वैशाखे यदि वा जाते स्थितौ वाप्यथवायतौ । गुणान्तन्तु ततः कृत्वा कार्मके प्रियकार्मुकः ।। २४९.
अधः कटिन्तु धनुषः फलदेशन्तु पत्रिणः । धरण्यां स्थापयित्वा त तोलयित्वा तथैव च ।। २४९.
भुजाब्यामत्र कुब्जाभ्यां प्रकोष्ठाभ्यां शुभव्रत । यस्य वाणं धनुः श्रेष्ठं पुङ्खदेशे च पत्रिणः ।। २४९.
विन्यासो धनुषश्चैव द्वादशङ्गुलमन्तरं । ज्यया विशिष्टः कर्त्तव्यो नातिहीनो न चाधिकः ।। २४९.
निवेश्य कार्मुकं नाभ्यां नितम्बे शरसङ्करं । उत्क्षिपेदुत्थितं हस्तमन्त्रेणाक्षिकर्णयोः ।। २४९.
पूर्वेण मुष्टिना ग्राह्यस्तनाग्रे दक्षिणे शरः । हरणन्तु ततः कृत्वा शीघ्रं पूर्वं प्रसारयेत् ।। २४९.
नाभ्यन्तरा नैव वाह्या नोद्र्ध्वका नाधरा तथा । न च कुब्जा न चोत्ताना न चला नातिवेष्टिता ।। २४९.
समा स्थैर्य्यगुणोपेता पूर्वदण्डमिव स्थिता । छादयित्वा ततो लक्ष्यं पूर्व्वेणानेन मुष्टिना ।। २४९.
उरसा तूत्थितो यन्ता त्रिकोणविनतस्थितः । स्रस्तांशे निश्चलग्रीवो मयूराञ्चितमस्तकः ।। २४९.
ललाटनासावक्त्रांसाः कुर्य्युरश्वसमम्भवेत् । अन्तरं त्र्यङ्गुलं ज्ञेयं चिवुकस्यांसकस्य च ।। २४९.
प्रथमन्त्रयङ्गुलं ज्ञेयं द्वितीये द्व्यङ्गुलं स्मृतं । तृतीयेऽङ्गुलमुद्दिष्टमायतञ्चिवुकांसयोः ।। २४९.
गृहीत्वा सायकं पुङ्खात्तर्ज्जन्याङ्गुष्ठकेन तु । अनामया पुनर्गृह्य तथा मध्यमयापि च ।। २४९.
तावदाकर्षयेद्वेगाद्यावद्वाणः सुपूरितः । एवं विधमुपक्रम्य मोक्तव्यं विधिवत् खगं ।। २४९.
दृष्टिमुष्टिहतं लक्ष्यं भिन्द्याद्वाणेन सुव्रत । मुक्वा तु पश्चिमं हस्तं क्षिपेद्वेगेन पृष्ठतः ।। २४९.
एतदुच्छेदमिच्छन्ति ज्ञातव्यं हि त्वया द्विज । कर्पूरन्तदधः कार्य्यमाकृष्य तु धनुष्मता ।। २४९.
ऊद्र्ध्वं विमुक्तके कार्ये लक्षश्लिष्टन्तु मध्यमं । श्रेष्ठं प्रकृष्टं विज्ञेयं धनःशास्त्रविशारदैः ।। २४९.
ज्येष्ठस्तु सायको ज्ञेयो भवेद्द्वादशमुष्टयः । एकादश तथा मध्यः कनीयान्दशमुष्टयः ।। २४९.
चतुर्हस्तं धनुः श्रेष्ठं त्रयः साद्र्धन्तु मध्यमं । कनीयस्तु त्रयः प्रोक्तं नित्यमेव पदातिनः ।। २४९.
अग्निरुवाच पूर्णायतं द्विजः कृत्वा ततो मांसैर्गदायूधान् । सुनिर्धौतं धनुः कृत्वा यज्ञभूमौ विधापयेत् ।। २५०.
ततो वाणं समागृह्य दंशितः सुसमाहितः । बध्नीयाद्दृढां कक्षाञ्च दक्षिणाम् ।। २५०.
विलक्षअयमपि तद्वाणं तत्र चैव सुसंस्थितं । ततः समुद्धरेद्वाणं तूणाद्दक्षिणपाणिना ।। २५०.
तेनैव सहितं मध्ये शरं सङ्गृह्य धारयेत् । वामहस्तेन वै कक्षां धनुस्तस्मात्समुद्धरेत् ।। २५०.
अविषण्णमतिर्भूत्वा गुणे पुङ्खं निवेशयेत् । सम्पीड्य सिंहकर्णेन पुङ्खेनापि समे दृढं ।। २५०.
वामकर्णोपविष्टञ्च फलं वामस्य धारयेत् । वर्णान् मध्यमया तत्र वामाङ्गुल्या च धारयेत् ।। २५०.
मनो लक्ष्यगतं कृत्वा मुष्टिना च विधानवित् । दक्षिणे गात्रभागो तु कृत्वा वर्णं विमोक्षयेत् ।। २५०.
ललाटपुटसंस्थानं दण्डं लक्ष्ये निवेशयेत् । आकृष्य ताड़येत्तत्र चन्द्रकं षोड़शङ्गुलम् ।। २५०.
मुक्त्वा वाणं ततः पश्चादुल्काशिक्षस्तदा तया । निगृह्णीयानुमध्यमया ततोऽङ्गुल्या पुनः पुनः ।। २५०.
अक्षिलक्ष्यं क्षिपेत्तूणाच्चतुरस्रञ्च दक्षिणम् । चतुरस्रगतं वेध्यमभ्यसेच्चादितः स्थितः ।। २५०.
तस्मादनन्तरं तीक्ष्णं परवृत्तं गतञ्च यत् । निम्नमुन्नतवेधञ्च अभ्यसेत् क्षिप्रकन्ततः ।। २५०.
वेध्यस्थानेष्वथैतेषु सत्त्वस्य पुटकाद्धनुः । हस्तावापशतैश्चित्रैस्तर्ज्जयेद्दुस्तरैरपि ।। २५०.