दाप्यः सर्वान्नृपेणार्थान्न ग्राह्यस्त्वनिवेदितः । स्मृत्योर्विरोधे न्यायस्तु बलवान् व्यवहारतः ।। २५३.
प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्त्तितम् ।। २५३.
एषामन्यतमाभावे दिव्यान्यतममुच्यते । सर्वेष्वेव विवादेषु बलवत्युत्तरा क्रिया ।। २५३.
आधौ प्रतिग्रहे क्रीते यूर्वा तु बलवत्तरा । पश्यतो ब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी ।। २५३.
परेण भुज्यमाना या धनस्य दशवार्षिकी । आधिसीमोपनिःक्षेपजडवाचलधनैर्विना ।। २५३.
तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैरपि । आध्यादीनां विहर्तारं धनिने दापयेद्धनं ।। २५३.
दण्ड्य च तत्समं राज्ञे शक्त्यपेक्ष्यमथापि वा । आगमोप्यधिको भुक्तिं विना पूर्वक्रमागतां ।। २५३.
आगमोपि बलन्नैव भुक्तिः स्तोकापि यत्र न । आगमेन विशुद्धेन भोगो याति प्रमाणताम् ।। २५३.
अविशुद्धागमो भोगः प्रामाण्यं नाधिगच्छति। आगमस्तु कृतो येन सोबियुक्तस्तमुद्धरेत् ।। २५३.
न तत्सुतस्तःसुतो वा भुक्तिस्तत्र गरीयसी । योभियुक्तः परेतः स्यात् तस्य ऋक्थात्तमुद्धरेत् ।। २५३.
न तत्र कारणं भुक्तिरागमेन विनाकृता । बलोपाधिविनिर्वृत्तान् व्यवहारान्निवर्त्तयेत् ।। २५३.
स्त्रीनक्तमन्तरागारवहिःशत्रुकृतस्तथा । मत्तोन्मत्तार्त्तव्यसनिबालभीतप्रयोजितः ।। २५३.
असम्बद्धकृतश्चैव व्यवहारो न सिद्ध्यति । प्रनष्टाधिशतं देयं नृपेण धनिने धनं ।। २५३.
विभावयेन्न चेल्लिङ्गैस्तत्समं दातुमर्हति । देयञ्चौरहृतं द्रव्यं राज्ञा जनपदाय तु ।। २५३.
अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके । वर्णक्रमाच्छतं द्वित्रिचतुष्पञ्चकमन्यथा ।। २५३.
सप्ततिस्तु पशुस्त्रीणां रसस्याष्टगुणा परा । वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा तथा ।। २५३.
ग्रामान्तरात्तु दशकं सामुद्रादपि विंशतिं । दद्यर्वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु ।। २५३.
प्रपन्नं साधयन्नर्थं न वाच्यो नृपतिर्भवेत् । साध्यमानो नृपं गच्छेद्दण्ड्यो दाप्यश्च तद्धनं ।। २५३.
अग्निरुवाच गृहीतार्थः क्रमाद्दाप्यो धनिनामधमर्णिकः । दत्वा तु ब्राह्मणायादौ नृपतेस्तदनन्तरम् ।। २५४.
राज्ञाधमर्णिको दाप्यः साधिताद्दशकं स्मृतम् । पञ्चकन्तु शतं दाप्यः प्राप्तार्थो ह्युत्तमर्णिकः ।। २५४.
हीनजातिं परिक्षीणमृणार्थं कर्म्म कारयेत् । ब्राह्मणस्तु परिक्षीणः शनैर्द्दाप्यो यथोदयम् ।। २५४.
दीयमानं न गृह्णाति प्रयुक्तं स्वकन्धनम् । मध्यस्थस्थापितं तत्स्याद्वर्द्धते न ततः परं ।। २५४.
ऋक्थग्राह ऋणं दाप्यो योपिद्ग्राहस्तथैव च । पुत्रोऽनन्याश्रितद्रव्यः पुत्रहीनस्य ऋक्थिनः ।। २५४.
न योषित् पतिपुत्राभ्यां न पुत्रेण कृतं पिता । दद्यादृते कुटुम्बार्थान्न पतिः स्त्रीकृतं तथा ।। २५४.
गोपशौण्डिकशैलूषरजकव्याधयोषितां । ऋणं दद्यात्पतिस्त्वासां यस्माद्वृत्तिस्तदाश्रया ।। २५४.
प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत् कृतं । स्वयं कृतं वा यदृणं नान्यस्त्री दातुमर्हति ।। २५४.
पितरि प्रोषिते प्रेते व्यसनाभिप्लुतेऽथ वा । पुत्रपौत्रैर्ऋणं देयं निह्नवे साक्षिभावितम् ।। २५४.
सुराकामद्यूतकृतन्दण्डशुल्कावशिष्टकम् । वृथा दानं तथैवेहपु त्रो दद्यान्न पैतृकम् ।। २५४.
भ्रातॄणामथ दम्पत्योः पितुः पुत्रस्य चैव हि । प्रतिभाव्यमृणं ग्राह्यमविभक्तेन च स्मृतम् ।। २५४.
दर्शने प्रत्यये दाने प्रव्भिव्यं विधीयते । आधौ तु वितथे दाप्या वितथस्य सुता अपि ।। २५४.