अच्छावदेति सूक्तञ्च वृष्टिकामः प्रयोजयेत् । निराहारः क्लिन्नवासा न चिरेण प्रवर्षति ।। २५९.
मनसः काम इत्येतां पशुकामो नरो जपेत् । कर्द्दमेन इति स्नायात्प्रजाकामः शुचिव्रतः ।। २५९.
अश्वपूर्वा इति स्नायाद्राज्यकामस्तु मानवः । रोहिते चर्म्मणि स्नायात् ब्राह्मणस्तु यथाविधि ।। २५९.
राजा चर्म्मणि वैयाघ्रे छागे वैश्यस्तथैव च । दशसाहस्रिको होमः प्रत्येकं परिकीर्त्तितः ।। २५९.
आगार इति सूक्तेन गोष्ठे गां लोकमातरं । उपतिष्ठेद् व्रजेच्चैव यदिच्छेत्ताः सदाक्षयाः ।। २५९.
उपेतितिसृभी राज्ञो दुन्दुभिमभिमन्त्रयेत् । तेजो बलञ्ज प्राप्नोति शत्रुञ्चैव नियच्छति ।। २५९.
जमूतमृक्तेन तथा सेनाङ्गान्यभिमन्त्रयेत् । यधा लिङ्गं ततो राजा विनिहन्ति रणे रिपून् ।। २५९.
आग्नेयेति त्रिभिः सूक्तैर्धनमाप्नोति चाक्षयं । अमीवहेति सूक्तेन भूतानि स्थापयेन्निशि ।। २५९.
संबाधे विषमे दुर्गे बन्धो वा निर्गतः क्कचित् । पलायन् वा गृहीतो वा सूक्तमेतत्तथा जपेत् ।। २५९.
त्रिरात्रं नियतोपोष्य श्रापयेत् पायसञ्चरुं । तेनाहुतिशतं पूर्णं जुहुयात् त्र्यम्बकेत्यृचा ।। २५९.
समुद्दिश्य महादेवं जीवेदब्दशतं सुखं । तच्चक्षुरित्यचा स्नात उपतिष्ठेद्दिवाकरं ।। २५९.
उद्यन्तं मध्यागञ्चैव दीर्घमायुर्ज्जिजीविषुः । इन्द्रा सोमेति सूक्तन्तु कथितं शत्रुनाशनं ।। २५९.
यस्य लुप्तं व्रतं मोहाद्व्रात्यैर्वा संसृजेत्सह । उपोष्याज्यं स जुहुयात्त्वमग्ने व्रतपा इति ।। २५९.
आदित्येत्यृक् च सम्राजं जप्त्वा वादे जयी भवेत् । महीति च चतुष्केण मुच्यते महतो भयात् ।। २५९.
ऋचं जप्त्वा यदि ह्येतत् सर्व्वकामानवाप्नुयात् । द्वाचत्वारिंशतिं चैन्द्रं जप्त्वा नाशयते रिपून् ।। २५९.
वाचं महीति जप्त्वा च प्राप्नोत्यारोग्यमेव च । शन्नो भवेति द्वाभ्यान्तु भुक्त्वान्नं प्रथतः शुचिः ।। २५९.
हृदयं पाणिना स्पृष्ट्वा व्याधिबिन्नाभिभूयते । उत्तभेदमिति स्नातो हुत्वा शत्रुं प्रमापयेत् ।। २५९.
शन्नोग्न इति सूक्तेन हुतेनान्नमवाप्नुयात् । कन्या वारर्षिसूक्तेन दिग्दोषाद्विप्रमुच्यते ।। २५९.
वाचो विदमिति त्वेतां जपन् वाचं समश्नुते । पवित्राणां पवित्रन्तु पावमान्येयृचो मताः ।। २५९.
वैखानसाऋचस्त्रिंशत्पवित्राः परमा मताः । ऋचो द्विषष्टिः प्रोक्ताश्च परस्वेत्यृषिसत्तम ।। २५९.
सर्व्वकल्मषनाशाय पावनाय शिवाय च । स्वादिष्टयेतिसूक्तानां सप्तषष्टिरुदाहृता ।। २५९.
दशोत्तराण्यृचाञ्चैताः पावमान्यः शतानि षट्। एतज्जपंश्च जुह्वच्च घोरं मृत्युभयं जयेत् ।। २५९.
आपोहिष्ठेति वारिस्थो जपेत्पापभयार्द्दने । प्रदेवन्नेति नियते जपेच्च मरुधन्वसु ।। २५९.
प्राणान्तिके भये प्राप्ते क्षिप्रमायुस्तु विन्दति । प्रावेयाबित्यृचमेकां जपेच्च मनसा निशि ।। २५९.
व्युष्टायामुदिते सृर्य्ये द्युते जयमवाप्नुयात् । मा प्रगामेति मूढश्च पन्थानं पथि विन्दति ।। २५९.
क्षीणायुरिति मन्येत् यङ्कञ्चित् सुहृदं प्रियं । यक्तेयमिति तु रत्नातस्तस्य मूर्द्धानमालभेत् ।। २५९.
सहस्रकृत्वः पञ्चाहं तेनायुर्विन्दते महत् । इदं मेध्येति जुहुयात् घृतं प्राज्ञः सहस्रशः ।। २५९.
पशुकामो गवां गोष्ठे अर्थकामश्चतुष्पथे । वयः सुपर्ण इत्येतां जपन् वै विन्दते श्रियं ।। २५९.
इविष्यन्तीयमब्यस्य सर्व्वपापैः प्रमुच्यते । तस्य रोगा विनश्यन्ति कायाग्निर्वर्द्धते तथा ।। २५९.
या ओषधयः स्वस्त्ययनं सर्व्वव्याधिविनाशनं । वृहस्पते अतीत्येतद्वृष्टिकामः प्रयोजयेत् ।। २५९.