न निषेध्योऽल्पबाधस्तु सेतुः कल्याणकारकः । परभूमिं हरन् कूपः स्वल्पक्षेत्रो बहूदकः ।। २५८.
स्वामिने योऽनिवेद्यैव क्षेत्रे सेतुं प्रकल्पयेत् । उत्पन्ने स्वामिनो भोगस्तदभावे महीपतेः ।। २५८.
फालाहतमपि क्षेत्रं यो न कुर्यान्न कारयेत् । स प्रदाप्योऽकृष्टफलं क्षेत्रमन्येन कारयेत् ।। २५८.
मासानष्टौ तु महिषो सस्यघातम्थ कारिणी । दण्डनाया तदर्द्धन्तु गौस्तदर्द्धनजाविकं ।। २५८.
भक्षयित्वोपविष्टानां यथोक्ताद् द्विगुणो दमः । सममेषां विवितेपि खरेष्ट्रं महिषीसमम् ।। २५८.
यावत् सस्यं विनष्टन्तु तावत् क्षेत्री फलं लभेत् । पालस्ताड्योऽथ गोस्वामी पूर्वोक्तं दण्डमर्हति ।। २५८.
पथि ग्रामविवीतन्ते क्षेत्रे दोषो न विद्यते । अकामतः कामचारे चौरवद्दण्डमर्हति ।। २५८.
महोक्षोत्सृष्टपशवः सूतिकागन्तुका च गौः । पालो येषान्तु ते मोच्या दैवराजपरिप्लुताः ।। २५८.
यथार्पितान् पशून् गोपः सायं प्रत्यर्पयेत्तथा । प्रमादमृतनष्टांश्च प्रदाप्यः कृतवेतनः ।। २५८.
पालदोषविनाशे तु पाले दण्डो विधीयते । अर्द्धत्रयोदशपणः स्वामिनो द्रव्यमेव च ।। २५८.
ग्रामेच्छया गोप्रचारो भूमिराजवशेन वा । द्विजस्तृणैधः पुष्पाणि सर्वतः स्ववदाहरेत् ।। २५८.
धनुःशतं परीणाहो ग्रामक्षेत्रान्तरं भवेत् । द्वे शने खर्वटस्य स्यान्नगरस्य चतुःशतम् ।। २५८.
स्वं लभेतान्यविक्रीतं क्रेतुर्द्दोषोऽप्रकाशिते । हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः ।। २५८.
नष्टा पहृतमासाद्य हर्त्तारं ग्राहयेन्नरम् । देशकालातिपत्तौ वा गृहीत्वा स्वयमर्पयेत् ।। २५८.
विक्रेतुर्द्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् । क्रेता मूल्यं समाप्नोति तस्माद्यस्तव विक्रयी ।। २५८.
आगमेनोपभोगेन नष्टं भाव्यमतोऽन्यथा । पञ्चबन्धो दमस्तस्य राज्ञे तेनाप्यभाविते ।। २५८.
हृतं प्रनष्टं यो द्रव्यं परहस्तदवाप्नुयात् । अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान् ।। २५८.
शौलिककैः स्थानपालैर्वा नष्टापहृतमाहृतं । अर्व्वाक् संवत्सरात् स्वामी लभते परतो नृपः ।। २५८.
पणानेकशफे दद्याच्चतुरः पञ्च मानुषे । महिषोष्ट्रगवां द्वौ द्वौ पादं पादमजाविके ।। २५८.
स्वकुटुम्बाविरोधेन देयं दारसुतादृते । नान्वये सति सर्वस्वं देयं यच्चान्यसंश्रुतम् ।। २५८.
प्रतिग्रहः प्रकाशः स्यात् स्थावरस्य विशेषतः । देयं प्रतिश्रुतञ्चैव दत्वा नापहरेत् पुनः ।। २५८.
दशैकपञ्चसप्ताहमासत्र्यहार्द्धमासिकं । वीजायोवाह्यरत्नस्त्रीदोह्यपुंसां प्रतीक्षणम् ।। २५८.
अग्नौ सुवर्णमक्षीणं द्विपलं रजते शते । अष्टौ त्रपुणि सीसे च ताम्रे पञ्चदशायसि ।। २५८.
शते दशपलावृद्धिरौर्णे कार्पासिके तथा । मध्ये पञ्चपला ज्ञेया सूक्ष्मे तु त्रिपला मता ।। २५८.
कार्म्मिके रोमबद्धे च त्रिंशद्भागः क्षयो मतः । न क्षयो न च वृद्धिस्तु कौशेये वल्कलेषु च ।। २५८.
देशं कालञ्च भोगञ्च ज्ञात्वा नष्टे बलाबलम् । द्रव्याणआं कुशला ब्रुयुर्यद्दाप्यमसंशयम् ।। २५८.
बलाद्दासीकृतश्चौरैर्विक्रीतश्चापि मुच्यते । स्वामिप्राणपदो भक्तत्यागात्तन्निष्क्रयादपि ।। २५८.
प्रव्रज्यावसितो राज्ञा दास आमरणान्तिकः । वर्णानामानुलोभ्यंन दास्यं न प्रतिलोमतः ।। २५८.
कृतशिल्पोपि निवसेत् कृतकालं गुरोर्गृहे । अन्तेवासी गुरुप्राप्तभोजनस्तत्फलप्रदः ।। २५८.
राजा कृत्वा पुरे स्थानं ब्राह्मणन्न्यस्य तत्र तु । त्रैविद्यं वृत्तिमद्ब्रूयात् स्वधर्म्मः पाल्यतामिति ।। २५८.