उपतिष्ठेत् समित्पाणिर्व्वासांस्याप्नोत्यसंशयं । आयुरीप्सन्निममिति कौत्स सूक्तं सदा जपे ।। २५९.
आपनः शोशुचदिति स्तुत्वा मध्ये दिवाकरं । यथा मुञ्चति चेषीकां तथा पापं प्रमुञ्चति ।। २५९.
जातवेदस इत्येतज्जपेत् स्वस्त्ययनं पथि । भयैर्व्विमुच्यते सर्व्वः स्वस्तिमानाप्नुयात् गृहान् ।। २५९.
व्युष्टायाञ्च तथा रात्र्यामेतद्दुःस्वप्ननाशनं । प्रमन्दिनेति सूयन्त्या जपेद्गर्भविमोचनं ।। २५९.
जपन्निन्द्रमिति स्नातो वै श्वदेवन्तु सप्तकं । मुञ्चत्याज्यं तथा जुह्वत् सकलं किल्विषं नरः ।। २५९.
इमामिति जपन् शश्वत् कामानाप्नोत्यभीप्सितान् । मानस्तोक इति द्वाभ्यां त्रिरात्रोपोषितः शुचिः ।। २५९.
औडुम्बरीश्च जुहुयात्समिधश्चाज्यसंस्कृताः । छित्त्वा सर्व्वान्मृत्युपाशान् जीवेद्रोगविवर्जितः ।। २५९.
ऊद्र्ध्ववाहुरनेनैव स्तुत्वा शम्भुं तथैव च । मानस्तोकेति च ऋचा शिखाबन्धे कृते नरः ।। २५९.
अधृष्यः सर्वभूतानां जायते संशयं विना । चित्रमित्युपतिष्ठेत त्रिसन्ध्यं भास्करं तथा ।। २५९.
समित्पाणिर्नरो नित्यमीप्सितं धनमाप्नुयात् । अथ स्वप्नेति च जपन् प्रातर्मध्यन्दिने दिने ।। २५९.
दुःस्वप्नञ्चार्द्दते कृत्स्नं भोजनञ्चाप्नुयाच्छुभम् । उभे पुमानिति तथा रक्षोघ्नः परिकीर्त्तितः ।। २५९.
उभे वासा इति ऋचो जपन् कामानवाप्नुयात् । न सागान्निति च जपन् मुच्यते चाततायिनः ।। २५९.
कया शुभेति च जपन् जातिश्रैष्ठमवाप्नुयात् । इमन्नृसोममित्येतत् सर्व्वान् कामानवाप्नुयात् ।। २५९.
पितरित्युपतिष्ठेत नित्यमर्थमुपस्थितं । अग्ने नयेति सूक्तेन घृतहोमश्च मार्गगः ।। २५९.
वीरान्नयमवाप्नोति सुश्लोकं यो जपेत् सदा। सङ्कतो नेति सूक्तेन विषान् सर्व्वान् व्यपोहति ।। २५९.
यो जात इति सूक्तेन सर्व्वान् कामानवाप्नुयात् । गणानामिति सूक्तेन स्निग्धमाप्नोत्यनुत्तमं ।। २५९.
यो मे राजन्नितीमांन्तु दुःस्वप्नशमनीमृचं । अध्वनि प्रस्थितो यस्तु पश्येच्छत्रुं समुत्थितं ।। २५९.
अप्रसस्तं प्रशस्तं वा कुविदङ्ग इमं जपेत् । द्वाविंशकं जपन् सूक्तमाध्यात्मिकमनुत्तमं ।। २५९.
पर्वसु प्रयतो नित्यमिष्टान् कामान् समश्नुते । कृणुष्वेति जपन् सूक्तं जुह्वदाज्यं समाहितः ।। २५९.
अरातीनां हरेत् प्राणान् रक्षांस्यपि विनाशयेत् । उपतिष्ठेत् स्वयं वह्निं परित्यचा दिने दिने ।। २५९.
तं रक्षति स्वयं वह्निर्व्विश्वतो विश्वतोमुखः । हंसः शुचिः सदित्येतच्छुचिरीक्षेद्दिवाकरं ।। २५९.
कृषिं प्रपद्यमानस्तु स्थालीपाकं यथाविधि । जुहुयात् क्षेत्रमध्ये तु स्वनीस्वाहास्तु पञ्चभिः ।। २५९.
इन्द्राय च मरुद्ब्यस्तु पर्ज्जन्याय भगाय च । यथालिङ्गन्तु विहरेल्लाङ्गलन्तु कृषीबलः ।। २५९.
युक्तो धान्याय सीतायै सुनासीरमथोत्तरं । गन्धमाल्यैर्नमस्कारैर्यजेदेताश्च देवताः ।। २५९.
प्रवापने प्रलवने खलसीतापहारयोः । अमोघङ्गर्म्म भवति वर्द्धते सर्व्वदा कृषिः ।। २५९.
समुद्रादिति सूक्तेन कामानाप्नोति पावकात् । विश्वानर इति द्वाभ्यां य ऋग्भ्यां वह्निमर्हति ।। २५९.
स तरत्यापदः सर्व्वा यशः प्राप्नोति चाक्षयं । विपुलां श्रियमाप्नोति जयं प्राप्नोत्यनुत्तमं ।। २५९.
. अग्ने त्वमिति च स्तुत्वा धनमाप्नोति वाञ्छितं । प्रजाकामो जपेन्नित्यं वरुणदैवतत्रयं ।। २५९.
स्वस्त्या त्रयं जपेत् प्रातः सदा स्वस्त्ययनं महत् । स्वस्ति पन्था इति प्रोच्य स्वस्तिमान् व्रजतेऽध्वनि ।। २५९.
विजीगीषुर्वनस्पते शत्रणां व्याधितं भवेत् । स्त्रिया गर्भप्रमूढाया गर्भमोक्षणमुत्तमं ।। २५९.