त्रियम्बकं यजामहे होमः सौभाग्यवर्द्धनः ।। २६०.
कन्यानाम गृहीत्वा तु कन्यालाभकरः परः । भयेषु तु जपेन्नित्यं भयेभ्यो विप्रमुच्यते ।। २६०.
धुस्तूरपुष्पं सघृतं हुत्वा स्यात् सर्वकामभाक् । हुत्वा तु गुग्गुलं राम स्वप्ने पश्यति शङ्करं ।। २६०.
युञ्चते मनोऽनुवाकं जप्त्वा दीर्घायुराप्नुयात् । विष्णोरराटमित्येतत् सर्वबाधाविनाशनं ।। २६०.
रक्षोघ्नञ्च यशस्यञ्च तथैव विजयप्रदं । अयन्नो अग्निरित्येतत् संग्रामे विजयप्रदं ।। २६०.
इदमापः प्रवहत स्नाने पापापनोदनं । विश्वकर्मन्नु हविषा सूचीं लौहीन्दशाङ्गुलाम् ।। २६०.
कन्याया निखनेद् द्वारि साऽन्यस्मै न प्रदीयते । देव सवितरेतेन हुतेनैतेन चान्नवान् ।। २६०.
अग्नौ स्वाहेति जुहुयाद्बलकामो द्विजोत्तम । तिलैर्यवैश्च धर्मज्ञ तथापामार्गतण्डुलैः ।। २६०.
सहस्रमन्त्रितां कृत्वातथा गोरोचनां द्विज । तिलकञ्च तथा कृत्वा जनस्यप्रियकामियात् ।। २६०.
रुद्राणाञ्च तथा जप्यं सर्व्वाघविनिसूदनं । सर्व्वकर्मकरो होमस्तथा सर्व्वत्र शान्तिदः ।। २६०.
अजाविकानामश्वानां कुञ्जराणां तथा गवां । मनुष्याणान्नरेन्द्राणां बालानां योषितामपि ।। २६०.
ग्रामाणां नगराणाञ्च देशानामपि भार्गव । उपद्रुतानां धर्मज्ञ व्याधितानां तथैव च ।। २६०.
मरके समनुप्राप्ते रिपुजे च तथा भये । रुद्रहोमः परा शान्तिः पायसेन घृतेन च ।। २६०.
कुष्माण्डघृतहोमेन सर्व्वान् पापान् व्यपोहति । शक्तुयावकभैक्षाशी नक्तं मनुजसत्तम ।। २६०.
बहिःस्नानरतो मासान्मुच्यते ब्रह्यहत्यया । मधुवातेति मन्त्रेण होमादितोऽखिलं लभेत् ।। २६०.
दधिक्राव्णेति हुत्वा तु पुत्रान् प्राप्नोत्यसंशयं । तथा घृतवतीत्येतदायुष्यं स्यात् घृतेन तु ।। २६०.
स्वस्ति न इन्द्र इत्येतत्सर्व्वबाधाविनाशनं । इह गावः प्रजायध्वमिति पुष्टिविवर्धनम् ।। २६०.
घृताहुतिसहस्रेण तथाऽलक्ष्मीविनाशनं । स्रुवेण देवस्य त्वेति हुत्वापामार्गतण्डुलं ।। २६०.
मुच्यते विकृताच्छीघ्रमभिचारान्न संशयः । रुद्र पातु पलाशस्य समिद्भिः कनकं लभेत् ।। २६०.
शिवो भवेत्यग्न्युत्पाते व्रीहिभिर्जुहुयान्नरः । याः सेना इति चैतच्च तस्करेभ्यो भयापहम् ।। २६०.
यो अस्मभ्यमरातीयाद्धुत्वा कृष्णतिलान्नरः । सहस्रशोऽभिचारच्च मुच्यते विकृताद् द्विज ।। २६०.
अन्नेनान्नपतेत्येवं हुत्वा चान्नमवाप्नुयात् । हंसः शुचिः सदित्येतज्जप्तन्तोयेऽघनाशनं ।। २६०.
चत्वारि शृङ्गेत्येतत्तु सर्व्वपापहरं जले । देवा यज्ञेति जप्त्वा तु ब्रह्मलोके महीयते ।। २६०.
वसन्तेति च हुत्वाज्यं आदित्याद्वरमाप्नुयात् । सुपर्णोसीति चेत्यस्य कर्मव्याहृतिवद्भवेत् ।। २६०.
नमः स्वाहेति त्रिर्ज्जप्त्वा बन्धनान्मोक्षमाप्नुयात् । अन्तर्ज्जले त्रिरावर्त्य द्रुपदा सर्व्वपापमुक् ।। २६०.
इह गावः प्रजायध्वं मन्त्रोयं बुद्धिवर्द्धनः । हुतन्तु सर्पिषा दध्ना पयसा पायसेन वा ।। २६०.
शतं य इति चैतेन हुत्वा पर्णफलानि च । आरोग्यं श्रियमाप्नोति जीवतञ्च चिरन्तथा ।। २६०.
ओषधीः प्रतिमोदध्वं वपने लवनेऽर्थकृत् । तस्मा इति च मन्त्रेण बन्धनस्थो विमुच्यते । युवा सुवासा इत्येव वासांस्याप्नोति चोत्तमम् ।। २६०.
मुञ्चन्तु मा शपथ्यानि सर्व्वान्तकविनाशनम् । मा मा हिंसीस्तिलाज्येन हुतं रिपुविनाशनं ।। २६०.
नमोऽस्तु सर्व्वसर्पेभ्यो घृतेन पायसेन तु । कृणुध्वं पाज इत्येतदभिचारविनाशनं ।। २६०.