विषाग्निदां निजगुरुनिजापत्यप्रमापणीं । विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रमापयेत् ।। २५८.
क्षेत्रवेश्मवनग्रामविवीतखलदाहकाः । राजपत्न्यभिऽगामी च दग्धव्यास्तु कटाग्निना ।। २५८.
पुमान् संग्रहणे ग्राह्यः केशाकेशिपरस्त्रियाः । स्वजातावुत्तमो दण्ड आनुलोम्ये तु मध्यमः ।। २५८.
प्रातिलोम्ये बधः पुंसां नार्य्याः कर्णावकर्त्तनम् । नीवीस्तनप्रावरणनाभिकेशावमर्द्दनम् ।। २५८.
अदेशकालसम्भाषं सहावस्थानमेव च । स्त्री निषेधे शतं दद्याद् द्विशतन्तु दमं पुमान् ।। २५८.
प्रतिषेधे तयोर्दण्डो यथा संग्रहणे तथा । पशून् गच्छञ्छतं दाप्यो हीनां स्त्रीं गाश्च मध्यमम् ।। २५८.
अवरुद्धासु दासीषु भुजिष्यासु तथैव च । गम्यास्वपि पूमान्दाप्यः पञ्चाशत् पणिकन्दमम् ।। २५८.
प्रसह्य दास्यबिगमे दण्डो दशपणः स्मृतः । कुबन्धेनाङ्क्य गमयेदन्त्याप्रव्रजितागमे ।। २५८.
न्यूनं वाप्यधिकं वापि लिखेद् यो राजशासनम् । कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी ।। २५८.
अभक्षैर्दूषयन् विप्रं दण्ड उत्तमसाहसम् । कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी ।। २५८.
अङ्गहीनश्च कर्त्तव्यो दाप्यश्चोत्तमसाहसं । शक्तो ह्यमोक्षयन् स्वामी दंष्ट्रिणः श्रृङ्गिणस्तथा ।। २५८.
प्रथमं साहसं दद्याद्विक्रूष्टे द्विगुणं तथा । अचौरञ्चौरेऽभिवदन् दाप्यः पञ्चशतं दमं ।। २५८.
राज्ञोऽनिष्टप्रवक्तारं तस्यैवाक्रोशकं तथा । मृताङ्गलग्नविक्रेतुर्गुरोस्ताड़यितुस्तथा ।। २५८.
तन्मन्त्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत् । राजयानासनारोढुर्दण्डो मध्यमसाहसः ।। २५८.
. द्विनेत्रभेदिनो राजद्विष्टादेशकृतस्तथा । विप्रत्वेन च शूद्रस्य जीवतोऽष्टशतो दमः ।। २५८.
यो मन्येताजितोऽस्मीति न्याये नाभिपराजितः । तमायान्तं पुनर्ज्जित्वा दण्डयेद् द्विगुणं दमं ।। २५८.
राज्ञाऽन्यायेन यो दण्डा गृहीतो वरुणायतं । निवेद्य दद्याद्विप्रेभ्यः स्वयं त्रिशद्गुणीकृतं ।। २५८.
धर्म्मश्चार्थश्च कीत्तिश्च लोकपङ्क्तिरुपग्रहः । प्रजाभ्यो बहुमानञ्च स्वर्गस्थानञ्च शाश्वत्म् ।। २५८.
अग्निरुवाच ऋग्यजुःसामाथर्वविधानं पुष्करोदितम् । भुक्तिभुक्तिकरं जप्याद्धोमाद्रामाय तद्वदे ।। २५९.
पुष्कर उवाच । प्रतिवेदन्तु कर्म्माणि कार्य्याणि प्रवदामि ते । प्रथमं ऋग्विधानं वै श्रृणु त्वं भुक्तिमुक्तिदम् ।। २५९.
अन्तर्ज्जले तथा होमे जपतो मनसेप्सितम् । कामं करोति गायत्री प्राणायामाद्विशेपतः ।। २५९.
गायत्र्या दशसाहस्रो जपो नक्ताशिनो द्विज । बहुस्नातस्य तत्रैव सर्वकल्पमनाशनः ।। २५९.
दशायुतानि जप्त्वाऽथ हविष्याशी स मुक्तिभाक् । प्रणवो हि परं ब्रह्म तज्जपः सर्वपापहा ।। २५९.
ओंकारशतकजप्तन्तु नाभिमात्रोदके स्थितः जलं पिवेत् स सर्वेस्तु पापैर्वै विप्रमुच्यते ।। २५९.
मात्रात्रयं त्रयो वेदास्त्रयो देवास्त्रयोऽग्नयः । महाव्याहृतयः सप्त लोका होमोऽखिलाघहा ।। २५९.
गायत्री परमा जाप्या महाव्याहृतयस्तथा । अन्तर्ज्जले तथा रामप्रोक्तश्चैवाघमर्षणः ।। २५९.
अग्निमीले पुरोहितं सूक्तोऽयं वह्निदैवतः । शिरसा धारयन् वह्निं यो जपेत्परिवत्सरम् ।। २५९.
होमं त्रिषवणं भैक्ष्यमनग्निज्चवलनञ्चरेत् । अतः परमृचः सप्त वाय्वाद्या याः प्रकीर्त्तिताः ।। २५९.
ता जपन् प्रयतो नित्यमिष्टान् कामान् समश्नुते । मेधाकामो जपेन्नित्यं सदसन्यमितित्यृचम् ।। २५९.
अन्वयो यन्निमाः प्रोक्ताः नवर्चो मृत्युनाशनाः । शुनःशेफमृषिं बद्धः सन्निरुद्धोऽथ वा२ जपेत् ।। २५९.