अंशुश्च द्वादशादित्या आसन् वैवस्वतेन्तरे। अरिष्टनेमिपत्नीनामपत्यानीह षोडश
बहुपुत्रस्थ विदुषश्चतस्त्रो विद्युतः सुताः । प्रत्यङ्गिरसजाः श्रेष्ठाः कृशाश्वस्य सुरायुदाः
उदयास्तमने सूर्ये तद्वदेते युगे युगे। हिरण्यकशिपुर्द्दित्यां हिरण्याक्षश्च कश्यपात्
सिंहिका चाभवत् कन्या विप्रचित्तेः परिग्रहः। राहुप्रभृतयस्तस्यां सैंहिकेया इति श्रुताः
हिरण्यकशिपोः पुत्रास्चत्वारः प्रथितौजसः। अनुह्रादश्च ह्लादश्च प्रह्रादश्चातिवैष्णवः
संह्रादश्च चतुर्थोभूत् ह्रादपुत्रो ह्रदस्तथा। ह्रदस्य पुत्र आयुष्मान् शिबिर्वास्कल एव च
विरोजनस्तु प्राह्रादिर्बलिर्जज्ञे विरोचनात्। बलेः पुत्रशतं त्वासीद्बाणश्रेष्ठं महामुने
पुरा कल्पे हि वाणेन प्रसाद्योमापतिं वरः । पार्श्वतो विहरिष्यामीत्येवं प्राप्तश्च ईश्वरात्
हिरण्याक्षसुताः पञ्च सम्बरः शकुनिस्त्विति । द्विमूर्द्धा शह्कुरार्यस्च शतमासन् दनोः सुताः
स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु शची स्मृता। उपदानवी हयशिरा शर्मिष्ठा वार्षपर्वणी
पुलोमा कालका चैव वैश्वानरसुते उभे। कश्यपस्प तु भार्ये द्वे तयोः पुत्रास्च कोटयः
प्रह्रादस्य चतुष्कोट्यो निवातकवचाः कुले। ताम्रायाः षट् सुताः स्युश्च काकी श्वेनी च भास्यपि
गृध्रिका श्रुचि सुग्रीवा ताभ्यः काकादयोऽभवन्। अश्वाश्चोष्ट्राश्च ताम्राया अरुणो गरुडस्तथा
विनतायाः सहस्त्रन्तु सर्पाश्च सुरसाभवाः। काद्रवेयाः सहस्त्रन्तु शेषवासुकितक्षकाः
दंष्ट्रिणः क्रोधवशजा धरोत्याः पक्षिणो जले। सुरभ्यां गोमहिष्यादि हरोत्पन्नास्तृणादयः
खसायां यक्षरक्षांसि मुनेरप्सरसोभवत्। अरिष्टायान्तु गन्धर्वाः कश्यपाद्धि स्थिरञ्चरम्
एषां पुत्रादयोऽसङ्ख्या देवैर्वै दानवा जिताः । दितिर्विनष्टपुत्रा वै तोषयामास कश्यपम्
पुत्रमिन्द्रप्रहर्त्तारमिच्छती प्राप कश्यपात्। पादाप्रक्षालनात् सुप्ता तस्या गर्भं जघान ह
छिद्रमन्विष्य चेन्द्रस्तु ते देवा मरुतोऽभवन्। शक्रस्यैकोनपञ्चाशत्सहाया दीप्ततेजसः
एतत् सर्वं हरिर्ब्रह्मा अभिषिच्य पृथुं नृपम्। ददौ क्रमेण राज्यानि अन्येषामधिपो हरिः
द्विजौषधीनां चन्द्रश्च अपान्तु वरुणो नृपः। राज्ञां वैश्रवणो राजा सूर्याणां विष्णुरीश्वरः
वसूनां पावको राजा मरुतां वासवः प्रभुः। प्रजापतीनां दक्षोथ प्रह्लादो दानवाधिपः
पितॄणां च यमो राजा भूतादीनां हरः प्रभुः। हिमवांश्चैव शैलानां नदीनां सागरः प्रभुः
गन्धर्वाणां चित्ररथो नागानामथ वासुकिः। सर्पाणां तक्षको राजा गरुडः पक्षिणामथ
ऐरावतो गजेन्द्राणां गोवृषोथ गवामपि। मृगाणामथ शार्दूलः प्लक्षो वनस्पतीश्वरः
उच्चैः श्रवास्तथाश्वानां सुधन्वा पूर्वपालकः। दक्षिणस्यां शङ्खपदः केतुमान् पालको जले
अग्निरुवाच प्रथमो महतः सर्गो विज्ञेयो ब्रह्माणस्तु सः। तन्मात्राणां द्वितीयस्तु भूतसर्गो हि स स्मृतः
वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः। इत्येष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्वकः
मुख्यः सर्गस्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः। तिर्यक्स्त्रोतास्तु यः प्रोक्तस्तैर्य्यग्योन्यस्ततः स्मृतः
तथोद्र्ध्वस्त्रोतसां षष्ठो देवसर्गस्तु स स्मृतः। ततोर्वाकस्त्रोतसां सर्गः सप्तमः स तु मानुषः