हीनजातिं परिक्षीणमृणार्थं कर्म्म कारयेत् । ब्राह्मणस्तु परिक्षीणः शनैर्द्दाप्यो यथोदयम् ।। २५४.
दीयमानं न गृह्णाति प्रयुक्तं स्वकन्धनम् । मध्यस्थस्थापितं तत्स्याद्वर्द्धते न ततः परं ।। २५४.
ऋक्थग्राह ऋणं दाप्यो योपिद्ग्राहस्तथैव च । पुत्रोऽनन्याश्रितद्रव्यः पुत्रहीनस्य ऋक्थिनः ।। २५४.
न योषित् पतिपुत्राभ्यां न पुत्रेण कृतं पिता । दद्यादृते कुटुम्बार्थान्न पतिः स्त्रीकृतं तथा ।। २५४.
गोपशौण्डिकशैलूषरजकव्याधयोषितां । ऋणं दद्यात्पतिस्त्वासां यस्माद्वृत्तिस्तदाश्रया ।। २५४.
प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत् कृतं । स्वयं कृतं वा यदृणं नान्यस्त्री दातुमर्हति ।। २५४.
पितरि प्रोषिते प्रेते व्यसनाभिप्लुतेऽथ वा । पुत्रपौत्रैर्ऋणं देयं निह्नवे साक्षिभावितम् ।। २५४.
सुराकामद्यूतकृतन्दण्डशुल्कावशिष्टकम् । वृथा दानं तथैवेहपु त्रो दद्यान्न पैतृकम् ।। २५४.
भ्रातॄणामथ दम्पत्योः पितुः पुत्रस्य चैव हि । प्रतिभाव्यमृणं ग्राह्यमविभक्तेन च स्मृतम् ।। २५४.
दर्शने प्रत्यये दाने प्रव्भिव्यं विधीयते । आधौ तु वितथे दाप्या वितथस्य सुता अपि ।। २५४.
दर्शनप्रतिभूर्यत्र मृतः प्रात्ययिकोऽपि वा । न तत्पुत्रा धनं दद्युर्दद्युर्दानाय ये स्थिताः ।। २५४.
बहवः स्युर्यदि स्वांशैर्दद्युः प्रतिभुवो धनम् । एकच्छायाश्रितेष्वेषु धनिकस्य यथारुचि ।। २५४.
प्रतिभूर्दापितो यत्र प्रकाशं धनिने धनम् । द्विगुणं प्रतिदातव्यमृणिकैस्तस्य तद्भवेत् ।। २५४.
स्वस्न्ततिस्त्रीपशव्यं धान्यं द्विगुणमेव च । वस्त्रं चतुर्गुणं प्रोक्तं रसश्चाष्टगुणस्तथा ।। २५४.
आधिः प्रणश्येत् द्विगुणे धने यदि न मोक्ष्यते । काले कालकृतं नश्येत् फलभोग्यो न नश्यति ।। २५४.
गोप्याधिबोग्यो नावृद्धिः सोपकारेऽथ भाविते । नष्टो देयो विनष्टश्च दैवराजकृतादृते ।। २५४.
आधेः स्वीकरणात्सिद्धीरक्षमाणोप्यसारताम् । यातश्चेदन्य आधेयो धनभाग् वा धनी भवेत् ।। २५४.
चरित्रं बन्धककृतं सवृद्धं दापयेद्वनं । सत्यह्कारकृतं द्रव्यं द्विगुणं प्रतिदापयेत् ।। २५४.
उपस्थितस्य मोक्तव्य आधिर्दण्डोऽन्यथा भवेत् । प्रयोजके सति धनं कुलेन्यस्याधिमाप्नुयात् ।। २५४.
तत्कालकृतमूल्यो वा तत्र तिष्ठेदवृद्धिकः । विना धारणकाद्वापि विक्रीणीते ससाक्षिकम् ।। २५४.
यदा तु द्विगुणीभूतमृणमाधौ तदा खलु । मोच्यश्चाधिस्तदुत्पाद्य प्रविष्टे द्विगुणे धणे ।। २५४.
व्यसनस्थमनाख्याय हस्तेऽन्यस्य यदर्पयेत् । द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत् ।। २५४.
न दाप्योऽपहृतं तत्तु राजदैवकतस्करैः । प्रेपश्चेन्मार्गिते दत्ते दाप्यो दण्डश्च तत्समम् ।। २५४.
आजीवन् स्वेच्छया दण्ड्यो दाप्यस्तच्चापि सोदयं । याचितावाहितन्यासे निक्षेपेष्वप्ययं विधिः ।।२५४.
अग्निरुवाच तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः । धर्म्मप्रधाना ऋजवः पुत्रवविते दवीविवुतीः ।। २५५.
पञ्चयज्ञक्रियायुक्ताः साक्षइणः पञ्च वा त्रयः । यथाजाति यथावर्ण सर्व्वे सर्व्वेषु वा स्मृताः ।। २५५.
स्त्रीवृद्धबालकितवमत्तोन्मत्ताभिशस्तकाः । रङ्गावतारिपाषण्डिकूटकृद्विकलेन्द्रियाः ।। २५५.
पतिताप्तान्नसम्बन्धिसहायरिपुतस्कराः । असाक्षिणः सर्व्वसाक्षई चौर्य्यपारुष्यसाहसे ।। २५५.
उभयानुमतः साक्षई भवत्येकोपि धर्म्मवित । अब्रुवन् हिनरः साक्षअयमृणं सदशबन्धकम् ।। २५५.
राज्ञा सर्वं प्रदाप्यः स्यात् षट्चत्वारिंशकेऽहनि । न ददाति हि यः साक्षअयं जानन्नपि नराधमः ।। २५५.