तस्मिन् वेध्यगते विप्र द्वे वेध्ये दृढसंज्ञके । द्वे वेध्ये दुष्करे वेध्ये द्वे तथा चित्रदुष्करे ।। २५०.
न तु निम्नञ्च तीक्ष्णञ्च दृढवेध्ये प्रकीर्त्तिते । निम्नं दुष्करमुद्दिष्टं वेध्यमूद्र्ध्वगतञ्च यत् ।। २५०.
मस्तकायनमध्ये तु चित्रदुष्करसञ्ज्ञके । एवं वेध्यगणङ्कृत्वा दक्षिणेनेतरेण च ।। २५०.
आरोहेत् प्रथमं वीरो जितलक्षस्ततो नरः । एष एव विधिः प्रोक्तस्तत्र दृष्टः प्रयोक्तृभिः ।। २५०.
अधिकं भ्रमणं तस्य तस्माद् वेध्यात् प्रकीर्त्तितम् । लक्ष्यं स योजयेत्तत्र पत्रिपत्रगतं दृढम् ।। २५०.
भ्रान्तं प्रचलिचञ्चैव स्थिरं यच्च भवेदति । समन्तात्ताडयेद् भिन्द्याच्छेदयेद्व्यथयेदपि ।। २५०.
कर्म्मयोगविधानज्ञो ज्ञात्वैवं विधिमाचरेत् । मनसा चक्षुषा दृष्ट्या योगरिक्षुर्यमं जयेत् ।। २५०.
अग्निरुवाच जितहस्तो जितमतिर्ज्जितदृग्लक्ष्यसाधकः । नियतां सिद्धिमासाद्य ततो वाहनमारुहेत् ।। २५१.
दशहस्तो भवेत् पाशो वृत्तः करमुखस्तथा । गुणकार्पासमुञ्जानां भङ्गस्नाय्वर्क्कवर्म्मिणाम् ।। २५१.
अन्येषां सुदृढानाञ्च सुकृतं परिवेष्टितम् । तया त्रिंशत्समं पाशं बुधः कुर्य्यात् सुवर्त्तिंतम् ।। २५१.
कर्त्तव्यं शिक्षकैस्तस्य स्थानं कक्षासु वै तदा । वामहस्तेन सङ्गृह्य दक्षिणेनोद्धरेत्ततः ।। २५१.
कुण्डलस्याकृतिं कृत्वा भ्राम्यैकं मस्तकोपरि । क्षिपेत् तूणमये तूर्णं पुरुषे चर्मवेष्टिते ।। २५१.
वल्गिते च प्लुते चैव तथा प्रव्रजितेषु च । समयोगविधिं कृत्वा प्रयुञ्जीत सुशिक्षितम् ।। २५१.
विजित्वा तु यथान्यायं ततो बन्धं समाचरेत् । कट्याम्बद्ध्वा ततः खड्गं वामपार्श्वावलम्बितम् ।। २५१.
दृढं विगृह्य वामेन निष्कर्षेद्दक्षिणेन तु । षडङ्गुलपरीणाहं सप्तहस्तसमुच्छितं ।। २५१.
अयोमय्यः शलाकाश्च वर्माणि विविधानि च । अर्द्धहस्ते समे चैव तिर्य्यगूद्र्ध्वगतं तथा ।। २५१.
योजयेद्विधिना येन तथात्वङ्गदतः श्रृणु । तूणचर्मावनद्धाङ्गं स्थापयित्वा नवं दृढं ।। २५१.
करेणादाय लगुडं दक्षिणाङ्गुलकं नवं । उद्यम्य घातयेद्यस्य नाशस्तेन शिशोर्दृढं ।। २५१.
उभाभ्यामथ हस्ताब्यां कुर्य्यात्तस्य निपातनं । अक्लेशेन ततः कुर्वन् बधे सिद्धिः प्रकीर्त्तिता ।। २५१.
अग्निरुवाच भ्रान्तमुद् भ्रान्तमाविद्धमाप्लुतं विप्लुतं सृतं । सम्पातं समुदीशञ्च श्येनपातमथाकुलं ।। २५२.
उद्धूतमवधूतञ्च सव्यं दक्षिणमेव च । अनालक्षितविस्फोटौ करालेन्द्रमहासखौ ।। २५२.
विकरालनिपातौ च विभीषणभयानकौ । समग्रार्द्धतीयांशपादपादार्द्धवारिजाः ।। २५२.
प्रात्यालीढमथालीढं वराहं लुलितन्तथा । इति द्वात्रिंशतो ज्ञेयाः खड्गचर्मविधौ रणे ।। २५२.
परवृत्तमपावृत्तं गृहीतं लघुसञ्ज्ञितं । ऊद्र्ध्वात् क्षइप्तमधः क्षिप्तं सन्धारितविधारितं ।। २५२.
श्येनपातं गजपानं ग्राहग्राह्यन्तथैव च । एवमेकादशविधा ज्ञेयाः पाशविधा रणाः ।। २५२.
ऋज्वायतं विशालञ्च तिर्य्यग्भ्रामितमेव च । पञ्चकर्म विनिर्द्दिष्टं व्यस्ते पाशे महात्मभिः ।। २५२.
छेदनं भेदनं पातो भ्रमणं शयनं तथा । विकर्त्तनं कर्त्तऩञ्च चक्रकर्मेदमेव च ।। २५२.
आस्फोटः क्ष्वेडनं भेदस्त्रासान्दोलितकौ तथा । शूलकर्माणि जानीहि षष्ठमाघातसञ्ज्ञितं ।। २५२.
दृष्टिघातं भुजाघातं पार्श्वघातं द्विजोत्तम । ऋजुपक्षेषुणा पातं तोमरस्य प्रकीर्त्तितं ।। २५२.
आहतं विप्र गोमूत्रप्रभूतङ्कमलासनं । ततोर्द्धगात्रं नमितं वामदक्षिणमेव च ।। २५२.