नुयात् । अन्तर्ज्जले त्रिरावर्त्य द्रुपदा सर्व्वपापमुक् ।। २६०.
इह गावः प्रजायध्वं मन्त्रोयं बुद्धिवर्द्धनः । हुतन्तु सर्पिषा दध्ना पयसा पायसेन वा ।। २६०.
शतं य इति चैतेन हुत्वा पर्णफलानि च । आरोग्यं श्रियमाप्नोति जीवतञ्च चिरन्तथा ।। २६०.
ओषधीः प्रतिमोदध्वं वपने लवनेऽर्थकृत् । तस्मा इति च मन्त्रेण बन्धनस्थो विमुच्यते । युवा सुवासा इत्येव वासांस्याप्नोति चोत्तमम् ।। २६०.
मुञ्चन्तु मा शपथ्यानि सर्व्वान्तकविनाशनम् । मा मा हिंसीस्तिलाज्येन हुतं रिपुविनाशनं ।। २६०.
नमोऽस्तु सर्व्वसर्पेभ्यो घृतेन पायसेन तु । कृणुध्वं पाज इत्येतदभिचारविनाशनं ।। २६०.
दूर्व्वाकाण्डायुतं हुत्वा काण्डात् काण्डेति मानवः । ग्रामे जनपदे वापि मरकन्तु शमन्नयेत् ।। २६०.
रोगार्त्तो मुच्यते रोगात् तथा दुःखात्तु दुःखितः । औडुम्बरीश्च समिधो मधुमान्नो वनस्पतिः ।। २६०.
हुत्वा सहस्रशो राम धनमाप्नोति मानवः । सौभाग्यं महदाप्नोति व्यवहारे तथा जयम् ।। २६०.
अपां गर्भमिति हुत्वा देवं वर्षापयेद्ध्रुवम् । अपः पिबेति च तथा हुत्वा दधि घृतं मधु ।। २६०.
प्रवर्त्तयति धर्मज्ञ महावृष्टिमनन्तरं । नमस्ते रुद्र इत्येतत् सर्व्वोपद्रवनाशनं ।। २६०.
सर्व्वशान्तिकरं प्रोक्तं महापातकनाशनं । अध्यवोचदित्यनेन रक्षणं व्याधितस्य तु ।। २६०.
रिपूणां भयदं युद्धे नात्र कार्य्या विचारणा । मानो महान्त इत्येवं बालानां शान्तिकारकं ।। २६०.
असौ यस्ताम्र इत्येतत् पठन्नित्यं दिवाकरं । उपतिष्ठेत धर्मज्ञ सायं प्रातरतन्द्रितः ।। २६०.
अन्नमक्षयमाप्नोति दीर्घमायुश्च विन्दति । प्रमुञ्च धन्वन्नित्येतत् षड्भिरायुधमन्त्रणं ।। २६०.
रिपूणां भयदं युद्धे नात्र कार्य्या विचारणा । मानो महान्त इत्येवं बालानां शान्तिकारकं ।। २६०.
नमो हिरण्यबाहवे इत्यनुवाकसप्तकम् । राजिकां कटुतैलाक्तां जुहुयाच्छत्रुनाशनीं ।। २६०.
नमो वः किरिकेभ्यश्च पद्मलक्षाहुतैर्न्नरः । राज्यलक्ष्मीमवाप्नोति तथा बिल्वैः सुवर्णकम् ।। २६०.
इमा रुद्रायेति तिलैर्होमाच्च धनमाप्यते । दूर्वाहोमेन चान्येन सर्वव्याधिविवर्ज्जितः ।। २६०.
आशुः शिशान इत्येतदायुधानाञ्च रक्षणे। संग्रामे कथितं राम सर्वशत्रुनिबर्हणं ।। २६०.
राजसामेति जुहुयात् सहस्रं पञ्चभिर्द्विज । आज्याहुतीनां धर्मज्ञ चक्षूरोगाद्विमुच्यते ।। २६०.
शन्नो वनस्पते गेहे होमः स्याद्वास्तुदोषनुत् । अग्न आयूंषि हुत्वाज्यं द्वेषं नाप्नोति केनचित् ।। २६०.
अपां फेनेति लाजाभिर्हुत्वा जयमवाप्नुयात् । भद्रा इतीन्द्रियैर्हीनो जपन् स्यात् सकलेन्द्रियः ।। २६०.
अग्निश्च पृथिवी चेति वशीकरणमुत्तमम् । अध्वनेति जपन् मन्त्रं व्यवहारे जयी भवेत् ।। २६०.
ब्रह्म राजन्यमिति च कर्मारम्भे तु सिद्धिकृत् । संवत्सरोसीति धृतैलक्षहोमादरोगवान् ।। २६०.
केतुं कृण्वन्नितीत्येतत् संग्रामे जयवर्द्धनम् । इन्द्रोग्निर्धर्म इत्येतद्रणे धर्मनिबन्धनम् ।। २६०.