शोणितेन विना दुःखङ्कुर्वन् काष्ठादिभिर्नरः । द्वात्रिंशतं पणान्२ दाप्यो द्विगुणं दर्शनेऽसृजः ।। २५८.
करपाददतो भङ्गे च्छेदने कर्णनासयोः । मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा ।। २५८.
चेष्टाभोजनवाग्नोधे नेत्रादिप्रतिभेदने । कन्धराबाहुसक्थ्याञ्च भह्गे मघ्यमसाहसः ।। २५८.
एकं घ्नतां बहूनाञ्च यथोक्ताद् द्विगुणा दमाः । कलहापहृतं देयं दण्डस्तु द्विगुणः स्मृतः ।। २५८.
दुःखमुत्पादयेद्यस्तु स समुत्थानजं व्ययम् । दाप्यो दण्डञ्च यो यस्मिन् कलहे समुदाहृतः ।। २५८.
. तरिकः स्थलजं शुल्कं गृह्णन् दण्ड्यः पणान्दश । ब्राह्मणप्रातिवेश्यानामेतदेवानिमन्त्रणे ।। २५८.
अभिघाते तथा भेदे च्छेदे कुड्यावपातने । पणान्दाप्यः वञ्चदशविंशतिं तत्त्रयन्तथा ।। २५८.
दुःस्वोत्पादिगृहे द्रव्यं क्षिपन् प्राणहरं तथा । षोड़शाद्यः पणान् दाप्यो द्विपणप्रभृतिः क्रमात् ।। २५८.
दुःखे च शोणितोत्पादे शाखाङ्गच्छेदने तथा। दण्डः क्षुद्रपशूनां स्याद्विपणप्रभृतिः क्रमात् ।। २५८.
लिङ्गस्य च्छेदने मृत्तौ मध्यमो मूल्यमेव च । महापशूनामेतेषु स्थानेषु द्विगुणा दमाः ।। २५८.
यः साहसङ्कारयति सं दाप्यो द्विगुणन्दमम् । यस्त्वेवमुक्त्वाहं दाता कारयेत् च चतुर्गुणम् ।। २५८.
आर्य्याक्रोशातिक्रमकृद्भ्रातृजायाप्रहारदः सन्दिष्टस्याप्रदाता च समुद्रगृहभेदकः ।। २५८.
सामन्तकुलिकादीनामपकारस्य कारकः । पञ्चाशत्पणिको दण्ड एषामिति विनिश्चयः ।। २५८.
स्वच्छन्दविधवागामी विक्रुष्टे नाभिधावकः । पञ्चाशत्पणिको दण्ड एषामिति विनिश्चयः ।। २५८.
शूद्रः प्रव्रजीतानाञ्च दैवे पैत्र्ये च भोजकः । अयुक्तं शपथं कुर्व्वन्नयोग्यो योग्यकर्मकृत् ।। २५८.
वृषक्षुद्रपशूनाञ्च पुंस्त्वस्य प्रतिघातकृत् । साधारणस्यापलापो दासीगर्भविनाशकृत् ।। २५८.
पितापुत्रस्वसृभ्रातृदम्पत्याचार्य्यशिष्यकाः । एषामपतितान्योन्यत्यागी च शतदण्डभाक् ।। २५८.
वसानस्त्रीन् पणान् दण्ड्यो नेजकस्तु परांशुकम् । विक्रयावक्रयाधानयाचितेषु पणान् दश ।। २५८.
तुलाशासनमानानं कूटकृन्नाणकस्य च । एभिश्च व्यवहर्त्ता यः स दाप्यो दण्डमुत्तमम् ।। २५८.
अकूटं कूटकं ब्रते कूटं यश्चाप्यकूटकम् । स नाणकपरीक्षी तु दाप्यः प्रथमसाहसम् ।। २५८.
भिषङ्मिथ्याचरन् दाप्यस्तिर्य्यक्षु प्रथमं दमम् । मानुषे मध्यमं राजमानुषेषूत्तमन्तथा ।। २५८.
अबध्यं यश्च बध्नाति बध्यं यश्च प्रमुञ्चति । अप्राप्तव्यवहारञ्च स दाप्यो दममुत्तमम् ।। २५८.
मानेन तुलया वापि योंऽशमष्टमकं हरेत् । द्वाविंशतिपणान् दाप्यो वृद्धौ हानौ च कल्पितम् ।। २५८.
भेषजस्नेहलवणस्नेगन्धधान्यगुड़ादिषु । पण्येषु प्रक्षिपन् हीनं पणान्दाप्यस्तु षोडश ।। २५८.
सम्भूय कुर्व्वतामर्घं सबाधं कारुशिल्पिनां । अर्थस्य ह्रासं वृद्धिं वा सहस्रो दण्ड उच्यते ।। २५८.
राजनि स्थाप्यते योऽर्थः प्रत्यहं तेन विक्रयः । क्रयो वा निस्रवस्तस्माद्वणिजां लाभकृत् स्मृतः ।। २५८.
स्वदेशपण्ये तु शतं वणिग् गृह्णीत पञ्चकं । दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयी ।। २५८.
पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवं । अर्थोंऽनुग्रहकृत् कार्य्यः क्रेतुर्विक्रेतुरेव च ।। २५८.
गृहीतमूल्यं यः पण्यं क्रेतुर्नैव प्रयच्छति । सोदयन्तस्य दाप्योऽसौ दिग्लाभं वा दिगागते ।। २५८.
विक्रोतमपि विक्रेयं पूर्वे क्रेतर्य्यगृह्णति । हानिश्चेत् क्रेतृदोषेण क्रेतुरेव हि सा भवेत् ।। २५८.