समामासतदर्द्धाहर्न्नामजातिस्वगोत्रजैः । सब्रह्मचारिकात्मीयपितृनामादिचिह्नितम् ।। २५५.
समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् । मतं मेऽमुकपुत्रस्य यदत्रोपरिलेखितं ।। २५५.
साक्षइणश्च स्वहस्तेन पितृनामकर्पूर्वकम् । अत्राहममुकः साक्षी लिखेयुरिति र्ते समाः ।। २५५.
अलिपिज्ञ ऋणी यः स्याल्लेखयेत् स्वमतन्तु सः । साक्षी वा साक्षइणान्येन सर्वसाक्षिसमीपतः ।। २५५.
उभयाभ्यर्थिनैतन्मया ह्यमुकसूनुना । लिखितं ह्यमुकेनेति लेखकोऽथान्ततो लिखेत ।। २५५.
विनापि साक्षिभिर्ल्लेख्यं स्वहस्तलिखितञ्च यत् । तत् प्रमाणं स्मृतं सर्वं बलोपधिकृतादृते ।। २५५.
ऋणं लेख्यकृतं देयं पुरुषैस्त्रिभिरेव तु । आधिस्तु भुज्यते तावद्यावत्तन्न प्रदीयते ।। २५५.
देशान्तरस्थे दुर्ल्लेख्ये नष्टोन्मृष्टे हृते तथा । भिन्ने च्छिन्ने तथा दग्धे लेख्यमन्यत्तु कारयेत् ।। २५५.
सन्दिग्धार्थविशुद्ध्यर्थं स्वहस्तलिखितं तु यत् । युक्तिप्राप्तिक्रियाचिह्नसम्बन्धागमहेतुभिः ।। २५५.
लेख्येस्य पृष्ठेऽभिलिखेत् प्रविष्टमघमर्णिनः । धनी चोपगतं दद्यात् स्वहस्तपरिचिह्नितम् ।। २५५.
दत्वर्णं पाटयेल्लेख्यं शुद्ध्यै चान्यत्तु कारयेत् । साक्षिमच्च भवेद्यत्तु दद्दातव्यं समाक्षिकं ।। २५५.
तुलाग्न्यापो विषं कोषो दिव्यानीह विशुद्धये । महाभियोगेष्वेतानि शीर्षकस्थेऽभियोक्तरि ।। २५५.
रुच्या वान्यतरः कुर्य्यादितरो वर्त्तयेच्छिरः । विनापि शीर्षकात् कुर्य्यान्नृपद्रोहेऽथ पातके ।। २५५.
नासहस्राद्धरेत् फालं न तुलान्न विषन्तथा । नृपार्थेष्वभियोगेषु वहेयुः शुचयः सदा ।। २५५.
सहस्रार्थे लुलादीनि कोषमल्पेऽपि दापयेत् । शतार्द्धं दापयेच्छुद्धमशुद्धो दण्डभाग भवेत् ।। २५५.
सचेलस्नातमाहूय सूर्य्योदय उपोषितम् । कारयेत्सर्वदिव्यानि नृपब्राह्मणसन्निधौ ।। २५५.
तुला स्त्रीबालवृद्धान्धपङ्गुब्राह्मणरोगिणां । अग्निर्ज्जलं वा शूद्रस्य यवाः सप्त विषस्य वा ।। २५५.
तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः । प्रतिमानसमीभूतो रेखां कृत्वावतारितः ।। २५५.
आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिस्च उभे च सन्ध्ये धर्म्मश्च जानाति नरस्य वृत्तम् ।। २५५.
त्वं तुले सत्यधामासि पुरा देवैविनिर्मिता । सत्यं वदस्व कल्याणि संशयान्मां विमोचय ।। २५५.
यद्यस्मि पापकृन्मातस्ततो मां त्वमधो नय । शुद्धश्चेद्गमयोद्र्ध्वम्मां तुलामित्यभिमन्त्रयेत् ।। २५५.
करौ विमृदितव्रीहेर्लक्षयित्वा ततो न्यसेत् । सप्ताश्वत्थस्य पत्राणि तावत् सूत्रेण वेष्टयेत् ।। २५५.
त्वमेव सर्वभूतानामन्तश्चरसि पावक । साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यङ्करे मम ।। २५५.
तस्येत्युक्तवतो लौहं पश्चाशत्पलिकं समम् । अग्निवर्णं न्यसेत् पिण्डं हस्तयोरुभयोरपि ।। २५५.
स तमादाय सप्तैव मण्डलानि शनैर्व्रजेत् । षोड़शङ्गुलकं ज्ञेयं मण्डलं तावदन्तरम् ।। २५५.
मुक्त्वाग्निं मृदितव्रीहिरदग्धः शुद्धिमाप्नुयात् । अन्तरा पतिते पिण्डे सन्देहे वा पुनर्हरेत् ।। २५५.
पवित्राणां पवित्र त्वं शोध्यं शोधय पावक। सत्येन माभिरक्षस्व वरुणेत्यभिशस्तकम् ।। २५५.
नाभिदघ्नोदकस्थस्य गृहीत्वोरू जलं विशेत् । समकालमिषुं मुक्तमानीयाद्यो जवी नरः ।। २५५.
यदि तस्मिन्निमग्नाङ्गं पश्येच्चेच्छुद्धिमाप्नुयात् । त्वं विष ब्रह्मणः पुत्र सत्यधर्मे व्यवस्थितः ।। २५५.
त्रायस्वास्मादभीशापात् सत्येन भव मेऽमृतम् । एवमुक्त्वा विषं शार्ङ्ग भक्षयेद्धिमशैलजं ।। २५५.