सप्तमे दिवसे त्वव्धिः प्लावयिप्यति वै जगत् । उपस्थितायां नावि त्वं बीजादीनि विधाय च
सप्तर्षिभिः परिवृतो निशां ब्राह्मीं चरिष्यसि। उपस्थितस्य मे श्रृङ्गे निबध्नीहि महाहिना
इत्युक्त्वान्तर्दृधे मत्स्यो मनुः कालप्रतीक्षकः । स्थितः समुद्र उद्वेले नावमारुरुहे तदा
एकश्रृङ्गधरो मत्स्यो हैमो नियुतयोजनः। नालम्बबन्ध तच्छृङ्गे मत्स्याख्यं च पुराणकम्
शुश्राव मत्स्यात्पापघ्नं संस्तुवन् स्तुतिभिश्च तम् । ब्रह्मवेदप्रहर्त्तारं हयग्रीवञ्च दानवम्
अवधीद् वेदमन्त्नाद्यान् पालयामास केशवः। प्राप्ते कल्पेऽथ बाराहे कूर्म्मरूपोऽभवद्धरिः
अग्निरुवाच अवतारं वराहस्य वक्ष्येऽहं पापनाशनम् । हिरण्याक्षोऽसुरेशोऽभूद् देवान् जित्वा दिवि स्थितः
देवैर्गत्वा स्तुतो विष्णुर्यज्ञरूपो वराहकः । अभूत् तं दानवं हत्वा दैत्यैः साकञ्च कण्टकम्
धर्मदेवादिरक्षाकृतं ततः सोऽन्तर्द्दधे हरिः। हिरण्याक्षस्य वै भ्राता हिरण्यकशिपुस्तथा
जितदेवयज्ञभागः सर्वदेवाधिकारकृत्। नारसिंहवपुः कृत्वा तं जघान सुरैः सह
स्वपदस्थान् सुरांश्चक्रे नारसिंहः सुरैः स्तुतः। देवासुरे पुरा युद्धे बलिप्रभृतिभिः सुराः
जिताः स्वर्गात्परिभ्रप्टा हरिं वै शरणं गताः। सुराणाममयं दत्त्वा अदित्या कश्यपेन च
स्तुतोऽसौ वामनो भूत्वा ह्यदित्यां स क्रतुं ययौ। बलेः श्रीयजमानस्य, राजद्वारेऽगृणात् श्रुतिम्
वेदान् पठन्तं तं श्रुत्वा वामनं वरदोऽब्रवीत्। निवारितोऽपि शुक्रेण बलिर्ब्रूहि यदिच्छसि
त्तत्तेऽहं सम्प्रदास्यामि,वामनो बलिमब्रवीत्। पदत्रयं हि गुर्वर्थं देहि दास्ये तमब्रवीत्
तोये तु पतिते हस्ते वामनोऽभूदवामनः। भूर्लोकं स भुवर्लोकं स्वर्लेकञ्च पदत्रयम्
चक्रे बलिञ्च सुतलं तच्छक्राय ददौ हरिः। शक्रो देवैर्हरिं स्तुत्वा भुवनेशः सुखीं त्वभूत्
वक्ष्ये परशुरामस्य चावतारं श्रृणु द्विज। उद्वतान् क्षत्रियान् मत्वा भूभारहाणाय सः
अवतीर्णो हरिः शान्त्यै देवविप्रादिपालकः। जमदग्ने रेणुकायां भार्गवः शस्त्रपारगः
दत्तात्रेयप्रसादेन कार्त्तवीर्यो नृपस्त्वभूत्। सहस्त्रबाहुः सर्वोर्वीपतिः स मृगयां गतः
श्रान्तो निमन्त्रितोऽरण्ये मुनिना जमदग्निना। कामधेनुप्रभावेण भोजितः सबलो नृपः
अप्रार्थयत् कामधेनुं यदा स न ददौ तदा। हृतवानथ रामेण शिरश्छित्त्वा निपातितः
युद्धे परशुना राजा धेनुः स्वाश्रममाययौ । कार्त्तवीर्यस्य पुत्रस्तु जमदग्निर्निपातितः
रामे वनं गते वैरादथ रामः समागतः। पितरं निहतं दृष्ट्वा पितृनाशाभिमर्षितः
त्रिः सप्तकृत्वः पृथिवीं निःक्षत्रामकरोद्विभुः। कुरुश्रेत्रे पञ्च कुण्डान् कृत्वा सन्तर्प्य वै पितृन्
काश्यपाय महीं दत्त्वा महेन्द्रे पर्वते स्थितः। कूर्म्मस्य च वराहस्य नृसिंहस्य च वामनम्
अवतारं च रामस्य श्रुत्वा याति दिवं नरः
अग्निरुवाच रामायणमहं वक्ष्ये नारदेनोदितं पुरा। वाल्मीकये यथा तद्वत् पठितं भुक्तिमुक्तिदम्
नारद उवाच विष्णुनाभ्यव्जजो ब्रह्मा मरीचिर्ब्रह्मणः सुतः। मरीचेः कश्यपस्तस्मात् सूर्यो वैवस्वतो मनुः
ततस्तस्मात्तथेक्ष्वाकुस्तस्य वंशे ककुत्स्थकः। ककुत्स्थस्य रघुस्तस्मादजो दशरथस्ततः