अविनाशी हरिर्देवो ध्यानिभिद्धर्येय एव सः। विना तं द्वारकास्थानं प्लावयामास सागरः
संस्कृत्य यादवान् पार्थो दत्तोदकधनादिकः। स्त्रियोष्टावक्रशापेन भार्य्या विष्णोश्च याः स्थिताः
पुनस्तच्छापतो नीता गोपालैर्लगुडायुधैः। अर्जुनं हि तिरस्कृत्य पार्थः शोकञ्चकार ह
व्यासेनाश्वासितो मेने बलं मे कृष्णासन्निधौ। हस्तिनापुरमागत्य पार्थः सर्वं न्यवेदयत्
युधिष्ठिराय स भ्रात्रे पालकाय नृणान्तदा। तद्धनुस्तानि चास्त्राणिस रथस्ते च वाजिनः
विना कृष्णेन तन्नष्टं दानञ्चाश्रोत्रिये यथा। तच्छ्रुत्वा धर्म्मराजस्तु राज्ये स्थाप्य परीक्षितम्
प्रस्थानं प्रस्थितो धीमान् द्रौपद्या भ्रातृभिः सह। संसारनित्यतां ज्ञात्वा जपन्नष्टशतं हरेः
महापथे तु पतिता द्रौपदी सहदेवकः। नकुलः फाल्गुनो भीमो राजा शोकपरायणः
इन्द्रानीतरयारूढः सानुजः स्वर्गमाप्तवान्। दृष्ट्वा दुर्योधनादींश्च वासुदेवं च हर्षितः
अग्निरुवाच वक्ष्ये बुद्धावतारञ्च पठतः श्रृण्वतोर्थदम्। पुरा देवासुरे युद्धे देत्यैर्द्देवाः पपाजिताः
रक्ष रक्षेति शरणं वदन्तो जग्मुरीश्वरम्। मायामोहस्वरूपोसौ शुद्धोदनसुतोऽभवत्
मोहयामास दैत्यांस्तांस्त्याजिता वेदधर्मकम्। ते च बौद्धा बभूवुर्हि तेभ्योन्ये वेदवर्जिताः
आर्हतः सोऽभवत् पश्चादार्हतानकरोत् परान्। एवं पाषण्डिनो जाता वेदधर्म्मादिवर्जिताः
नारकार्हं कर्म चक्रुर्ग्रहीष्यन्त्यधमादपि। सर्वे कलियुगान्ते तु भविष्यन्ति च सङ्कराः
दस्यवः शीलहीनाश्च वेदो वाजसनेयकः। दश पञ्च च शाखा वै प्रमाणेन भविष्यति
धर्म्मकञ्चुकसंवीता अधर्मरुचयस्तथा। मानुपान् भक्षयिष्यन्ति म्लेच्छाः पार्थिवरूपिणः
कल्की विष्णुयशः पुत्रो याज्ञवल्क्यपुरोहितः। उत्सादयिष्यति म्लेच्छान् गृहीतास्त्रः कृतायुधः
स्थापयिष्यति मर्यादां चातुर्वर्ण्ये यथोचिताम्। आश्रमेषु च सर्वेषु प्रजाः सद्धर्म्मवर्त्मनि
कल्किरूपं परित्यज्य हरिः स्वर्गं गमिष्यति। ततः कृतयुगन्नाम पुरावत् सम्भविष्यति
वर्णाश्रमाश्च धर्मेषु स्वेषु स्थास्यन्ति सत्तम। एवं सर्वेषु कल्पेषु सर्वमन्वन्तरेषु च
अवतारा असङ्ख्याता अतीतानागतादयः। विष्णोर्द्दशावताराख्यान्यः पठेत् श्रृणुयान्नरः
सोवाप्तकामो विमलः सकुलः स्वर्गमाप्नुयात्। धर्म्माधर्म्मव्यवस्थानमेवं वै कुरुते हरीः
अग्निरुवाच जगत्सर्गादिकां क्रीडां विष्णोर्वक्ष्येधुना श्रृणु। स्वर्गादिकृत् स सर्गादिः सृष्ट्यादिः सगुणोगुणः
ब्रह्माव्यक्तं सदाग्रेऽभूत् न खं रात्रिदिनादिकम्। प्रकृतिं पुरुषं विष्णुः प्रविश्याक्षोभयत्ततः
सर्गकाले महत्तत्त्वमहङ्कारस्ततोऽभवत्। वैकारिकस्तैजसश्च भूतादिश्चैव तामसः
अहङ्काराच्छब्दमात्रमाकाशमभवत्ततः । स्पर्शमात्रोऽनिलस्तस्माद्रूपमात्रोऽनलस्ततः
रसमात्रा आप इतो गन्धमात्रा मही स्मृता । अहङ्कारात्तामसात्तु तैजसानी न्द्रियाणि च
वैकारिका दशदेवा मन एकादशेन्द्रियम्। ततः स्वयम्भूर्भगवान् सिसृक्षुर्विविधाः प्रजाः
अप एव ससर्जादौ तासु वीर्यमवासृजत् । आपो नारा इति प्रोक्ता आपो वै नरसूनवः
अयनन्तस्य ताः पूर्वन्तेन नारायणः स्मृतः । हिरण्यवर्णमभवत् तदण्डमुदकेशयम्