सर्व्वत्रेति परा शान्तिर्ज्ञेया प्रतिरथस्तथा । सूत संकाश्यपन्नित्यं प्रजाकामस्य कीर्त्तितं ।। २५९.
अहं स्द्रेति इत्येतद्वाग्मी भवति मानवः । न योनौ जायते विद्वान् जपन्रतीति रात्रिषु ।। २५९.
रात्रिसुक्तं जपन्रात्रौ रात्रिं क्षेमी नयेन्नरः । कल्पयन्तीति च चजपन्नित्यं कृत्त्वारिनाशनं ।। २५९.
आयुष्यञ्चैव वर्च्चस्यं सूक्तं दाक्षायणं महत् । उत देवा इति जपेदामयघ्नं धृतव्रतः ।। २५९.
अयप्तग्ने जनित्येतज्जपेदग्निभये सति । अरण्यानीत्यरण्येषु जपेत्तद्बयनाशनं ।। २५९.
व्राह्मीमासाद्य सूक्ते द्वे ऋचं चब्राह्मीं शतावरीं । पृथगद्भिर्घृतैर्वाथ मेधां लक्ष्मीञ्च विन्दति ।। २५९.
माम इत्यसपत्नघ्नं संग्रामं विजिगीषतः । ब्रह्मणोग्निः संविदानं गर्भमृत्युनिवारणं ।। २५९.
अपैहीति जपेत्सूक्तं शुषिर्दुस्वप्ननाशनं । येनेदमिति वै जप्त्वा समाधिं विन्दते परं ।। २५९.
मयो भूर्व्वात इत्येतत् गवां स्वस्त्ययनं परं । शाम्वरीमिन्द्रजालं वा मायामेतेन वारयेत् ।। २५९.
महीत्रीणामवरस्त्विति पथि स्वस्त्ययनं जपेत् । अग्नये बिद्विषन्नेवं जपेच्च रिपुनाशनं ।। २५९.
वास्तोष्पतेन मन्त्रेण यजेत् गृहदेवताः । जपस्यैष विधिः प्रोक्तो हुते ज्ञेयो विशेषतः ।। २५९.
होमान्ते दक्षिणा देयै पापशान्तिर्हुतेन तु । हुतं शाम्यति चान्नेन अन्नहेमप्रदानतः ।। २५९.
विप्राशिषस्त्वमोघाः स्युषंहिःस्नानन्तु सर्वतः । सिद्धार्थका यवा धान्यं पयो दधि घृतं तथा ।। २५९.
क्षीरवृक्षास्तथेध्मन्तु हामा वै सर्वकामदाः । समिपः कण्टकिन्यश्च राजिका रुधिरं विषं ।। २५९.
अबिचारे तथा शैलं अशनं शक्तवः पथः । दधि भैक्ष्यं फलं मृलमृग्विधानमुदाहृतं ।। २५९.
पुष्कर उवाच यजुर्विधानं वक्ष्यामि भुक्तिमुक्तिप्रदं श्रृणु । ॐकारपूर्व्विका राम महाव्याहृतयो मता ।। २६०.
सर्व्वकल्मषनाशिन्यः सर्व्वकामप्रदास्तथा । आज्यहुतिसहस्रेण देवानाराधयेद्बुधः ।। २६०.
मनसः काङ्क्षितं राम मनसेप्सितकामदं । शान्तिकामो यवैः कुर्य्यात्तिलैः पापापनुत्तये ।। २६०.
धान्यैः सिद्धार्थकैश्चैव सर्व्वकामकरैस्तथा । औदुम्बरीभिरिध्मामिः पशुकामस्य शस्यते ।। २६०.
दध्ना चैवान्नकामस्य पथसा शान्तिमिच्छतः । अपामार्गसमिद्भिस्तु कामयन् कनकं बहु ।। २६०.
कन्याकामो घृताक्तानि युग्मशो ग्रथितानि तु । जातीपुष्पाणि जुहुयाद्ग्रामार्थी तिलतण्डुलान् ।। २६०.
वश्यकर्मणि शाखोटवासापामार्गमेव च । विषासृङ्मिश्रसमिधो व्याधिघातस्य भार्गव ।। २६०.
क्रुद्धस्तु जुहुयात्सम्यक् शत्रूणां वधकाम्यया । सर्व्वव्रीहिमयीं कृत्वा राज्ञः प्रतिकृतिं द्विज ।। २६०.
सहस्नशस्तु जुहुयाद्राजा वशगतो भवेत् । वस्त्रकामस्य पुष्पाणि दूर्व्वा व्याधिविनाशिनी ।। २६०.
ब्रह्मवर्च्चसकामस्य वासोग्रञ्च विधीयते । प्रत्यङ्गिरेषु जुहुयात्तुषकण्टकभस्मभिः ।। २६०.
विद्वेषणे च पक्ष्माणि काककौशिकयोस्तथा । कापिलञ्च घृतं हुत्वा तथा चन्द्रग्रहे द्विज ।। २६०.
वचाचूर्णेन सम्पातात्समानीय च तां वचां । सहस्रमन्त्रितां भुक्त्वा मेधावी जायते नरः ।। २६०.
एकादशाङ्गुलं शङ्कु लौहं खादिरमेव च। द्विषतो वधोसीति जपन्निखनेद्रिपुवेश्मनि ।। २६०.
उच्चाटनमिदं कर्म शत्रूणां कथितं तव । चक्षुष्पा इति जप्त्वा च विनष्टञ्चक्षुराप्नुयात् ।। २६०.
उपयुञ्जत इत्येतदनुवाकन्तथान्नदं । तनूपाग्ने सदिति दूर्व्वां हुत्वार्त्तिवर्ज्जितः ।। २६०.