अराजदैविकन्नष्टं भाण्डं दाप्यस्तु वाहकः । प्रस्थानविघ्नकृच्चैव चप्रदाप्यो द्विगुणां भृतिम् ।। २५८.
प्रकान्ते सप्तमं भागं चतुर्थं पथि संत्यजन् । भृतिमर्द्धपथे सर्व्वां प्रदाप्यस्त्याजकोपि च ।। २५८.
ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकं शतं । गृह्णीयाद्धूर्त्तकितवादितराद्दशकं शतं ।। २५८.
स सम्यक्पालितो दद्याद्रज्ञे भागं यथाकृतं । जितमुद्ग्राहयेज्जेत्रे दद्यात्सत्यं वचः क्षमी ।। २५८.
प्रप्ते नृपतिना भागो प्रसिद्धे धूर्त्तमण्डले । जितं सशभिके स्थाने दापयेदन्यथा न तु ।। २५८.
द्रष्टारो व्यवहाराणां साक्षिणश्च त एव हि । राज्ञा सचिह्ना निर्वास्याः कूटाक्षोपधिदेविनः ।। २५८.
द्यूतमेकमुखं कार्य्यं तस्करज्ञानकारणात् । एष एव विधिर्ज्ञेयः प्राणिद्यूते समाह्वये ।। २५८.
अग्निरुवाच सत्यासत्यान्यथा स्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणां । क्षेपं करोति चेद्दण्ड्यः पणानर्द्धत्रयोदश ।। २५८.
अभिगन्तास्मि भगिनीम्मातरं वा तवेति च । शपन्तं दापयेद्राजा पञ्चविशतिकं दमं ।। २५८.
अर्द्धोऽधमेषु द्विगुणः परस्त्रीषूत्तमेषु च । दण्डप्रणयनं क्काय्य वर्णजात्युत्तराधरैः ।। २५८.
प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः । वर्णानामानुलोम्येन तस्मादेवार्द्धहानितः ।। २५८.
वाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः । शत्यस्ततोऽर्द्धिकः पादनासाकर्णकरादिषु ।। २५८.
पतनीयकृते क्षएपे दण्डो मध्यमसाहसः । उपपातकयुक्ते तु दाप्यः प्रथमसाहसं ।। २५८.
त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः । मध्यमो ज्ञातिपूगानां प्रथमो ग्रामदेशयोः ।। २५८.
असाक्षिकहते चिह्नैर्युक्तिभिश्चागमेन च । द्रष्टव्यो व्यवहारस्तु कूटचिह्नकृताद्भयात् ।। २५८.
भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः । अमेध्यपार्ष्णिनिष्ठ्यूतस्पर्शने द्विगुणः स्मृतः ।। २५८.
समेष्वेवं परस्त्रीषु द्विगुणस्तूत्तमेषु च । हीनेष्वर्द्धं दमो मोहमदादिभिरदण्डनम् ।। २५८.
विप्रपीडाकरं च्छेद्यमङ्गमब्राह्मणस्य तु । उद्गूर्णे प्रथमो दण्डः संस्पर्शे तु तदर्द्धिकः ।। २५८.
उद्गूर्णे हस्तपादे तु दशविंशतिकौ दमौ। परस्परन्तु सर्व्वेषां शास्त्रं मध्यमसाहसः ।। २५८.
पादकेशांशुककरोल्लुञ्चनेषु पणान् दश । पीडाकर्षाशुकावेष्टपादाध्यासे शतन्दमः ।। २५८.
शोणितेन विना दुःखङ्कुर्वन् काष्ठादिभिर्नरः । द्वात्रिंशतं पणान्२ दाप्यो द्विगुणं दर्शनेऽसृजः ।। २५८.
करपाददतो भङ्गे च्छेदने कर्णनासयोः । मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा ।। २५८.
चेष्टाभोजनवाग्नोधे नेत्रादिप्रतिभेदने । कन्धराबाहुसक्थ्याञ्च भह्गे मघ्यमसाहसः ।। २५८.
एकं घ्नतां बहूनाञ्च यथोक्ताद् द्विगुणा दमाः । कलहापहृतं देयं दण्डस्तु द्विगुणः स्मृतः ।। २५८.
दुःखमुत्पादयेद्यस्तु स समुत्थानजं व्ययम् । दाप्यो दण्डञ्च यो यस्मिन् कलहे समुदाहृतः ।। २५८.
. तरिकः स्थलजं शुल्कं गृह्णन् दण्ड्यः पणान्दश । ब्राह्मणप्रातिवेश्यानामेतदेवानिमन्त्रणे ।। २५८.
अभिघाते तथा भेदे च्छेदे कुड्यावपातने । पणान्दाप्यः वञ्चदशविंशतिं तत्त्रयन्तथा ।। २५८.
दुःस्वोत्पादिगृहे द्रव्यं क्षिपन् प्राणहरं तथा । षोड़शाद्यः पणान् दाप्यो द्विपणप्रभृतिः क्रमात् ।। २५८.
दुःखे च शोणितोत्पादे शाखाङ्गच्छेदने तथा। दण्डः क्षुद्रपशूनां स्याद्विपणप्रभृतिः क्रमात् ।। २५८.
लिङ्गस्य च्छेदने मृत्तौ मध्यमो मूल्यमेव च । महापशूनामेतेषु स्थानेषु द्विगुणा दमाः ।। २५८.