कर्त्तव्यं शिक्षकैस्तस्य स्थानं कक्षासु वै तदा । वामहस्तेन सङ्गृह्य दक्षिणेनोद्धरेत्ततः ।। २५१.
कुण्डलस्याकृतिं कृत्वा भ्राम्यैकं मस्तकोपरि । क्षिपेत् तूणमये तूर्णं पुरुषे चर्मवेष्टिते ।। २५१.
वल्गिते च प्लुते चैव तथा प्रव्रजितेषु च । समयोगविधिं कृत्वा प्रयुञ्जीत सुशिक्षितम् ।। २५१.
विजित्वा तु यथान्यायं ततो बन्धं समाचरेत् । कट्याम्बद्ध्वा ततः खड्गं वामपार्श्वावलम्बितम् ।। २५१.
दृढं विगृह्य वामेन निष्कर्षेद्दक्षिणेन तु । षडङ्गुलपरीणाहं सप्तहस्तसमुच्छितं ।। २५१.
अयोमय्यः शलाकाश्च वर्माणि विविधानि च । अर्द्धहस्ते समे चैव तिर्य्यगूद्र्ध्वगतं तथा ।। २५१.
योजयेद्विधिना येन तथात्वङ्गदतः श्रृणु । तूणचर्मावनद्धाङ्गं स्थापयित्वा नवं दृढं ।। २५१.
करेणादाय लगुडं दक्षिणाङ्गुलकं नवं । उद्यम्य घातयेद्यस्य नाशस्तेन शिशोर्दृढं ।। २५१.
उभाभ्यामथ हस्ताब्यां कुर्य्यात्तस्य निपातनं । अक्लेशेन ततः कुर्वन् बधे सिद्धिः प्रकीर्त्तिता ।। २५१.
अग्निरुवाच भ्रान्तमुद् भ्रान्तमाविद्धमाप्लुतं विप्लुतं सृतं । सम्पातं समुदीशञ्च श्येनपातमथाकुलं ।। २५२.
उद्धूतमवधूतञ्च सव्यं दक्षिणमेव च । अनालक्षितविस्फोटौ करालेन्द्रमहासखौ ।। २५२.
विकरालनिपातौ च विभीषणभयानकौ । समग्रार्द्धतीयांशपादपादार्द्धवारिजाः ।। २५२.
प्रात्यालीढमथालीढं वराहं लुलितन्तथा । इति द्वात्रिंशतो ज्ञेयाः खड्गचर्मविधौ रणे ।। २५२.
परवृत्तमपावृत्तं गृहीतं लघुसञ्ज्ञितं । ऊद्र्ध्वात् क्षइप्तमधः क्षिप्तं सन्धारितविधारितं ।। २५२.
श्येनपातं गजपानं ग्राहग्राह्यन्तथैव च । एवमेकादशविधा ज्ञेयाः पाशविधा रणाः ।। २५२.
ऋज्वायतं विशालञ्च तिर्य्यग्भ्रामितमेव च । पञ्चकर्म विनिर्द्दिष्टं व्यस्ते पाशे महात्मभिः ।। २५२.
छेदनं भेदनं पातो भ्रमणं शयनं तथा । विकर्त्तनं कर्त्तऩञ्च चक्रकर्मेदमेव च ।। २५२.
आस्फोटः क्ष्वेडनं भेदस्त्रासान्दोलितकौ तथा । शूलकर्माणि जानीहि षष्ठमाघातसञ्ज्ञितं ।। २५२.
दृष्टिघातं भुजाघातं पार्श्वघातं द्विजोत्तम । ऋजुपक्षेषुणा पातं तोमरस्य प्रकीर्त्तितं ।। २५२.
आहतं विप्र गोमूत्रप्रभूतङ्कमलासनं । ततोर्द्धगात्रं नमितं वामदक्षिणमेव च ।। २५२.
आवृत्तञ्च चपरावृत्तं पादोद्धतमवप्लुतं । हंसमर्द्दं विमर्दञ्च३ गदाकर्म प्रकीर्त्तितं ।। २५२.
करालमवघातञ्च दंशोपप्लुतमेव च । क्षिप्तहस्तं स्थितं शून्यं परशोस्तु विनिर्दिशेत् ।। २५२.
ताडनं छेदनं विप्र तथा चूर्णनमेव च । मुद्गरस्य तु कर्माणि तथा प्लवनघातनं ।। २५२.
सं श्रान्तमथ विश्रान्तं गोविसर्गं सुदुर्द्धरं । भिन्दिपालस्य कर्माणि लगुडस्य च तान्यपि ।। २५२.
अन्त्यं मध्यं परावृत्तं निदेशान्तं द्विजोत्तम । वज्रस्यैतानि कर्माणि लगुडस्य च तान्यपि ।। २५२.
हरणं छेदनं घातो बलोद्धारणमायतं । कृपाणकर्म निर्दिष्टं पातनं स्फोटनं तथा ।। २५२.
त्रासनं रक्षणं घातो बलोद्धरणमायतम् । क्षेपणीकर्म निर्दिष्टं यन्त्रकर्मैतदेव तु ।। २५२.
सन्त्यागमवदंशश्च वराहोद्धूतकं तथा । हस्तावहस्तमालीनमेकहस्तावहस्तके ।। २५२.
द्विहस्तवाहुपाशे च कटिरेचितकोद्गते । उरोललाटघाते च भुजाविधमनन्तथा ।। २५२.
द्विहस्तवाहुपाशे च कटिरेचिककोद्गते । गात्रसंश्लेषणं शान्तं तथा गात्रविपर्य्ययः ।। २५२.