अक्षवर्ज्जशलाकाद्यैर्दैवतं द्यूतभुच्यते । पञ्चक्रीड़ावयोभिश्च प्राणिद्यूतसमाह्वयः ।। २५३.
प्रकीर्णकः पुनर्ज्ञेयो व्यवहारो निराश्रयः । क्रियाबेदान्मनुष्याणां शतशाखो निगद्यते ।। २५३.
व्यवहारोऽष्टादशपदस्तेषां भेदोऽथ वै शतम् । क्रियाभेदान्मनुष्याणां शतशाखो निगद्यते ।। २५३.
व्यवहारान्नृपः पश्येज् ज्ञानिविप्रैरकोपनः । शत्रुमित्रसमाः सभ्या अलोभाः श्रुतिवेदिनः ।। २५३.
अपश्यता१ कार्य्यवशात् सभ्यैर्विप्रं नियोजयेत् । रागाल्लोभाद्भयाद्वापि स्मृत्यपेतादिकारिणः ।। २५३.
सभ्याः पृथक् पृथग् दण्ड्या विवादाद्द्विगुणो दमः । स्मृत्याचारव्यपेतेन मार्गेण धर्षितः परैः ।। २५३.
आवेदयति यद्राज्ञे व्यवहारपदं हि तत्। प्रत्यर्थिनोऽग्रतो लेख्यं यथा वेदितमर्थिना ।। २५३.
समामासतदर्द्धाहर्नामजात्यादिचिह्नितम् । श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसन्निधौ ।। २५३.
ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् । तत्सिद्धौ सिद्धिमाप्नोति विपरीतमतोऽन्यथा ।। २५३.
चतुष्पाद्व्यवहारोयं विवादेषूपदर्शितः । अभियोगमनिस्तीर्य्यनैनं प्रत्यबियोजयेत् ।। २५३.
अभियुक्तञ्च नान्येन त्यक्तं विप्रकृतिं नयेत् । कुर्य्यात् प्रत्यभियोगन्तु कलहे साहसेषु च ।। २५३.
उभयोः प्रतिभूर्ग्राह्यः समर्थः कार्य्यनिर्गये । निह्नवे भावितो दद्याद्धनं राज्ञे तु तत्समम् ।। २५३.
मिथ्याभियोगाद् द्विगुणमभियोगाद्धनं हरेत् । साहसस्तेयपारुष्येष्वभिशापात्यये स्त्रियाः ।। २५३.
विचारयेत्यद्य एव कालोऽन्यत्रेछया स्मृतः । देशदेशान्तरं याति सृक्कणी परिलेढि च ।। २५३.
ललाटं स्विद्यते चास्य मुखवैवर्ण्यमेव च । स्वभावाद्विकृतं गच्छेन्मनोवाक्कायकर्मभिः ।। २५३.
अभियोगेऽथ वा साक्ष्ये वाग्दुष्टं परिकीर्त्तितः । सन्दिग्धार्थं स्वतन्त्रो यः साधयेद्यश्च निष्पतेत् ।। २५३.
न चाहूतो वदेत् किञ्चिद्धनी दण्ड्यश्च स स्मृतः । साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः ।। २५३.
पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः । सगणश्चेद्विवादः स्यात्तत्र हीनन्तु दापयेत् ।। २५३.
दत्तं पणं वसुञ्चैव धनिनो धनमेव च। छलन्निरस्य दूतेन व्यवहारान्नयेन्नृपः ।। २५३.
भूतमप्यर्थमप्यस्तं हीयते व्यवहारतः । निह्नते निखिलानेकमेकदेशविभावितम् ।। २५३.
दाप्यः सर्वान्नृपेणार्थान्न ग्राह्यस्त्वनिवेदितः । स्मृत्योर्विरोधे न्यायस्तु बलवान् व्यवहारतः ।। २५३.
प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्त्तितम् ।। २५३.
एषामन्यतमाभावे दिव्यान्यतममुच्यते । सर्वेष्वेव विवादेषु बलवत्युत्तरा क्रिया ।। २५३.
आधौ प्रतिग्रहे क्रीते यूर्वा तु बलवत्तरा । पश्यतो ब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी ।। २५३.
परेण भुज्यमाना या धनस्य दशवार्षिकी । आधिसीमोपनिःक्षेपजडवाचलधनैर्विना ।। २५३.
तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैरपि । आध्यादीनां विहर्तारं धनिने दापयेद्धनं ।। २५३.
दण्ड्य च तत्समं राज्ञे शक्त्यपेक्ष्यमथापि वा । आगमोप्यधिको भुक्तिं विना पूर्वक्रमागतां ।। २५३.
आगमोपि बलन्नैव भुक्तिः स्तोकापि यत्र न । आगमेन विशुद्धेन भोगो याति प्रमाणताम् ।। २५३.
अविशुद्धागमो भोगः प्रामाण्यं नाधिगच्छति। आगमस्तु कृतो येन सोबियुक्तस्तमुद्धरेत् ।। २५३.
न तत्सुतस्तःसुतो वा भुक्तिस्तत्र गरीयसी । योभियुक्तः परेतः स्यात् तस्य ऋक्थात्तमुद्धरेत् ।। २५३.