हिरण्यमग्निरुदकमष्टाङ्गः समुदाहृतः । कामात् क्रोधाच्च लोभाच्च त्रिभ्यो यस्मात् प्रवर्त्तते ।। २५३.
त्रियोनिः कीर्त्यते तेन त्रयमेतद्विवादकृत् । द्व्यभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः ।। २५३.
शङ्काषड्भिस्तु संसर्गात्तत्त्वषोढ़ादिदर्शणात् । पज्ञद्वयाभिसम्बन्धाद्द्विद्वारः समुदाहृतः ।। २५३.
पूर्ववादस्तयोः पक्षः प्रतिपक्षस्त्वनन्तरः । भूतच्छलानुसारित्वाद्द्विगतिः समुदाहृता ।। २५३.
ऋणन्देयमदेयञ्च येन यत्र यथा च यत् । दानग्रहणघर्मश्च ऋणादानमिति स्मृतम् ।। २५३.
स्वद्रव्यं यत्र विश्रम्भान्निक्षिपत्यविशङ्कितः । निक्षएपन्नामतत् प्रोक्तं व्यवहारपदम्बुधैः ।। २५३.
वणिक्प्रभृतयो यत्र कर्म सम्भूय कुर्वते । तत्सम्भूयसमुत्थानं व्यवहारपदं विदुः ।। २५३.
दत्त्वा द्रव्यञ्च चसम्यग्यः पुनरादातुमिच्छति । दत्त्वाप्रदानिकं नाम तद्विवादपदं स्मृतम् ।। २५३.
अभ्युपेत्य च शुश्रूषां यस्तां न प्रतिपद्यते । अशुश्रूषाब्युपेत्यैतद्विवादपदमुच्यते ।। २५३.
भृत्यानां वेतनस्योक्तादानादानविधिक्रिया । वेतनस्यानपाकर्म तद्विवादपदं स्मृतम् ।। २५३.
निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वा प्रहृत्य वा । विक्रीयते परोक्षं यत् स ज्ञेयोऽस्वामिविक्रयः ।। २५३.
विक्रीय पण्यं मूल्येन क्रेत्रे यञ्च न दीयते । विक्रीयासम्प्रदानन्तद्विवादपदमुच्यते ।। २५३.
क्रीत्वा मूल्येन यत्पण्यं क्रेता न बहु मन्यते । क्रीत्वा मूल्येन यत् पण्यं दुष्क्रीतं मन्यतेक्रयी ।। २५३.
पाखण्डनैगमादीनां स्थितिः समय उच्यते । समयस्यानपाकर्म तद्विवादपदं स्मृतम् ।। २५३.
सेतुकेदारमर्य्यादाविकृष्टाकृष्टनिश्चयाः । शेत्राधिकारे यत्र स्युर्विवादः क्षेत्रजस्तु सः ।। २५३.
वैवाहिको विधिः स्त्रीणं यत्र पुंसाञ्च कीर्त्त्यते । स्त्रीपुंसंयोगसंज्ञन्तु तद्विवादपदं स्मृतम् ।। २५३.
विभागोर्थस्य पैत्रस्य पुत्रैर्यस्तु प्रकल्प्यते । दायभागमिति प्रोक्तं विवादपदमुच्यते ।। २५३.
सहसा क्रियते कर्म्म यत् किञ्चित् बलदर्पितैः । तत् साहसमिति प्रोक्तं विवादपदमुच्यते ।। २५३.
देशजातिकुलादीनामाक्रोशत्यङ्गसंयुतम् । यद्वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते ।। २५३.
परगात्रेष्वभिद्रोहो हस्तपादायुधादिभिः । अग्न्यादिभिश्चोपघातैर्दण्डपारुष्यमुच्यते ।। २५३.
अक्षवर्ज्जशलाकाद्यैर्दैवतं द्यूतभुच्यते । पञ्चक्रीड़ावयोभिश्च प्राणिद्यूतसमाह्वयः ।। २५३.
प्रकीर्णकः पुनर्ज्ञेयो व्यवहारो निराश्रयः । क्रियाबेदान्मनुष्याणां शतशाखो निगद्यते ।। २५३.
व्यवहारोऽष्टादशपदस्तेषां भेदोऽथ वै शतम् । क्रियाभेदान्मनुष्याणां शतशाखो निगद्यते ।। २५३.
व्यवहारान्नृपः पश्येज् ज्ञानिविप्रैरकोपनः । शत्रुमित्रसमाः सभ्या अलोभाः श्रुतिवेदिनः ।। २५३.
अपश्यता१ कार्य्यवशात् सभ्यैर्विप्रं नियोजयेत् । रागाल्लोभाद्भयाद्वापि स्मृत्यपेतादिकारिणः ।। २५३.
सभ्याः पृथक् पृथग् दण्ड्या विवादाद्द्विगुणो दमः । स्मृत्याचारव्यपेतेन मार्गेण धर्षितः परैः ।। २५३.
आवेदयति यद्राज्ञे व्यवहारपदं हि तत्। प्रत्यर्थिनोऽग्रतो लेख्यं यथा वेदितमर्थिना ।। २५३.
समामासतदर्द्धाहर्नामजात्यादिचिह्नितम् । श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसन्निधौ ।। २५३.
ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् । तत्सिद्धौ सिद्धिमाप्नोति विपरीतमतोऽन्यथा ।। २५३.
चतुष्पाद्व्यवहारोयं विवादेषूपदर्शितः । अभियोगमनिस्तीर्य्यनैनं प्रत्यबियोजयेत् ।। २५३.