भिषङ्मिथ्याचरन् दाप्यस्तिर्य्यक्षु प्रथमं दमम् । मानुषे मध्यमं राजमानुषेषूत्तमन्तथा ।। २५८.
अबध्यं यश्च बध्नाति बध्यं यश्च प्रमुञ्चति । अप्राप्तव्यवहारञ्च स दाप्यो दममुत्तमम् ।। २५८.
मानेन तुलया वापि योंऽशमष्टमकं हरेत् । द्वाविंशतिपणान् दाप्यो वृद्धौ हानौ च कल्पितम् ।। २५८.
भेषजस्नेहलवणस्नेगन्धधान्यगुड़ादिषु । पण्येषु प्रक्षिपन् हीनं पणान्दाप्यस्तु षोडश ।। २५८.
सम्भूय कुर्व्वतामर्घं सबाधं कारुशिल्पिनां । अर्थस्य ह्रासं वृद्धिं वा सहस्रो दण्ड उच्यते ।। २५८.
राजनि स्थाप्यते योऽर्थः प्रत्यहं तेन विक्रयः । क्रयो वा निस्रवस्तस्माद्वणिजां लाभकृत् स्मृतः ।। २५८.
स्वदेशपण्ये तु शतं वणिग् गृह्णीत पञ्चकं । दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयी ।। २५८.
पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवं । अर्थोंऽनुग्रहकृत् कार्य्यः क्रेतुर्विक्रेतुरेव च ।। २५८.
गृहीतमूल्यं यः पण्यं क्रेतुर्नैव प्रयच्छति । सोदयन्तस्य दाप्योऽसौ दिग्लाभं वा दिगागते ।। २५८.
विक्रोतमपि विक्रेयं पूर्वे क्रेतर्य्यगृह्णति । हानिश्चेत् क्रेतृदोषेण क्रेतुरेव हि सा भवेत् ।। २५८.
राजदैवोपघातेन पण्ये दोषमुपागते । हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः ।। २५८.
अन्यहस्ते च विक्रीतं दुष्टं वा दुष्टवद्यदि । विक्रीनीते दमस्तत्र तन्मूल्यादद्विगुणो भवेत् ।। २५८.
क्षयं वृद्धिञ्च बणिजापण्यानामविजानता । क्रीत्वा नानुशयः कार्य्यः कुर्वन् षड्भागदण्डभाक् ।। २५८.
समवायेन वणिजां लाभार्थं कर्म कुर्वतां । लाभालाभौ यथा द्रव्यं यथा वा संविदा कृतौ ।। २५८.
प्रतिपिद्धमनादिष्टं प्रमादाद्यच्च नाशितं । स तद्दद्याद् विप्लवाच्च रक्षइताद्दसमांशभाक् ।। २५८.
अर्थप्रक्षएपणाद्विंशं भागं शुल्कं नृपो हरेत् । व्यासिद्धं राजयोग्यञ्च विक्रीतं राजगामि तत् ।। २५८.
मित्थ्या वदन् परीमाणं शुल्कस्थानादपक्रमम् । दाप्यस्त्वष्टगुणं यश्च सव्याजक्रयविक्रयी ।। २५८.
देशान्तरगते प्रेते द्रव्यं दायादबान्धवाः । ज्ञातयो वा हरेयुस्तदागतास्तैर्विना नृपः ।। २५९.
जिह्मं त्यजेयुर्निर्लोभमशक्तोऽन्येन कारयेत् । अनेन विधिराख्यात ऋत्विक्कर्षककर्मिणां ।। २५९.
ग्राहकैर्गृह्यते चौरो लोप्त्रेणाथ पदेन वा । पूर्वकर्मापराधी वा तथैवाशुद्धवासकः ।। २५८.
अन्येपि शङ्कया ग्राह्य जातिनामादिनिह्नवैः । द्यूतस्त्रीपानशक्ताश्च शुष्कभिन्नमुखस्वराः ।। २५८.
परद्रव्यगृहाणाञ्च पृच्छका गूढ़चारिणः । निराया व्ययवन्तश्च विनष्टद्रव्यविक्रयाः ।। २५८.
गृहीतः शङ्कया चौर्य्येनाम्नानञ्चेद्विशोधयेत् । दापयित्वा हृतं द्रव्यं चोरदण्डेन दण्डयेत् ।। २५८.
चौरं प्रदाप्यापहृतं घातयेद्विविधैर्बधैः । सचिह्नं ब्राह्मणं कृत्वा स्वराष्ट्राद्विप्रवासयेत् ।। २५८.
घातितेऽपहृते दोषो ग्रामभर्त्तुरमिर्गते । म्वसीम्नि दद्याद्ग्रामस्तु पदं वा यत्र गच्छति ।। २५८.
पञ्चग्रामी वहिः क्रोशाद्दशग्राम्यऽथ वा पुनः । वन्दिग्राहांस्तथा वाजिकञ्जराणाञ्च हारिणः ।। २५८.
प्रसह्य घातिश्चैव शूलमारोपयेन्नरान् । उत्क्षेपकग्रन्थिभेदौ करसन्दंशहीतकौ ।। २५८.
कार्य्यौ द्वितीयापराधे करपादैकहीनकौ । भक्तावकाशाग्न्युदकमन्त्रोपकरणव्ययान् ।। २५८.
दत्त्वा चौरस्य हन्तुर्वा जानतो दम उत्तमः । शस्त्रावपाते गर्भस्य पातने चोत्तमो दमः ।। २५८.
उत्तमो वाऽधमो वापि पुरुषस्त्रीप्रमापणे । शिलां बद्ध्बा क्षिपेदप्सु नरघ्नीं विषदां स्त्रियं ।। २५८.