सावित्रश्चैव सविता जयेन्द्रौ नैर्ऋतेऽम्बुधौ । रुद्रव्याधी च वायव्ये पूर्व्वादौ कोणगाद्वहिः ।। २४७.
महेन्द्रश्च रविः सत्यो भृशः पूर्व्वेऽथ दक्षिणे। गृहक्षतोऽर्यमधृती गन्धर्वाश्चाथ वारुणे ।। २४७.
पुष्पदन्तोऽसुराश्चैव वरुणो यक्ष एव च । सौमेये भल्लाटसोमौ च अदितिर्धनदस्तथा ।। २४७.
नागः करग्रहश्चैशे अष्टौ दिशि दिशि स्मृताः । आदायन्तौ तु तयोर्देवौ प्रोक्तावत्र गृहेश्वरौ ।। २४७.
. पर्ज्यन्यः प्रथमो देवो द्वितीयश्च करग्रहः । महेन्द्ररविसत्याश्च भृशोऽथ गगन्न्तथा ।। २४७.
रोगो मुख्यश्च वायव्ये दक्षिणे पुष्पवित्तदौ । गृहक्षतो यसभृशौ गन्धर्वो नागपैतृकः ।। २४७.
आप्ये दौवारिकसुग्रीवौ पुष्पदन्तोऽसुरो जलं । यक्ष्मा रोगश्च शोषश्च उत्तरे नागराजकः । २४७.
मुख्यो भल्लाटशशिनौ अदितिश्च कुवेरकः । नागो हुताशः श्रेष्ठो वै शक्रसूर्य्यौ च पूर्वतः ।। २४७.
दक्षे गृहक्षतः पुष्प आप्ये सुग्रीव उत्तमः । पुष्पदन्तो ह्युदग्द्वारि भल्लाटः पुष्पदन्तकः ।। २४७.
शिलेष्टकादिविन्यासं मन्त्रैः प्रार्च्य सुरांश्चरेत् । नन्दे नन्दय वासिष्ठे वसुभिः प्रजया सह ।। २४७.
जये फार्गवदायादे प्रजानाञ्चयमावह । पूर्णेऽङ्गिरसदायादे पूर्णकामं कुरुष्व मां ।। २४७.
भद्रे काश्यपदायादे कुरु भद्रां मतिं मम । सर्ववीजसमायुक्ते सर्वरत्नौषधैर्वृते ।। २४७.
रुचिरे नन्दने नन्दे वासिष्ठे रम्यतामिह। प्रजापतिसुते देवि चतुरस्त्रे महीमये ।। २४७.
सुभगे सुव्रते भद्रे गृहे काश्यपि रम्यतां । पूजिते परमाचार्य्यैर्गन्धमाल्यैरलङ्कृते ।। २४७.
भवभूतिकरे देवि गृहे काश्यापि रम्यतां । अव्यह्ग्ये चाक्षते पूर्णे मुनेरङ्गिरसः सुते ।। २४७.
इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठाङ्गारयाम्यहं । देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे ।। २४७.
मनुष्यधनहस्त्यश्वपशुवृद्धिकरी भव । गृहव्रवेशेऽपि तथा शिलान्यासं समाचरेत् ।। २४७.
उत्तरेण शुभः प्लक्षो वचः प्राक् स्याद् गृहादितः । उदुम्वरश्च याम्येन पश्चिमेऽश्वत्थ उत्तमः ।। २४७.
वामभागे तथोद्यानं कुर्य्याद्वासं गृहे शुभं । सायं प्रातस्तु धर्माप्तौ शीतकाले दिनान्तरे ।। २४७.
वर्षारात्रे भुवः शोषे सेक्तव्या रोपितद्रुमाः । विड़ङ्गघृतसंयुक्तान् सेचयेच्छीतवारिणा ।। २४७.
फलनाशे कुलत्थैश्च माषैर्मुद्गैस्तिलैर्यवैः । घृतशीतपयःसेकः फलपुष्पाय सर्वदा ।। २४७.
मत्स्याम्भसा तु सेकेन वृद्धिर्भवति शाखिनः । आविकाजशकृच्चूर्णं यवचूर्णं तिलानि च ।। २४७.
गोमांसमुदकञ्चेति सप्तरात्रं निधापयेत् । उत्सेकं सर्ववृक्षाणां फलपुष्पादिवृद्धिदं ।। २४७.
मत्स्योदकेन शीतेन आम्राणां सेक इष्यते । प्रशस्तं चाप्यशोकानां कामिनीपादताडनं ।। २४७.
खर्जूरनारिकेलादेर्लवणाद्भिर्विवर्द्धनं । विडङ्गमत्स्यमांसाद्भिः सर्वेषां दोहदं शुभं ।। २४७.
अग्निरुवाच पुष्पैस्तु पूजनाद्विष्णुः सर्वकार्य्येषु सिद्धिदः । मालती मल्लिका यूथी पाटला करवीरकं ।। २४८.
पावन्तिरतिमुक्तश्च१ कर्णिकारः कुरण्टकः । कुब्जकस्तगरो नीपो वाणो वर्वपमल्लिका ।। २४८.
अशोकस्तिलकः कुन्दः पूजायै स्यात्तमालजं । विल्वपत्रं शमीपत्रं पत्रं भृङ्गरजस्य तु ।। २४८.
तुलसीकालतुलसीपत्रं वासकमर्च्चने । केतकीपत्रपुष्पं च पद्मं रक्तोत्पलादिकं ।। २४८.
नार्क्कन्नोन्मत्तकङ्गाञ्ची पूजने गिरिमल्लिका । कौटजं शाल्मलीपुष्पं कण्टकारीभवन्नहि ।। २४८.