प्रतिग्रहः प्रकाशः स्यात् स्थावरस्य विशेषतः । देयं प्रतिश्रुतञ्चैव दत्वा नापहरेत् पुनः ।। २५८.
दशैकपञ्चसप्ताहमासत्र्यहार्द्धमासिकं । वीजायोवाह्यरत्नस्त्रीदोह्यपुंसां प्रतीक्षणम् ।। २५८.
अग्नौ सुवर्णमक्षीणं द्विपलं रजते शते । अष्टौ त्रपुणि सीसे च ताम्रे पञ्चदशायसि ।। २५८.
शते दशपलावृद्धिरौर्णे कार्पासिके तथा । मध्ये पञ्चपला ज्ञेया सूक्ष्मे तु त्रिपला मता ।। २५८.
कार्म्मिके रोमबद्धे च त्रिंशद्भागः क्षयो मतः । न क्षयो न च वृद्धिस्तु कौशेये वल्कलेषु च ।। २५८.
देशं कालञ्च भोगञ्च ज्ञात्वा नष्टे बलाबलम् । द्रव्याणआं कुशला ब्रुयुर्यद्दाप्यमसंशयम् ।। २५८.
बलाद्दासीकृतश्चौरैर्विक्रीतश्चापि मुच्यते । स्वामिप्राणपदो भक्तत्यागात्तन्निष्क्रयादपि ।। २५८.
प्रव्रज्यावसितो राज्ञा दास आमरणान्तिकः । वर्णानामानुलोभ्यंन दास्यं न प्रतिलोमतः ।। २५८.
कृतशिल्पोपि निवसेत् कृतकालं गुरोर्गृहे । अन्तेवासी गुरुप्राप्तभोजनस्तत्फलप्रदः ।। २५८.
राजा कृत्वा पुरे स्थानं ब्राह्मणन्न्यस्य तत्र तु । त्रैविद्यं वृत्तिमद्ब्रूयात् स्वधर्म्मः पाल्यतामिति ।। २५८.
निजधर्म्माविरोधेन यस्तु सामयिको भवेत् । सोपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च यः ।। २५८.
गणद्रव्यं हरेद्यस्तु संविदं लङ्घयेच्च यः । सर्वस्वहरणं कृत्वा तं राष्ट्रद्विप्रवासयेत् ।। २५८.
कर्त्तव्यं वचनं सर्वैः समूहहितवादिभिः । यस्तत्र विपरीतः स्यात्स दाप्यः प्रथमं दम्म ।। २५८.
समूहकार्य्यप्रहितो यल्लभेत्तत्तदर्पयेत् । एकादशगुणं दाप्यो यद्यसौ नार्पयेत् स्वयम् ।। २५८.
वेदज्ञाः शुचयोऽलुब्धा भवेयुः कार्यचिन्तकाः । कर्त्तव्यं वचनं तेषा समूहहितवादिनां ।। २५८.
श्रेणिनैगमपाखण्डिगणानामप्ययं विधिः । भेदञ्चैषां नृपो रक्षएत् पूर्ववृत्तिञ्च पालयेत् ।। २५८.
गृहीतवेतनः कर्म्म त्यजन् द्विगुणमावहेत् । अगृहीते समं दाप्यो भृत्यै रक्ष्य उपस्करः ।। २५८.
दाप्यस्तु दशमं भागं बाणिज्यपशुसस्यतः । अनिश्चित्य भृतिं यस्तु कारयेत्स महीक्षइता ।। २५८.
देशं कालञ्च योऽतीयात् कर्म्म कुर्य्याच्च योऽन्यथा । तत्र तु स्वामिनश्छन्दोऽधिकं देयं कृतेऽधिके ।। २५८.
यो यावत् कुरुते कर्म्म तावत्तस्य तु वेतनम् । उभयोरप्यसाध्यञ्चेत् साध्ये कुर्य्याद्यथाश्रुतम् ।। २५८.
अराजदैविकन्नष्टं भाण्डं दाप्यस्तु वाहकः । प्रस्थानविघ्नकृच्चैव चप्रदाप्यो द्विगुणां भृतिम् ।। २५८.
प्रकान्ते सप्तमं भागं चतुर्थं पथि संत्यजन् । भृतिमर्द्धपथे सर्व्वां प्रदाप्यस्त्याजकोपि च ।। २५८.
ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकं शतं । गृह्णीयाद्धूर्त्तकितवादितराद्दशकं शतं ।। २५८.
स सम्यक्पालितो दद्याद्रज्ञे भागं यथाकृतं । जितमुद्ग्राहयेज्जेत्रे दद्यात्सत्यं वचः क्षमी ।। २५८.
प्रप्ते नृपतिना भागो प्रसिद्धे धूर्त्तमण्डले । जितं सशभिके स्थाने दापयेदन्यथा न तु ।। २५८.
द्रष्टारो व्यवहाराणां साक्षिणश्च त एव हि । राज्ञा सचिह्ना निर्वास्याः कूटाक्षोपधिदेविनः ।। २५८.
द्यूतमेकमुखं कार्य्यं तस्करज्ञानकारणात् । एष एव विधिर्ज्ञेयः प्राणिद्यूते समाह्वये ।। २५८.
अग्निरुवाच सत्यासत्यान्यथा स्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणां । क्षेपं करोति चेद्दण्ड्यः पणानर्द्धत्रयोदश ।। २५८.
अभिगन्तास्मि भगिनीम्मातरं वा तवेति च । शपन्तं दापयेद्राजा पञ्चविशतिकं दमं ।। २५८.
अर्द्धोऽधमेषु द्विगुणः परस्त्रीषूत्तमेषु च । दण्डप्रणयनं क्काय्य वर्णजात्युत्तराधरैः ।। २५८.