यस्य वेगैर्विना जीर्णं शुद्धिं तस्य विनिर्द्दिशेत् । देवानुग्रान् समभ्यर्च्च्य तत्स्नानोदकमाहरेत् ।। २५५.
संश्राव्य पाययेत्तस्माज्जलात्तु प्रसृतित्रयम् । आचतुर्द्दशमादह्नो यस्य नो राजदैविकम् ।। २५५.
व्यसनं जायते घोरं स शुद्धः स्यादसंशयम् । सत्यवाहनशस्त्राणि गोबीजकनकानि च ।। २५५.
देवतागुरुपादाश्च इष्टापूर्त्तकृतानि च । इत्येते सुकराः प्रोक्ताः शपथाः स्वल्पसंशये ।। २५५.
अग्निरुवाच सीग्नो विवादे क्षेत्रस्य सामन्ताः स्थविरा गणाः गोपाः सीमाकृषाणा ये सर्वे च वनगोचराः ।। २५७.
नयेयुरेते सीमानं स्थलाङ्गारतुषद्रुमैः । सेतुवल्मीकनिम्नास्थिचैत्याद्यैरुपलक्षिताम् ।। २५७.
रक्तस्रग्वसनाः सीमान्नयेयुः क्षितिधारिणः ।। २५८.
अनृते तु पृथग्दण्ड्या राज्ञा मध्यमसाहसम् । अभावे ज्ञातृचिह्नानां राजा सीम्नः प्रवर्त्तकः ।। २५८.
आरामायतनग्रामनिपानोद्यानवेश्मसु । एष एव विधिर्ज्ञेयो वर्षाग्वुप्रवहेषु च ।। २५८.
मर्य्यादायाः प्रभेदेषु क्षेत्रस्य हरणे तथा । मर्य्यादायाश्च दण्ड्याः स्युरधमोत्तममध्यमाः ।। २५८.
न निषेध्योऽल्पबाधस्तु सेतुः कल्याणकारकः । परभूमिं हरन् कूपः स्वल्पक्षेत्रो बहूदकः ।। २५८.
स्वामिने योऽनिवेद्यैव क्षेत्रे सेतुं प्रकल्पयेत् । उत्पन्ने स्वामिनो भोगस्तदभावे महीपतेः ।। २५८.
फालाहतमपि क्षेत्रं यो न कुर्यान्न कारयेत् । स प्रदाप्योऽकृष्टफलं क्षेत्रमन्येन कारयेत् ।। २५८.
मासानष्टौ तु महिषो सस्यघातम्थ कारिणी । दण्डनाया तदर्द्धन्तु गौस्तदर्द्धनजाविकं ।। २५८.
भक्षयित्वोपविष्टानां यथोक्ताद् द्विगुणो दमः । सममेषां विवितेपि खरेष्ट्रं महिषीसमम् ।। २५८.
यावत् सस्यं विनष्टन्तु तावत् क्षेत्री फलं लभेत् । पालस्ताड्योऽथ गोस्वामी पूर्वोक्तं दण्डमर्हति ।। २५८.
पथि ग्रामविवीतन्ते क्षेत्रे दोषो न विद्यते । अकामतः कामचारे चौरवद्दण्डमर्हति ।। २५८.
महोक्षोत्सृष्टपशवः सूतिकागन्तुका च गौः । पालो येषान्तु ते मोच्या दैवराजपरिप्लुताः ।। २५८.
यथार्पितान् पशून् गोपः सायं प्रत्यर्पयेत्तथा । प्रमादमृतनष्टांश्च प्रदाप्यः कृतवेतनः ।। २५८.
पालदोषविनाशे तु पाले दण्डो विधीयते । अर्द्धत्रयोदशपणः स्वामिनो द्रव्यमेव च ।। २५८.
ग्रामेच्छया गोप्रचारो भूमिराजवशेन वा । द्विजस्तृणैधः पुष्पाणि सर्वतः स्ववदाहरेत् ।। २५८.
धनुःशतं परीणाहो ग्रामक्षेत्रान्तरं भवेत् । द्वे शने खर्वटस्य स्यान्नगरस्य चतुःशतम् ।। २५८.
स्वं लभेतान्यविक्रीतं क्रेतुर्द्दोषोऽप्रकाशिते । हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः ।। २५८.
नष्टा पहृतमासाद्य हर्त्तारं ग्राहयेन्नरम् । देशकालातिपत्तौ वा गृहीत्वा स्वयमर्पयेत् ।। २५८.
विक्रेतुर्द्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् । क्रेता मूल्यं समाप्नोति तस्माद्यस्तव विक्रयी ।। २५८.
आगमेनोपभोगेन नष्टं भाव्यमतोऽन्यथा । पञ्चबन्धो दमस्तस्य राज्ञे तेनाप्यभाविते ।। २५८.
हृतं प्रनष्टं यो द्रव्यं परहस्तदवाप्नुयात् । अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान् ।। २५८.
शौलिककैः स्थानपालैर्वा नष्टापहृतमाहृतं । अर्व्वाक् संवत्सरात् स्वामी लभते परतो नृपः ।। २५८.
पणानेकशफे दद्याच्चतुरः पञ्च मानुषे । महिषोष्ट्रगवां द्वौ द्वौ पादं पादमजाविके ।। २५८.
स्वकुटुम्बाविरोधेन देयं दारसुतादृते । नान्वये सति सर्वस्वं देयं यच्चान्यसंश्रुतम् ।। २५८.