मुच्यते सर्वपापेभ्यो गदी वाप्यगदो भवेत् । य इच्छेच्छाश्वतं कामं मित्रं प्राज्ञं पुरन्दरं ।। २५९.
ऋग्भिः षोड़शभिः कुर्य्यादिन्द्रस्येति दिने दिने । हिहण्यस्तूपमित्येतज्जपन् शत्रून् प्रबाधते ।। २५९.
क्षेमी भवति चाध्वानो ये ते पन्था जपन् नरः । रौद्रीभिः षड्भिरीशानं स्तूयाद् यो वै दिने दिने ।। २५९.
चरुं वा कल्पयेद्रौद्रं तस्यशान्तिः पराभवेत् । उदित्युदन्तमादित्यमुपतिष्ठन् दिने दिने ।। २५९.
क्षिपेज्जलाञ्जलीन् सप्त मनोदुःखविनाशनं । द्विषन्तमित्यथार्द्धर्च्चं यद्विप्रान्तं जपन् स्मरेत् ।। २५९.
आगस्कृत् सप्तरात्रेण विद्वेषमधिगच्छति । आरोग्यकामी रोगी वा प्रस्कन्नस्योत्तमं जपेत् ।। २५९.
उत्तमस्तस्य चार्द्धर्च्चो जपेद्वै विविधासने । उदयत्यायुरक्ष्यय्यं तेजो मध्यन्दिने जपेत् ।। २५९.
अस्तं प्रतिगते सूर्य्ये द्विषन्तं प्रतिबाधते । न वयश्चेति सूक्तानि जपन् शत्रून्नियच्छति ।। २५९.
. एकाद्श सुपर्णस्य सर्व्वकामान्विनिर्द्दिशेत् । आद्यात्मिकी कइत्येता जपन्मोक्षमवाप्नुयात् ।। २५९.
आ नो भद्रा इत्यनेन दीर्घमायुरबाप्नुयात् । त्वं सीमेति च सूक्तेन नवं पश्येन्निशाकरं ।। २५९.
उपतिष्ठेत् समित्पाणिर्व्वासांस्याप्नोत्यसंशयं । आयुरीप्सन्निममिति कौत्स सूक्तं सदा जपे ।। २५९.
आपनः शोशुचदिति स्तुत्वा मध्ये दिवाकरं । यथा मुञ्चति चेषीकां तथा पापं प्रमुञ्चति ।। २५९.
जातवेदस इत्येतज्जपेत् स्वस्त्ययनं पथि । भयैर्व्विमुच्यते सर्व्वः स्वस्तिमानाप्नुयात् गृहान् ।। २५९.
व्युष्टायाञ्च तथा रात्र्यामेतद्दुःस्वप्ननाशनं । प्रमन्दिनेति सूयन्त्या जपेद्गर्भविमोचनं ।। २५९.
जपन्निन्द्रमिति स्नातो वै श्वदेवन्तु सप्तकं । मुञ्चत्याज्यं तथा जुह्वत् सकलं किल्विषं नरः ।। २५९.
इमामिति जपन् शश्वत् कामानाप्नोत्यभीप्सितान् । मानस्तोक इति द्वाभ्यां त्रिरात्रोपोषितः शुचिः ।। २५९.
औडुम्बरीश्च जुहुयात्समिधश्चाज्यसंस्कृताः । छित्त्वा सर्व्वान्मृत्युपाशान् जीवेद्रोगविवर्जितः ।। २५९.
ऊद्र्ध्ववाहुरनेनैव स्तुत्वा शम्भुं तथैव च । मानस्तोकेति च ऋचा शिखाबन्धे कृते नरः ।। २५९.
अधृष्यः सर्वभूतानां जायते संशयं विना । चित्रमित्युपतिष्ठेत त्रिसन्ध्यं भास्करं तथा ।। २५९.
समित्पाणिर्नरो नित्यमीप्सितं धनमाप्नुयात् । अथ स्वप्नेति च जपन् प्रातर्मध्यन्दिने दिने ।। २५९.
दुःस्वप्नञ्चार्द्दते कृत्स्नं भोजनञ्चाप्नुयाच्छुभम् । उभे पुमानिति तथा रक्षोघ्नः परिकीर्त्तितः ।। २५९.
उभे वासा इति ऋचो जपन् कामानवाप्नुयात् । न सागान्निति च जपन् मुच्यते चाततायिनः ।। २५९.
कया शुभेति च जपन् जातिश्रैष्ठमवाप्नुयात् । इमन्नृसोममित्येतत् सर्व्वान् कामानवाप्नुयात् ।। २५९.
पितरित्युपतिष्ठेत नित्यमर्थमुपस्थितं । अग्ने नयेति सूक्तेन घृतहोमश्च मार्गगः ।। २५९.
वीरान्नयमवाप्नोति सुश्लोकं यो जपेत् सदा। सङ्कतो नेति सूक्तेन विषान् सर्व्वान् व्यपोहति ।। २५९.
यो जात इति सूक्तेन सर्व्वान् कामानवाप्नुयात् । गणानामिति सूक्तेन स्निग्धमाप्नोत्यनुत्तमं ।। २५९.
यो मे राजन्नितीमांन्तु दुःस्वप्नशमनीमृचं । अध्वनि प्रस्थितो यस्तु पश्येच्छत्रुं समुत्थितं ।। २५९.
अप्रसस्तं प्रशस्तं वा कुविदङ्ग इमं जपेत् । द्वाविंशकं जपन् सूक्तमाध्यात्मिकमनुत्तमं ।। २५९.
पर्वसु प्रयतो नित्यमिष्टान् कामान् समश्नुते । कृणुष्वेति जपन् सूक्तं जुह्वदाज्यं समाहितः ।। २५९.
अरातीनां हरेत् प्राणान् रक्षांस्यपि विनाशयेत् । उपतिष्ठेत् स्वयं वह्निं परित्यचा दिने दिने ।। २५९.