स कूटसाक्षइणआं पापैस्तुल्यो दण्डेन चैव हि । साक्षिणः श्रावयेद्वादिप्रतिवादिसमीपगान् ।। २५५.
ये पातककृतां लोका महापातकिनां तथा । अग्निदानाञ्च ये लोका ये च स्त्रीबालघातिनां ।। २५५.
तान् सर्व्वान् समवाप्नोति यः साक्ष्यमनृतं वदेत् । सुकृतं यत्त्वाया किञअचिज्जन्मान्तरशतैः कृतम् ।। २५५.
तस्तर्वं तस्य जानीहि यं पराजयसे मृषा । द्वैधे बहूनां वचनं समेषु गुणइनान्तथा ।। २५५.
गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तराः । यस्योचुः साक्षइणः सत्यां प्रतिज्ञां स जयी भवेत् ।। २५५.
अन्यथा वादिनो यस्य ध्रुवस्तस्य पराजयः उक्तेपि साक्षइभिः साक्ष्ये यद्यन्ये गुणवत्तराः ।। २५५.
द्विगुणावान्यथा ब्रयुः कूटाः स्यु पूर्वसाक्षइणः । पृथक् पृथग्दण्डनीयाः कूटकृत्साक्षइणस्तथा ।। २५५.
विवादाद् द्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः । यः साक्ष्यं श्रावितोऽन्येभ्यो निह्नते तत्तमोवृतः ।। २५५.
स दाप्योष्टगुणं दण्डं ब्राह्मणन्तु विवासयेत् । वर्णिनां हि बधो यत्र तत्र साक्ष्यऽनृतं वदेत् ।। २५५.
यः कश्चिदर्थोऽभिमतः स्वरुकच्या तु परस्परं । लेख्यं तु साक्षिमत् कार्य्यं तस्मिन् धनिकपूर्वकम् ।। २५५.
समामासतदर्द्धाहर्न्नामजातिस्वगोत्रजैः । सब्रह्मचारिकात्मीयपितृनामादिचिह्नितम् ।। २५५.
समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् । मतं मेऽमुकपुत्रस्य यदत्रोपरिलेखितं ।। २५५.
साक्षइणश्च स्वहस्तेन पितृनामकर्पूर्वकम् । अत्राहममुकः साक्षी लिखेयुरिति र्ते समाः ।। २५५.
अलिपिज्ञ ऋणी यः स्याल्लेखयेत् स्वमतन्तु सः । साक्षी वा साक्षइणान्येन सर्वसाक्षिसमीपतः ।। २५५.
उभयाभ्यर्थिनैतन्मया ह्यमुकसूनुना । लिखितं ह्यमुकेनेति लेखकोऽथान्ततो लिखेत ।। २५५.
विनापि साक्षिभिर्ल्लेख्यं स्वहस्तलिखितञ्च यत् । तत् प्रमाणं स्मृतं सर्वं बलोपधिकृतादृते ।। २५५.
ऋणं लेख्यकृतं देयं पुरुषैस्त्रिभिरेव तु । आधिस्तु भुज्यते तावद्यावत्तन्न प्रदीयते ।। २५५.
देशान्तरस्थे दुर्ल्लेख्ये नष्टोन्मृष्टे हृते तथा । भिन्ने च्छिन्ने तथा दग्धे लेख्यमन्यत्तु कारयेत् ।। २५५.
सन्दिग्धार्थविशुद्ध्यर्थं स्वहस्तलिखितं तु यत् । युक्तिप्राप्तिक्रियाचिह्नसम्बन्धागमहेतुभिः ।। २५५.
लेख्येस्य पृष्ठेऽभिलिखेत् प्रविष्टमघमर्णिनः । धनी चोपगतं दद्यात् स्वहस्तपरिचिह्नितम् ।। २५५.
दत्वर्णं पाटयेल्लेख्यं शुद्ध्यै चान्यत्तु कारयेत् । साक्षिमच्च भवेद्यत्तु दद्दातव्यं समाक्षिकं ।। २५५.
तुलाग्न्यापो विषं कोषो दिव्यानीह विशुद्धये । महाभियोगेष्वेतानि शीर्षकस्थेऽभियोक्तरि ।। २५५.
रुच्या वान्यतरः कुर्य्यादितरो वर्त्तयेच्छिरः । विनापि शीर्षकात् कुर्य्यान्नृपद्रोहेऽथ पातके ।। २५५.
नासहस्राद्धरेत् फालं न तुलान्न विषन्तथा । नृपार्थेष्वभियोगेषु वहेयुः शुचयः सदा ।। २५५.
सहस्रार्थे लुलादीनि कोषमल्पेऽपि दापयेत् । शतार्द्धं दापयेच्छुद्धमशुद्धो दण्डभाग भवेत् ।। २५५.
सचेलस्नातमाहूय सूर्य्योदय उपोषितम् । कारयेत्सर्वदिव्यानि नृपब्राह्मणसन्निधौ ।। २५५.
तुला स्त्रीबालवृद्धान्धपङ्गुब्राह्मणरोगिणां । अग्निर्ज्जलं वा शूद्रस्य यवाः सप्त विषस्य वा ।। २५५.
तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः । प्रतिमानसमीभूतो रेखां कृत्वावतारितः ।। २५५.
आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिस्च उभे च सन्ध्ये धर्म्मश्च जानाति नरस्य वृत्तम् ।। २५५.
त्वं तुले सत्यधामासि पुरा देवैविनिर्मिता । सत्यं वदस्व कल्याणि संशयान्मां विमोचय ।। २५५.