ऊद्र्ध्वप्र्हारं घातञ्च गोमूत्रं सव्यदक्षिणे । पारकन्तारकं दण्डं४ करवीरन्धमाकुलं ।। २५२.
तिर्य्यग्बन्धमपामार्गं५ भीमवेगं सुदर्शनं । सिंहाक्रान्तं गजाक्रान्तं गर्द्दभाक्रान्तमेव च ।। २५२.
गदाकर्माणि जानीयान्नियुद्धस्याथ कर्म च । आकर्षणं विकषञ्च बाहूनां मूलमेव च ।। २५२.
ग्रीवाविपरिवर्त्तञ्च पृष्ठभङ्गं सुदारुणं । पर्य्यासनविपर्य्यासौ पशुमारमजाविकं ।। २५२.
पादप्रहारमास्फोटं ककटिरेचितकन्तथा । गात्रश्लेषं स्कन्धगतं महीव्याजनमेव च ।। २५२.
उरोललाटघातञ्च विस्पष्टकरणन्तथा । उद्धूतमवधूतञ्च तिर्य्यङ्मार्गगतं तथा ।। २५२.
गजस्कन्धमवक्षेपमपराङ्मुखमेव च । देवमार्गमधोमार्गममार्गगमनाकुलं ।। २५२.
यष्टिघातमवक्षेपो वसुधादारणन्तथा । जानुबन्धं भुजाबन्धं गात्रबन्धं सुदारुणं ।। २५२.
विपृष्ठं सोदकं शुभ्रं भुजावेष्टितमेव च । सन्नद्धैः संयुगे भाव्यं सशस्त्रैस्तैर्गजादिभिः ।। २५२.
वराङ्कुशधरौ चोभौ एको ग्रीवागतोऽपरः । स्कन्धगौ द्वौ च धानुष्कौ द्वौ च खड्गधरौगजे ।। २५२.
रथे रणे गजे चैव तुरङ्गाणां त्रयं भवेत् । धानुष्काणान्त्रयं प्रोक्तं रक्षआर्थे तुरगस्य च ।। २५२.
धन्विनो रक्षणार्थाय चर्मिणन्तु६ नियोजयेत् । स्वमन्त्रैः शस्त्रमभ्यर्च्य शास्त्रान्त्रैलोक्यमोहनं ।। २५२.
अग्निरुवाच व्यवहारं प्रवक्षअयामि नयानयविवेकदं । चतुष्पाच्च चतुःस्थानश्चतुःसाधन उच्यते ।। २५३.
चतुर्हितश्चतुर्व्यापी चतुष्कारी चकीत्तर्यते । अष्टाह्गोऽष्टादशपदः शतशाखस्तथैव च ।। २५३.
त्रियोनिर्द्व्यभियोगश्च द्विद्वारो द्विगतिस्तथा । धर्मश्च व्यवहारश्च चरित्रं राजशासनं ।। २५३.
चतुष्पाद्व्यवहाराणामुत्तरः पूर्वसाधकः । तत्र सत्ये स्थितो धर्मो ब्यवहारस्तु साक्षिषु ।। २५३.
चरित्रं सङ्ग्रहे पुंसां राजाज्ञायान्तु शासनं । सामाभ्युपायसाध्यत्वाच्चतुःसाधन उच्यते ।। २५३.
चतुर्णामाश्रमाणाञ्च रक्षणात्स चतुर्हितः । कर्त्तारं साक्षइणश्चैव सत्यान्राजानमेव च ।। २५३.
व्याप्नोते पादगो यस्माच्चतुर्व्यापी ततः स्मृतः । धर्मस्यार्थस्य यशसो लोकपङक्तेस्तथैव च ।। २५३.
चतुर्णाङ्करणादेष चतुष्कारी प्रकीर्त्तितः । राजा स पुरुषः सभ्याः शास्त्रं गणकलेखकौ ।। २५३.
हिरण्यमग्निरुदकमष्टाङ्गः समुदाहृतः । कामात् क्रोधाच्च लोभाच्च त्रिभ्यो यस्मात् प्रवर्त्तते ।। २५३.
त्रियोनिः कीर्त्यते तेन त्रयमेतद्विवादकृत् । द्व्यभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः ।। २५३.
शङ्काषड्भिस्तु संसर्गात्तत्त्वषोढ़ादिदर्शणात् । पज्ञद्वयाभिसम्बन्धाद्द्विद्वारः समुदाहृतः ।। २५३.
पूर्ववादस्तयोः पक्षः प्रतिपक्षस्त्वनन्तरः । भूतच्छलानुसारित्वाद्द्विगतिः समुदाहृता ।। २५३.
ऋणन्देयमदेयञ्च येन यत्र यथा च यत् । दानग्रहणघर्मश्च ऋणादानमिति स्मृतम् ।। २५३.
स्वद्रव्यं यत्र विश्रम्भान्निक्षिपत्यविशङ्कितः । निक्षएपन्नामतत् प्रोक्तं व्यवहारपदम्बुधैः ।। २५३.
वणिक्प्रभृतयो यत्र कर्म सम्भूय कुर्वते । तत्सम्भूयसमुत्थानं व्यवहारपदं विदुः ।। २५३.
दत्त्वा द्रव्यञ्च चसम्यग्यः पुनरादातुमिच्छति । दत्त्वाप्रदानिकं नाम तद्विवादपदं स्मृतम् ।। २५३.
अभ्युपेत्य च शुश्रूषां यस्तां न प्रतिपद्यते । अशुश्रूषाब्युपेत्यैतद्विवादपदमुच्यते ।। २५३.
भृत्यानां वेतनस्योक्तादानादानविधिक्रिया । वेतनस्यानपाकर्म तद्विवादपदं स्मृतम् ।। २५३.